Friday, November 2, 2018

ShriPad Ashtak श्रीपाद अष्टक


ShriPad Ashtak 
ShriPad Ashtak is in Sanskrit. ShriPad ShriVallabha is the first incarnation of God Dattatreya. Pithapur is the holy place where ShriPad guided many devotees of God Dattatreya.
श्रीपाद अष्टक

वेदान्तवेद्योवरयोगिरुपं । जगत्प्रकाशं सुरलोकपूज्यं ।
इष्टार्थसिद्धि करुणाकरेशं । श्रीपादराजं शरणं प्रपद्ये ॥ १ ॥
योगीशरुपं परमात्वेषं सदानुरागं सहकार्यरुपं ।
वरप्रसादं विबुधैकसेव्यं । श्रीपादराजं शरणं प्रपद्ये ॥ २ ॥
काषायवस्त्रं करदंडधारिणं कमण्डलुं पद्मकरेण शंखम् ।
चक्रंगदांभूषितभूषणाढ्यम् । श्रीपादराजं शरणं प्रपद्ये ॥ ३ ॥
भूलोकसारं भुवनैकनाथं । नाथादिनाथं नरलोकनाथम् ।
कृष्णावतारं करुणाकटाक्षं । श्रीपादराजं शरणं प्रपद्ये ॥ ४ ॥
लोकाभिरामं गुणभूषणाढ्यम् । तेजोमुनि श्रेष्ठमुनिवरेण्यं ।
समस्तदेःखानि भयानिशांतं । श्रीपादराजं शरणं प्रपद्ये ॥ ५ ॥
कृष्णासुतीरे वसतिप्रसिद्धं । श्रीपादश्रीवल्लभ योगिमूर्तिम् ।
सर्वेर्जनैश्र्चिंतितकल्पवृक्षं । श्रीपादराजं शरणं प्रपद्ये ॥ ६ ॥
मन्त्राब्धिराजं युतिराजपुण्यं । त्रैलोक्यनाथं जनसेव्यनाथं ।
आनंदचित्तं अखिलात्मतेजं । श्रीपादराजं शरणं प्रपद्ये ॥ ७ ॥
मन्त्रानुगम्यं महानिर्वितेजं । महत्प्रकाशं महत्शांतमूर्तिम् ।
त्रैलोक्यचित्तं अखिलात्मतेजसं । श्रीपादराजं शरणं प्रपद्ये ॥ ८ ॥
श्रीपादाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्म कृतं पापं स्मरणेन विनश्यति ॥ ९ ॥
॥ श्रीदत्तात्रेयार्पणमस्तु ॥  
ShriPad Ashtak 
श्रीपाद अष्टक


Custom Search

No comments: