Annapoorna AshtottarShatNam Stotra
Annapoorna AshtottarShatNam Stotra is in Sanskrit. These are the one hundred and eight Pious Names of Goddesss AnnaPoorna. These are from Brahmottar Khanda and from ShivRahasya.
श्रीअन्नपूर्णाअष्टोत्तरशतनाम स्तोत्रम्
अस्य श्री अन्नपूर्णाष्टोत्तरशतनामस्तोत्र महामन्त्रस्य ।
ब्रह्मा ऋषिः । अनुष्टुप्चन्दः । श्री अन्नपूर्णेश्र्वरी देवता ।
स्वधा बीजं । स्वाहा शक्तिः । ओं कीलकं ।
मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ओं अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १ ॥
वेदवेद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २ ॥
भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३ ॥
भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४ ॥
भवानी चञ्चला गौरी चारुचन्द्रकळाधरा ।
विशालाक्षी विश्र्वमाता विश्र्ववन्द्या विलासिनी ॥ ५ ॥
आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा ॥ ६ ॥
अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७ ॥
परमानन्ददा शांतिः परमानन्दरुपिणी ।
परमानन्दजननी परमानन्दप्रदायिनी ॥ ८ ॥
परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९ ॥
शुभलक्षणसंपन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १० ॥
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्ताण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११ ॥
पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरुपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२ ॥
असृष्टिस्सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारुढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३ ॥
मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षादह्वरविनाशिनी ॥ १४ ॥
सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ १५ ॥
नाम्नामष्टोत्तरशतमभ्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्धर्थं जपनीयं प्रयत्नतः ॥ १६ ॥
एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरंतरम् ।
स्तुत्वा देवीञ्च सततं सर्वान्कामावाप्नुयात् ॥ १७ ॥
॥ इति श्रीब्रह्मोत्तरखण्डे आगमप्रख्यातिशिवरहस्ये अन्नपूर्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Annapoorna AshtottarShatNam Stotra
श्रीअन्नपूर्णाअष्टोत्तरशतनाम स्तोत्रम्
Custom Search
This comment has been removed by a blog administrator.
ReplyDelete