Showing posts with label DhundiSwaroopVarnan Stotra. Show all posts
Showing posts with label DhundiSwaroopVarnan Stotra. Show all posts

Saturday, September 8, 2018

DhundiSwaroopVarnan Stotra ढुंढिस्वरुपवर्णन स्तोत्र


DhundiSwaroopVarnan Stotra 
DhundiSwaroopVarnan Stotra is in Sanskrit. Dhundi is God Ganesh a other roopa. Here in this stotra swaroop of God Dhundi is described.
ढुंढिस्वरुपवर्णन स्तोत्र
जैमिनिरुवाच ॥
न वक्तुं शक्यते राजन् केनापि तत्स्वरुपकम् ।
नोपाधिना युतं ढुंढि वदामि श्रृणु तत्त्वतः ॥ १ ॥
अहं पुरा सुशांत्यर्थं व्यासस्य शरणं गतः ।
मह्यं संकथितं तेन साक्षान्नारायणेन च ॥ २ ॥
तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे ।
यदि तं भजसि यद्य सर्वसिद्धिप्रदायकम् ॥ ३ ॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
संयोगायोगरुपं यद्ब्रह्म णकारवाचकम् ॥ ४ ॥
तयोः स्वामी गणेशश्र्च पश्य वेदे महामते ।
चित्ते निवासकत्वाद्वै चिंतामणिः स कथ्यते ॥ ५ ॥
चित्तरुपा स्वयं बुद्धिर्भ्रान्तिरुपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ ६ ॥
द्विज उवाच 
श्रृणु राजन् गणेशस्य स्वरुपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ ७ ॥
चित्ते चिंतामणिः साक्षात्पंचचित्तप्रचालकः ।
पंचवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ ८ ॥
असंप्रज्ञातसंस्थश्र्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ ९ ॥
भ्रांतिरुपा महामाया सिद्धिर्वामांगसंश्रिता ।
भ्रांतिधारकरुपा सा बुद्धिश्र्च दक्षिणांगके ॥ १० ॥
तयोः स्वामी गणेशश्र्च मायाभ्यां खेल्यते सदा । 
संभजस्व विधानेन तदा संलभसे नृप ॥ ११ ॥
इति ढुंढिस्वरुपवर्णन स्तोत्रं संपूर्णम् ॥
DhundiSwaroopVarnan Stotra
ढुंढिस्वरुपवर्णन स्तोत्र


Custom Search