Showing posts with label श्रीगणपति मङ्गलाष्टकम्. Show all posts
Showing posts with label श्रीगणपति मङ्गलाष्टकम्. Show all posts

Monday, September 1, 2014

Shri Ganapati MangalaAshtakam श्रीगणपति मङ्गलाष्टकम्



Shri Ganapati MangalaAshtakam 
Shri Ganapati MangalaAshtakam is in Sanskrit. It is a praise of God Ganapati.It is the description of what God has done good for us.


श्रीगणपति मङ्गलाष्टकम्
श्रीगणेशाय नमः ॥
गजाननाय गांगेय सहजाय सदात्मने ।
गौरीप्रियतनुजाय गणेशायास्तु मङ्गलम् ॥ १ ॥
नागयज्ञोपवीताय नतविघ्नविनाशिने ।
वन्द्यादिगणनाथाय नायकास्तु मङ्गलम् ॥ २ ॥
इभवक्त्राय चन्द्रादिवन्दिताय चिदात्मने ।
ईशानप्रेमपात्राय चेष्टादायास्तु मङ्गलम् ॥ ३ ॥
सुमुखाय सुशुण्डाप्रोक्षिप्तामृतघटाय च ।
सुरवृन्दनिवेशाय सुखदायास्तु मङ्गलम् ॥ ४ ॥
चतुर्भुजाय चन्द्रार्थविलसन्मस्तकाय च ।
चरणावनतानन्ततारणायास्तु मङ्गलम् ॥ ५ ॥
वक्रतुण्डाय बटवे बन्धाय वरदाय च ।
विरुपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम् ॥ ६ ॥
प्रमोदामोदरुपाय सिद्धिविज्ञानरुपिणे ।
प्रकृष्टपापनाशाय फलदायासतु मङ्गलम् ॥ ७ ॥
मङ्गलम् गणनाथाय मङ्गलं हरसूनवे ।
मङ्गलं विघ्नराजाय विघ्नहर्त्रेऽस्तु मङ्गलम् ॥ ८ ॥
श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरान् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ ९ ॥

॥ इति श्री गणपतिमङ्गलाष्टकं संपूर्णम् ॥
Shri Ganapati MangalaAshtakam श्रीगणपति मङ्गलाष्टकम्


Custom Search