Shri Mahamarika Stotram
श्रीमहामारीका स्तोत्रम्
Shri Mahamarika Stotram is in Sanskrit. It is from Devi Purana. God Brahma has asked Devi to destroy the peoples who are doing bad things such as deceiving people and looting their money, others' money is snatched from them by such bad people. They behave very badly with females and wife's of poor people. So Mahamarika Devi is to destroy such people as per god Brahmas' wish. We have to recite this stotra to please the Goddess Mahamarika. Goddesss''s Mantra is " ॐ भगवती महामारिके मृत्युरुपिणि सकुटुम्बं मामव स्वाहा । " Om Bhagavati Mahamarike MrutyuRupini Skutumbam Mamva Swaha "
श्रीमहामारीका स्तोत्रम्
Shri Mahamarika Stotram
॥ श्रीगणेशाय नमः ॥
देव्युवाच
पुरा ब्रह्मा तु मां स्पृष्ट्वा समाहूयाब्रवीद्वचः ।
शृणु मे वचनं पुत्रि कुरुष्वाद्याथ सादरम् ॥ १ ॥
कलौ जन दुराचारा राजानश्र्च तथाविधाः ।
अतो गत्वा भुवं देवि मृत्युरुपा भवाशु च ॥ २ ॥
परद्रव्यापहर्तारः परस्त्रीनिरताः सदा ।
देवस्वहरणे सक्ता ब्रह्मस्वहरणे नृप ॥ ३ ॥
तेषां दोषवशात्त्वं तु जनान् संहर नित्यशः ।
ब्रह्मणैवं समादिष्टा इन्द्राद्यैः सुरसत्तमैः ॥ ४ ॥
भुवं समागता तत्र जनाञ्ज्ञात्वाथ पापिनः ।
राज्ञो दोषान्पुरस्कृत्य ग्रामे ग्रामे वसाम्यहम् ।
तत्रापि पापिनो हत्वा पुनर्ग्रामान्तरं भजे ॥ ५ ॥
एवं देशानशित्वाऽहं सर्वान्संहृत्य वै जनान् ।
पुनर्गच्छामि सदनं ब्रह्मणः परमेष्ठिनः ॥ ६ ॥
एवं मदागमं ज्ञात्वा बुद्धिमान्पुण्यकृन्नरः ।
विचार्य शास्त्रतो नित्यं जागरुको भवेदलम् ॥ ७ ॥
पतन्ति मूषिका यत्र नृत्यन्ति विरमन्ति च ।
तद्गृहं तत्क्षणं त्यक्त्वा सकुटुम्बो वने विशेत् ॥ ८ ॥
तत्र शान्तिं प्रकुर्वीत महादेव्याः समीरिताम् ।
जपित्वा च महामन्त्रं पठित्वा स्तोत्रमुत्तमम् ॥ ९ ॥
" ॐ भगवती महामारिके मृत्युरुपिणि सकुटुम्बं मामव स्वाहा । "
वने जलाशयं गत्वा ऊर्ध्वबाहुरधोमुखः ।
वीरासने चोपविश्य जपेन् मंत्र सहस्रशः ॥ १० ॥
संस्थाप्य प्रतिमां तत्र धूपदीपोपहारकैः ।
संपूज्य विधिवत्पश्र्चाज्जुहुत्प्रत्यहं नरः ॥ ११ ॥
हरिद्राचूर्णमिश्रेण चित्रान्नेनैव संयुतः ।
समिद्भिः खदिरैर्भक्त्या ब्राह्मणैश्र्च समन्वितः ॥ १२ ॥
पत्नीपुत्रात्मभृत्येश्र्च जुहुयादनुवासरम् ।
होमान्ते च पठेन्नित्यं स्तोत्रमेतज्जितेन्द्रियः ॥ १३ ॥
नमो देवि महादेवि सर्वशोकवशंकरि ।
सर्वदा सर्वतो मह्यं कृपां कुरु कृपामयि ॥ १४ ॥
मेरौ कैलासशिखरे हेमाद्रौ गन्धमादने ।
नित्यप्रियकृतावासे मद्यमांसबलिप्रिये ॥ १५ ॥
महासैन्यसमायुक्ते सर्वप्राणविहिंसके ।
सर्वाभिचारिके देवि सर्वं त्वं रक्ष सर्वदा ॥ १६ ॥
यत्र कुत्र स्थले वापि यस्मिन् कस्मिन् यदा तदा ।
रक्ष मां रक्ष मां देवि सपुत्रपशुभृत्यकम् ॥ १७ ॥
माङ्गल्यं मङ्गलं देहि महामङ्गलदायिनि ।
लोकानामभये सर्वमङ्गले मङ्गलप्रिये ॥ १८ ॥
इति स्तुत्वा महादेवीं भक्तिभावेन संयुतः ।
भुञ्जीत स्वजनैर्युक्तो देवीं तां मनसा स्मरन् ॥ १९ ॥
यदा स्वगृहचैत्येषु ध्वाङ्करावो भविष्यति ।
काकशान्तिं ततः कृत्वा गृहं गन्तुमुपक्रमेत् ॥ २० ॥
सुमुहूर्ते सुनक्षत्रे स्वलंकृत्य ततो गृहम् ।
ब्राह्मणैर्बन्धुभिः सार्धं संविशेद्गृहमात्मनः ॥ २१ ॥
स्वस्तिवाचनविप्रेभ्यः शान्तिसूक्तोक्तिपूर्वकम् ।
दक्षिणां च हिरण्यादिं दद्याच्छाठ्यविवर्जितः ॥ २२ ॥
ब्राह्मणान्भोजयित्वा च देवीं तां प्रार्थयेद्गृहे ।
गच्छ गच्छ महादेवि स्वस्थानं मङ्गलं कुरु ॥ २३ ॥
एवं कृत्यविधानेन मारिकाशान्तिरुत्तमा।
जायते नात्र संदेहः सत्यं सत्यं समीरितम् ॥ २४ ॥
इत्येतत्कथितं देव्या देवेभ्यः स्वात्मसंभवम् ।
माहात्म्यं पठितं येन सोऽपि माङ्गल्यमाप्नुयात् ॥ २५ ॥
लिखितं पुस्तकं यस्य गृहे तिष्ठति सर्वदा ।
तस्य मारीभयं नास्ति सत्यं सत्यं मयोदितम् ॥ २६ ॥
पुस्तकं पूजयेद्यस्तु श्रद्धया परया सदा ।
सोऽपि माङ्गल्यमाप्नोति इहामुत्र परां गतिम् ॥ २७ ॥
सर्वं त्यक्त्वा साधयेत देवीं यत्नैर्धनैरपि ।
स्तोष्यन्ति परया भक्त्या सर्वकामार्थसिद्धये ॥ २८ ॥
बिडाला यत्र नश्यन्ति यत्र नश्यन्ति मूषिकाः ।
स्थानं तच्च परित्यज्य स्थानं शून्यं च कारयेत् ॥ २९ ॥
॥ इति श्रीदेवीपुराणे श्रीमहामारीकास्तोत्रमं संपूर्णम् ॥
Shri Mahamarika Stotram
श्रीमहामारीका स्तोत्रम्
Custom Search
