Showing posts with label समंत्रकं श्रीगणपति स्तोत्रम्. Show all posts
Showing posts with label समंत्रकं श्रीगणपति स्तोत्रम्. Show all posts

Wednesday, September 19, 2018

Samantrakam ShriGanapati Stotram समंत्रकं श्रीगणपति स्तोत्रम्


Samantrakam ShriGanapati Stotram 
Samantrakam ShriGanapati Stotram is in Sanskrit. It is created by Parampoojya Shri Vasuedevanand Sarawzti. Samantrakam means a stotra having mantras hidden in it. This stotra has a mantra hidden in it. The mantra is “ Gananam tvaam Ganapatim Havamahe kavim kavinam ujamastvam Jeshtarajam Brahmanam brahmanspat Aanha “ for finding it we have to wright 3rd letter from each line go up to the last line; then wright 12th letter from each line then mantra is readable.
या समंत्रक गणपति स्तोत्रांतील प्रत्येक ओळींतील तिसरे अक्षर एकामागोमाग लिहील्यानंतर परत प्रत्येक ओळींतील बारावें अक्षर लिहीले कीं " गणानांत्वां गणपतिं हवामहे कविंकवीनामुपमश्रवस्तमं ज्येष्ठ राजं ब्रह्माणां ब्रह्मणस्पत आनः शृण्वंनूतिभिः सीदसादनं " हा वेदोक्त मंत्र गुंफलेला आहे.
समंत्रकं श्रीगणपति स्तोत्रम् 
नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः ।
स्मरणमाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १ ॥
देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः ।
त्यक्त्वा त्वामिह कः कार्यसिद्धिं जंतुर्गमिष्यति ॥ २ ॥
स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ।
चरणस्मरणात्तेऽपि स्युर्ब्रह्माद्या यशस्विनः ॥ ३ ॥
परा परब्रह्मदाता सुराणां त्वं सुरो यतः ।
सन्मतिं देहि मे ब्रह्म-पते ब्रह्मसमीडित ॥ ४ ॥
उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि ।
कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ ५ ॥
इयं महेश ते लीला न परस्पर्श यतो मतिः ।
त्वां न हेरंब कुत्रापि परतन्त्रत्वमीश ते ॥ ६ ॥   
स त्वं कवीनां च कविर्देव आद्यो गणेश्र्वरः ।
अरविंदाक्ष विद्येश प्रसंनः प्रार्थनां शृणु ॥ ७ ॥
त्वमेकदन्त विघ्नेश देव शृण्वर्भकोक्तिवत् ।
सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ ८ ॥ 
श्रीविनायक ते दृष्ट्या कोपि नूनं भवेत्कविः ।
तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ ९ ॥
ममापराधः क्षन्तव्यो नतिभिः संप्रसीद मे ।
न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलं ॥ १० ॥
न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः ।
ज्ञाता वदान्य तेऽस्मीति ब्रुवे साधनवर्जितः ॥ ११ ॥
कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर ।
प्रणामं कुर्वेऽतोऽनेन सदानंद प्रसीद मे ॥ १२ ॥
॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं समंत्रकं श्रीगणपतिस्तोत्रं संपूर्णम् ॥
Samantrakam ShriGanapati Stotram
समंत्रकं श्रीगणपति स्तोत्रम् 



Custom Search