Showing posts with label Aditya Hrudayam. Show all posts
Showing posts with label Aditya Hrudayam. Show all posts

Wednesday, August 5, 2015

Aditya Hrudayam Part 2/2 आदित्यहृदयम् भाग २/२


Aditya Hrudayam 
Aditya Hrudayam is in Sanskrit. It is a very pious and powerful stotra. It is from Bhavishottar Purana. Any devotee reciting it or listening it every day after taking a bath early in the morning, with faith, devotion and concentration is blessed by God Aditya (Surya ). It cures a diseased person. It gives money and property. It gives son/daughter. It gives victory in any endeavor and destroys enemies. Many more good things happen in the life and fulfilling the desires of such devotee.
आदित्यहृदयम् भाग २/२
एतन्मंत्रं समाहूय सर्वसिद्धिकरं परमं ।
ॐह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा ।
ॐ ह्रीं मालीढं स्वाहा । इति मंत्रः ।
त्रिभिश्र्च रोगी भवति ज्वरी भवति पंचभिः ।
जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत् ॥ ९१ ॥
राक्षसेनाभिभूतस्य विकारान् श्रृणु पांडव ।
गायते नृत्यते नग्न आस्फोटयति धावति ॥ ९२ ॥
शिवारुतं च कुरुते हसते क्रंदते पुनः ।
एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्र्वरः ॥ ९३ ॥
किं पुनर्मानुषः कश्र्चिच्छलौचाचारविवर्जितः । 
पीडितस्य न संदेहो ज्वरो भवति दारुणः ॥ ९४ ॥
यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभयंकरम् ।
तदा सलिलमादाय जपेन्मंत्रमिमं बुधः ॥ ९५ ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ।
जयाय जयभद्राय हरिदश्र्वाय ते नमः ॥ ९६ ॥  
स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा । 
अन्यथा च भवेदेषो नश्यते नात्र संशयः ॥ ९७ ॥
स्तवस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे ।
उषलिप्ते शुचौ देशे नियतो वाग्यतः शुचिः ॥ ९८ ॥
वृतं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचिः ।
त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९ ॥
अष्टपत्रं लिखेत्पद्मं लिप्तगोमयमंडले । 
पूर्वपत्रे लिखेत्सूर्यमाग्नेये तु रविं न्यसेत् ॥ १०० ॥
याम्यायां च विवस्वंतं नैर्ऋत्यां तु भगं न्यसेत् ।
प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१ ॥
आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव च ।
मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२ ॥
अतः परतरं नास्ति सिद्धिकामस्य पांडव ।
महातेजः समुद्यंतं प्रणमेत्स कृतांजलिः ॥ १०३ ॥
सकेसराणि पद्मानि करवीराणि चार्जुन ।
तिलतंडुलसंयुक्तकुशगंधोदकेन च ॥ १०४ ॥
रक्तचंदनमिश्राणि कृत्वा वै ताम्रभाजने ।
धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणिं स्पृशेत् ॥ १०५ ॥
मंत्रपूतं गुडाकेश चार्घ्यं दद्याद्गभस्तये ।
सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥ १०६ ॥
स्वागतो भव । सुप्रतिष्ठितो भव । सन्निधौ भव ।
सन्निहितो भव । संमुखो भव । इति पंचमुद्राः ॥
स्फुटयित्वार्हयेत्सूर्यं भुक्तिं मुक्तिं लभेन्नरः ॥ १०७ ॥
ॐ श्रीं विद्यां किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा ।
ॐ श्रीं ह्रीं ह्रः हंसः सूर्याय नमः स्वाहा ।
ॐ श्रींह्रींखंखः लोकाय सर्वमूर्तये स्वाहा ।
ॐ ह्रूं मार्तंडाय स्वाहा । नमोऽस्तु सूर्याय सहस्त्रभानवे 
नमोऽस्तु वैश्र्वानरजातवेदसे । त्वमेव चार्घं प्रतिगृह्ण देव 
देवाधिदेवाय नमो नमस्ते ॥ १०८ ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे ।
दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९ ॥
एहि सूर्यसहस्रांशो तेजोराशे जगत्पते ।
अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ११० ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे । 
ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११ ॥
सर्वदेवाधिदेवाय आधिव्याधिविनाशिने ।
इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ ११२ ॥
नमः सूर्याय शांताय सर्वरोगविनाशिने ।
ममेप्सितं फलं दत्त्वा प्रसीद परमेश्र्वर ॥ ११३ ॥
ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा ।
ॐ सर्वात्मने सूर्याय नमः स्वाहा ।
ॐ अक्षय्यतेजसे नमः स्वाहा । 
सर्वसंकटदारिद्र्यं शत्रुं नाशय नाशय ।
सर्वलोकेषु विश्र्वात्मा सर्वात्मा सर्वदर्शकः ॥ ११४ ॥
नमो भगवते सूर्य कुष्ठरोगान् विखंडय । 
आयुरारोग्यमैश्र्वर्यं देहि देव नमोऽस्तु ते ॥ ११५ ॥ 
नमो भगवते तुभ्यमादित्याय नमो नमः ।
ॐ अक्षय्यतेजसे नमः । ॐ सूर्याय नमः । ॐ विश्र्वमूर्तये नमः । 
आदित्यं च शिवं विंद्याच्छिवमादित्यरुपिणम् ।
उभयोरंतरं नास्ति आदित्यस्य शिवस्य च ॥ ११६ ॥
एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः ।
उदये ब्रह्मणो रुपं मध्याह्ने तु महेश्र्वरः ॥ ११७ ॥
अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्र्च दिवाकरः ।
नमो भगवते तुभ्यं विष्णवे प्रभविश्र्णवे ॥ ११८ ॥
ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ।
श्रीसूर्याय सांगाय सपरिवाराय श्रीसूर्यनारायणायेदमर्घ्य न मम ॥ ११९ ॥
हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः ।
कृतघ्नघ्नाय सत्याय तस्मै सूर्यात्मने नमः ॥ १२० ॥
जयो जयश्र्च विजयो जितप्राणो जितश्रमः ।
मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१ ॥
हरिथहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम् ।
प्रतिदिनमुदये नवं नवं शरणमुपैमी हिरण्यरेतसम् ॥ १२२ ॥
न च व्यालाः प्रबाधंते न व्याधिभ्यो भयं भवेत् ।
न नागेभ्यो भयं चैव न च भूतभयं क्वचित् ॥ १२३ ॥
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च ।
दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥ १२४ ॥
सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् ।
एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५ ॥
अश्र्वमेधसहस्त्रस्य च वाजपेयशतस्य च ।
कन्याकोटिसहस्त्रस्य दत्तस्य फलमाप्नुयात् ॥ १२६ ॥
इदमादित्यहृदयं योऽधीते सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महियते ॥ १२७ ॥
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः ।
प्रत्यक्षो भगवान् विष्णुर्येन विश्र्वं प्रतिष्ठितम् ॥ १२८ ॥
नवतिर्योजनं लक्षं सहस्त्राणि शतानि च ।
यावद्धटीप्रमाणेन तावच्चरति भास्करः ॥ १२९ ॥
गवां शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं लभते विद्वान शांतात्मा स्तौति यो रविम् ॥ १३० ॥
योऽधीते सूर्यहृदयं स फलं सकलं लभेत् ।
अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१ ॥
ब्रह्मलोके देवलोके जायते मानुषेऽपि वा ।
जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ १३२ ॥
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय ॥ १३३ ॥
विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे ।
स्वयंभुवे दीप्तसहस्त्र चक्षुषे सुरोत्तमायामिततेजसे  नमः ॥ १३४ ॥
सुरैरनेकैः परिसेविताय हिरण्यगर्भाय हिरण्मयाय ।
महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५ ॥
आदित्यश्र्चार्चितो देव आदित्यः परमं पदम् ।
आदित्यो मातृकाभूत आदित्यो वाङ्मयं जगत् ॥ १३६ ॥
आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।
नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७ ॥
त्रिगुणं च त्रितत्त्वं च त्रयो देवास्रयोऽग्नयः ।
त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८ ॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ १३९ ॥
यस्योदयेनेह जगत्प्रबुध्द्यते प्रवर्तते चाखिलकर्मसिद्धये ।
ब्रह्मेंद्रनारायणरुद्रवंदितः स नः सदा यच्छतु मंगलं रविः ॥ १४० ॥
नमोऽस्तु सूर्याय सहस्त्ररश्मये सहस्त्रशाखान्वितसंभवात्मने ।
सहस्त्रयोगोद्भव भावभागिने सहस्त्रसंख्यायुगधारिणे नमः ॥ १४१ ॥
यन्मण्डलं दिप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
दरिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२ ॥
यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तदेव रुपं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३ ॥
यन्मंडलं ज्ञानमयं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरुपम् ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४ ॥
यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
तत्सर्वंपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५ ॥
यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुःसामसु संप्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४६ ॥
यन्मंडलं वेदविदो विदंति गायंति यच्चारणसिद्धसंघाः ।
यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७ ॥
यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्र्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८ ॥
यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९ ॥
यन्मंडलं विश्र्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५० ॥  
यन्मंडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१ ॥ 
यन्मंडलं ब्रह्मविदो विदंति गायंति यच्चारणसिद्धसंघाः ।
यन्मंडलं वेदविदः स्मरंति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२ ॥
यन्मंडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३ ॥
मंडलाष्टमिदं पुण्यं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १५४ ॥
ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान्मकरकुंडलवान्किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥ १५५ ॥
सशंखचक्र रविमंडले स्थितं कुशेशयाक्रांतमनन्तमच्युतम् ।
भजामि बुध्द्या तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६ ॥
एवं ब्रह्मादयो देवा ऋषयश्र्च तपोघनाः ।
कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥ १५७ ॥
वेदवेदांगशारीरं दिव्यदीप्तिकरं परम् ।
रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८ ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः । 
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९ ॥
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६० ॥
पंचमं तु सहस्त्रांशुः षष्ठं चै त्रिलोचनः ।
सप्तमं हरिदश्र्वश्र्च अष्टंम च विभावसुः ॥ १६१ ॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ १६२ ॥
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।
दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ १६३ ॥
दद्रूकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थप्रदं चैव सर्वकामफलप्रदम् ॥ १६४ ॥
यः पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ १६५ ॥
अग्निमीळे नमस्तुभ्यमिषेत्वोर्जेस्वरुपिणे ।
अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषांपते ॥ १६६ ॥
शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
पंचमायोपवेदाय नमस्तुभ्यं नमो नमः ॥ १६७ ॥
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्र्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ १६८ ॥
आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने ।
जन्मांतरसहस्त्रेषु दारिद्र्यं नोपजायते ॥ १६९ ॥
उदयगिरिमुपेतं भास्करं पद्महस्तं 
निखिलभुवननेत्रं रत्नरत्नोपमेयम् ।
तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां 
सुरवरमभिवंदे सुंदरं विश्र्ववंद्यम् ॥ १७० ॥
॥ इति श्रीभविष्योत्तरपुराणे आदित्यहृदयं संपूर्णम् ॥ 
Aditya Hrudayam 
आदित्यहृदयम्

Custom Search

Aditya Hrudayam 1/2 आदित्यहृदयम् भाग १/२


Aditya Hrudayam 
Aditya Hrudayam is in Sanskrit. It is a very pious and powerful stotra. It is from Bhavishottar Purana. Any devotee reciting it or listening it every day after taking a bath early in the morning, with faith, devotion and concentration is blessed by God Aditya (Surya ). It cures a diseased person. It gives money and property. It gives son/daughter. It gives victory in any endeavor and destroys enemies. Many more good things happen in the life and fulfilling the desires of such devotee.
॥ आदित्यहृदयम् ॥
शतानिक उवाच ।
कथमादित्यमुद्यंतमुपतिष्ठेद्द्विजोत्तम ।
एतन्मे ब्रूहि विप्रेंद्र प्रपद्ये शरणं तव ॥ १ ॥
सुमंतुरुच ।
इदमेव पुरा पृष्टं शंखचक्रगदाधरम् ।
प्रणम्य शिरसा देवमर्जुनेन महात्मना ॥ २ ॥
कुरुक्षेत्रे महाराज निवृत्ते भारते रणे ।
कृष्णनाथं समासाद्य प्रार्थयित्वाऽब्रवीदिदम् ॥ ३ ॥
अर्जुन उवाच ।
ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा । 
मया कृष्ण परिज्ञातं वाङ्मयं सचराचरम् ॥ ४ ॥
सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव ।
भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥ ५ ॥
सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत् ।
तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥ ६ ॥
श्रीभगवानुवाच ।
रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया ।
वक्ष्येऽहं सूर्यविन्यासं श्रृणु पांडव यत्नतः ॥ ७ ॥
अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन ।
तदहं संप्रवक्ष्यामि आदित्यमध्यावसानकम् ॥ ८ ॥
अर्जुन उवाच ।
नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशाः ।
कथमादित्यमुद्यंतमुपतिष्ठेत्सनातनम् ॥ ९ ॥
श्रीभगवानुवाच ।
साधु पार्थ महाबाहो बुद्धिमानसि पांडव ।
यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः ॥ १० ॥ 
सर्वमंगलमांगल्य सर्वपापप्रणासहनम् ।
सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ ११ ॥
अमित्रदमनं पार्थ संग्रामे जयमुत्तमम् ।
वर्धनं धनपुत्राणामादित्यहृदयं श्रृणु ॥ १२ ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥ १३ ॥
देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन ।
विघ्नान्यनेकरुपाणि नश्यंति स्मरणादपि ॥ १४ ॥
तस्मात्सर्वप्रयत्नेन सूर्यमाराधयेत्सदा । 
आदित्यहृदयं नित्यं जाप्यं तच्छृणु पांडव ॥ १५ ॥
यज्जपन्मुच्यते जंतुर्दारिद्र्यादाशु दुस्तरात् ।
लभते च महासिद्धिं कुष्ठव्याधिविनाशनम् ॥ १६ ॥
अस्मिन्मंत्रे ऋषिश्छंदो देवता शक्तिरेव च ।
सर्वमेव महाबाहो कथयामि तवाग्रतः ॥ १७ ॥
मयातो गोपितं न्यासं सर्वशास्त्रप्रबोधितम् ।
अथ ते कथयिष्यामि उत्तमं मंत्रमेव च ॥ १८ ॥
ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य । श्रीकृष्ण ऋषिः ।
श्रीसूर्यात्मा त्रिभुवनेश्र्वरो देवता । अनुष्टुप् छंदः ।
हरितहयरथं दिवाकरं घृणिरिति बीजम् ।
ॐ नमो भगवते जितवैश्र्वानर जातवेदसे इति शक्तिः ।
ॐ नमो भगवते आदित्याय नमः इति कीलकम् ।
ॐ अग्निगर्भदेवता इति मंत्रः । 
ॐ नमो भगवते तुभ्यमादित्याय नमो नमः ।
श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ।
अथ न्यासः ।
ॐ र्‍हॅां अंगुष्ठाभ्यां नमः । ॐ हृीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ हृौं कनिष्ठिकाभ्यां नमः । ॐ हृः करतलकरपृष्ठाभ्यां नमः ।
ॐ हृां हृदयाय नमः । ॐ हृीं शिरसे स्वाहा ।
ॐ  ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुम् ।
ॐ हृौं नेत्रत्रयाय वौषट् । ॐ हृः अस्त्राय फट् ।
ॐ हृांहृींह्रूंह्रैंहृौंहृः इति दिग्बंधः ।
अथ ध्यानम् ।
भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रंजितश्र्चारुकेशो 
भास्वान्वै दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ।
विश्र्वाकाशावकाशग्रहपतिशिखरे भाति यश्र्चोदयाद्रौ 
सर्वानंदप्रदाता हरिहरनमितः पातु मां विश्र्वचक्षुः ॥ १ ॥
इति ध्यानम् ।
अथ प्रार्थना ।
पूर्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् । 
मायाबीजं दलाष्टाग्रे यंत्रमुद्धारयेदिति ॥ २ ॥
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ।
मार्तंडं तपनं चेति दलेष्वष्टसु योजयेत् ॥ ३ ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।
अमोघा विद्युता चेति मध्ये श्रीः सर्वतोमुखी ॥ ४ ॥
सर्वज्ञः सर्वगश्र्चैव सर्वकारणदेवता । 
सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५ ॥
सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः । 
हितः स्वर्गापवर्गश्र्च भास्करेश नमोऽस्तु ते ॥ ६ ॥
इति प्रार्थना ।
नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे ।
अनंतशक्ते मणिभूषणेन ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥ ७ ॥
अर्कं तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।
विन्यसेन्नेत्रयोः सूर्यं कर्णयोश्र्च दिवाकरम् ॥ ८ ॥
नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ।
पर्जन्यमोष्ठयोश्र्चैव तीक्ष्णं जिह्वांतरे न्यसेत् ॥ ९ ॥
सुवर्णरेतसं कंठे स्कंधयोस्तिग्मतेजसम् ।
बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत् ॥ १० ॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।
हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ ११ ॥
उदरे तु यमं विद्यादादित्यं नाभिमंडले ।
कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२ ॥
जान्वोस्तु गोपतिं न्यस्य सवितारं तु जंघयोः । 
पादयोश्र्च विवस्वंतं गुल्फयोश्र्च दिवाकरम् ॥ १३ ॥
बाह्यतस्तु तमोध्वंसं भगमध्यंतरे न्यसेत् ।
सर्वांगेषु सहस्त्रांशुं दिग्विदिक्षु भगं न्यसेत् ॥ १४ ॥
इति दिग्बंधः ॥   
एष आदित्यविन्यासो देवानामपि दुर्लभः ।
इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥ १५ ॥
कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः ।
सर्पादपि भयं नैव संग्रामेषु पथेष्वपि ॥ १६ ॥
रिपुसंघट्टकालेषु तथा चोरसमागमे । 
त्रिसंध्यं जपतो न्यासं महापातकनाशनम् ॥ १७ ॥
विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् ।
शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८ ॥
कुष्ठव्याधिस्तथा दद्रूरोगाश्र्च विविधाश्र्च ये ।
जपमानस्य नश्यंति श्रृणु भक्त्या तदर्जुन ॥ १९ ॥
आदित्यो मंत्रसंयुक्त आदित्यो भुवनेश्र्वरः ।
आदित्यान्नापरो देवो ह्यादित्यः परमेश्र्वरः ॥ २० ॥
आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत् ।
यदादित्यमयं तेजो मम तेजस्तदर्जुन ॥ २१ ॥
आदित्यं मंत्रसंयुक्तमादित्यं भुवनेश्र्वरम् ।
आदित्यं ये प्रपश्यमति मां पश्यंति न संशयः ॥ २२ ॥
त्रिसंध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः ।
न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥ २३ ॥
एतत्ते कथितं पार्थ आदित्यहृदयं मया ।
मुच्यते सर्वपापेभ्यः सूर्यलोके महीयते ॥ २४ ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ॥ २५ ॥
सुवर्णस्फटिको भानुः स्फुरितो विश्र्वतापनः ।
रविर्विश्र्वो महातेजाः सुवर्णः सुप्रबोधकः ॥ २६ ॥
हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः ।
मार्तंडो गोपतिः श्रीमान्कृतज्ञश्र्च प्रतापवान् ॥ २७ ॥
तमिस्रहा भगो हंसो नासत्यश्र्च तमोनुदः ।
शुद्धो विरोचनः केशी सहस्त्रांशुर्महाप्रभुः ॥ २८ ॥
विवस्वान्पूषणो मृत्युर्मिहिरो जामदग्न्यजित् ।
धर्मरश्मिः पतंगश्र्च शरण्यो मित्रहा तपः ॥ २९ ॥
दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ।
शंभुश्र्चित्रांगदः सौम्यो हव्यकव्यप्रदायकः ॥ ३० ॥
अंशुमानुत्तमो देव ऋग्यजुः साम एव च ।
हरिदश्र्वस्तमोदारः सप्तसप्तिर्मरीचिमान् ॥ ३१ ॥
अग्निगर्भोऽदितेः पुत्रः शंभुस्तिमिरनाशनः ।
पूषा विश्र्वंभरी मित्रः सुवर्णः सुप्रतापवान् ॥ ३२ ॥
अतपी मंडली भास्वान् तपनः सर्वतापनः ।
कृतविश्र्वो महातेजाः सर्वरत्नमयोद्भवः ॥ ३३ ॥
अक्षरश्र्च क्षरश्र्चैव प्रभाकरविभाकरौ ।
चंद्रश्र्चंद्रांगदः सौम्यो हव्यकव्यप्रदायकः ॥ ३४ ॥
अंगारकोंऽगदो हस्ती रक्तांगश्र्चांगवर्धनः ।
बुधो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्धनः ॥ ३५ ॥
बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः ।
शुक्रस्त्वं शुक्लरेतास्त्वं शुक्लांगः शुक्लभूषणः ॥ ३६ ॥
शनिमान्शनिरुपस्त्वं शनैर्गच्छसि सर्वदा । 
अनादिरादिरादिस्तेजोराशिर्महातपाः ॥ ३७ ॥
अनादिरादि रुपस्त्वमादित्यो दिक्पतिर्यमः ।
भानुमान्भानुरुपस्त्वं स्वर्भानु र्भानुदीप्तिमान् ॥ ३८ ॥
धूमकेतुर्महाकेतुः सर्वकेतुरनुत्तमः ।
तिमिरावरणः शंभुः स्रष्टा मार्तंड एव च ॥ ३९ ॥
नमः पूर्वाय गिरये पश्र्चिमाय नमो नमः ।
नमोत्तराय गिरये दक्षिणाय नमो नमः ॥ ४० ॥
नमो नमः सहस्रांशो ह्यादित्याय नमो नमः ।
नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने ॥ ४१ ॥
नमो विश्र्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ।
ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नमः ॥ ४२ ॥ 
प्रदीप्ताय प्रगल्भाय युगांताय नमो नमः । 
नमस्ते होतृपतये पृथ्विवीपतये नमः ॥ ४३ ॥
नमोंकार वषट्कार सर्वयज्ञ नमोऽस्तु ते ।
ऋग्वेदादिर्यजुर्वेद सामवेद नमोऽस्तु ते ॥ ४४ ॥
नमो हाटकवर्णाय भास्कराय नमो नमः ।
जयाय जयभद्राय हरिदश्र्वाय ते नमः ॥ ४५ ॥
दिव्याय दिव्यरुपाय ग्रहाणां पतये नमः ।
नमस्ते शुचये नित्यं नमः कुरुकुलात्मने ॥ ४६ ॥
नमस्त्रैलोक्यनाथाय भूतानां पतये नमः ।
नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥ ४७ ॥
त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥ ४८ ॥
योजनानां सहस्त्रे द्वे द्वे शते द्वे च योजने । 
एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ॥ ४९ ॥
नवयोजनलक्षाणि सहस्त्रद्विशतानि च ।
यावद्धटीप्रमाणेन क्रममाण नमोऽस्तु ते ॥ ५० ॥
अग्रतश्र्च नमस्तुभ्यं पृष्ठतश्र्च सदा नमः ।
पार्श्र्वतश्र्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा ॥ ५१ ॥
नमः सुरारिहंत्रे च सोमसूर्याग्निचक्षुषे ।
नमो दिव्याय व्योमाय सर्वतंत्रमयाय च ॥ ५२ ॥
नमो वेदांतवेद्याय सर्वकर्मादिसाक्षिणे ।
नमो हरितवर्णाय सुवर्णाय नमो नमः ॥ ५३ ॥
अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा ।
चैत्रमासे तु वेदांगो भानुर्वैशाखतापनः ॥ ५४ ॥
ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः ।
गभस्तिः श्रावणे मासे यमो भाद्रपदे तथा ॥ ५५ ॥  
इषे सुवर्णरेताश्र्च कार्तिके च दिवाकरः ।
मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः ॥ ५६ ॥
पुरुषस्त्वधिके मासे मासाधिक्येषु कल्पयेत् ।
इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ ५७ ॥
उग्ररुपा महात्मानस्तपंते विश्र्वरुपिणः ।
धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥ ५८ ॥
सर्वपापहरं चैवमादित्यं संप्रपूजयेत् ।
एकधा दशधा चैव शतधा च सहस्त्रधा ॥ ५९ ॥॥
तपंते विश्र्वरुपेण सृजंति संहरंति च ।
एष विष्णुः शिवश्र्चैव ब्रह्मा चैव प्रजापतिः ॥ ६० ॥
महेंद्रश्र्चैव कालश्र्च यमो वरुण एव च ।
नक्षत्र ग्रहताराणामधिपो विश्र्वतापनः ॥ ६१ ॥
वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयंप्रभुः ।
एष देवो हि देवानां सर्वभाष्यायते जगत् ॥ ६२ ॥
एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा ।
एष लोकानुलोकश्र्च सप्तद्वीपाश्र्च सागराः ॥ ६३ ॥
एष पाताल सप्तस्थो दैत्यदानवराक्षसाः । 
एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४ ॥
एष एव प्रजा नित्यं संवर्धयति रश्मिभिः ।
एष यज्ञा स्वधा स्वाहा ह्रीः श्रीश्र्च पुरुषोत्तमः ॥ ६५ ॥
एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः ।
ईश्र्वर सर्वभूतानां परमेष्ठी प्रजापतिः ॥ ६६ ॥
कालात्मा सर्वभूतात्मा वेदात्मा विश्र्वतोमुखः । 
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ ६७ ॥
दारिद्र्यव्यसनध्वंसी श्रीमान्देवो दिवाकरः । 
विकर्तनो विवस्वांश्र्च मार्तंडो भास्करो रविः ॥ ६८ ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्र्वरः ।
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ॥ ६९ ॥
तपनस्तापनश्र्चैव शुचिः सप्ताश्र्ववाहनः ।
गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः ॥ ७० ॥
आयुरारोग्यमैश्र्वर्यं नरा नार्यश्र्च मंदिरे ।
यस्य प्रसादात्संतुष्टिरादित्यं जपेत् ॥ ७१ ॥
इत्येतैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः ।
प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि ॥ ७२ ॥
पातकान्मुच्यते पार्थ व्याधिभ्यश्र्च न संशयः ।
एकसंध्यं द्विसंध्यं वा सर्वपापैः प्रमुच्यते ॥ ७३ ॥
त्रिसंध्यं जपमानस्तु पश्येच्च परमं पदम् ।
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते ॥ ७४ ॥
यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते ।
दद्रुस्फोटककुष्ठानि मंडलानि विषूचिका ॥ ७५ ॥
सर्वव्याधिमहारोगभूतबाधास्तथैव च ।
डाकिनी शाकिनी चैव महारोगभयं कुतः ॥ ७६ ॥
ये चान्ये दुष्टरोगाश्र्च ज्वरातीसारकादयः ।
जपमानस्य नश्यंति जीवेच्च शरदां शतम् ॥ ७७ ॥
संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् ।
अशीर्षां पश्यति च्छायामहोरात्रं धनंजय ॥ ७८ ॥
यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः ।
प्रातः स्नाने कृते पार्थ एकाग्रकृतमानसः ॥ ७९ ॥
सुवर्णचक्षुर्भवति न चांधस्तु प्रजायते । 
पुत्रवान् धनसंपन्नो जायते चारुजः सुखी ॥ ८० ॥
सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत् ।
आदित्यहृदयं पुण्यं सूर्यनामविभूषितम् ॥ ८१ ॥
श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते । 
अतः परतरं नास्ति सिद्धिकामस्य पांडव ॥ ८२ ॥
एतज्जपस्व कौंतेय येन श्रेयो ह्यवाप्स्यसि ।
आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः ॥ ८३ ॥
भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः ।
गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः ॥ ८४ ॥
पातकानि च सर्वाणि दहत्येव न संशयः ।
य इदं श्रृणुयान्नित्यं जपेद्वापि समाहितः ॥ ८५ ॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते । 
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥ ८६ ॥
कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा ।
यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥ ८७ ॥
उदयाचलमारुढं भास्करं प्रणतः स्थितः ।
जपते मानवो भक्त्या श्रृणुयाद्वापि भक्तितः ॥ ८८ ॥
स याति परमं स्थानं यत्र देवो दिवाकरः ।
अमित्रदमनं पार्थ यदा कर्तुं समारभेत् ॥ ८९ ॥
सम्यक् प्रतिकृतिं कृत्वा शत्रोश्र्च रणपांसुभिः ।
आक्रम्य वामपादेन आदित्यहृदयं जपेत् ॥ ९० ॥
Aditya Hrudayam 
आदित्यहृदयम्

Custom Search