Saturday, September 8, 2018

DhundiSwaroopVarnan Stotra ढुंढिस्वरुपवर्णन स्तोत्र


DhundiSwaroopVarnan Stotra 
DhundiSwaroopVarnan Stotra is in Sanskrit. Dhundi is God Ganesh a other roopa. Here in this stotra swaroop of God Dhundi is described.
ढुंढिस्वरुपवर्णन स्तोत्र
जैमिनिरुवाच ॥
न वक्तुं शक्यते राजन् केनापि तत्स्वरुपकम् ।
नोपाधिना युतं ढुंढि वदामि श्रृणु तत्त्वतः ॥ १ ॥
अहं पुरा सुशांत्यर्थं व्यासस्य शरणं गतः ।
मह्यं संकथितं तेन साक्षान्नारायणेन च ॥ २ ॥
तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे ।
यदि तं भजसि यद्य सर्वसिद्धिप्रदायकम् ॥ ३ ॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
संयोगायोगरुपं यद्ब्रह्म णकारवाचकम् ॥ ४ ॥
तयोः स्वामी गणेशश्र्च पश्य वेदे महामते ।
चित्ते निवासकत्वाद्वै चिंतामणिः स कथ्यते ॥ ५ ॥
चित्तरुपा स्वयं बुद्धिर्भ्रान्तिरुपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ ६ ॥
द्विज उवाच 
श्रृणु राजन् गणेशस्य स्वरुपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ ७ ॥
चित्ते चिंतामणिः साक्षात्पंचचित्तप्रचालकः ।
पंचवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ ८ ॥
असंप्रज्ञातसंस्थश्र्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ ९ ॥
भ्रांतिरुपा महामाया सिद्धिर्वामांगसंश्रिता ।
भ्रांतिधारकरुपा सा बुद्धिश्र्च दक्षिणांगके ॥ १० ॥
तयोः स्वामी गणेशश्र्च मायाभ्यां खेल्यते सदा । 
संभजस्व विधानेन तदा संलभसे नृप ॥ ११ ॥
इति ढुंढिस्वरुपवर्णन स्तोत्रं संपूर्णम् ॥
DhundiSwaroopVarnan Stotra
ढुंढिस्वरुपवर्णन स्तोत्र


Custom Search

No comments: