Showing posts with label GaneshStavarajaha. Show all posts
Showing posts with label GaneshStavarajaha. Show all posts

Sunday, September 15, 2013

GaneshStavarajaha गणेशस्तवराजः

GaneshStavarajaha 
GaneshStavarajaha is in Sanskrit. It is from Rudrayamal. It starts with “Bhagwan Uvacha”; hence it is a praise of God Ganesh made by Bhagwan that is by Gods God. 
Benefits of reciting GaneshStavaraja: Any devotee who recites this Ganesh Stotra of eight stanzas after taking a bath and purifying his/her body and mind and with devotion, faith and concentration, thrice in a day is taken care by Goddess Sharda with all her Siddhis’ and wealth thus all the desires of such devotee are fulfilled by the Goddess Sharda. 

गणेशस्तवराजः 
श्रीगणेशाय नमः ॥ श्रीभगवान उवाच । 
गणेशस्य स्तवं वक्षे कलौ झटिति सिद्धिदम् । 
न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥ १ ॥ 
न मार्जनं च पञ्चाशत्सहस्रजपमात्रतः । 
सिद्धयत्यर्चनतः पञ्चशतब्राह्मणभोजनात् ॥ २ ॥ 
अस्य श्रीगणेशस्तवराजमंत्रस्य 
भगवान् सदाशिव ऋषिः । 
अनुष्टुप् छन्दः । महागणपतिर्देवता । 
श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः ॥ 
विनायकैकभावनासमर्चनासमर्पितं । 
प्रमोदकैः प्रमोदकैः प्रमोदमोदमोदकम् ।। 
यदर्पितं सदर्पितं नवान्नधान्यनिर्मितं ।।। 
न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ १ ॥ 
सजातिकृद्विजातिकृत्स्वनिष्ठभेदवर्जितं । 
निरञ्जनं च निर्गुणं निराकृति ह्यनिष्क्रियम् ।। 
सदात्मकं चिदात्मकं सुखात्मकं परं पदं ।।। 
भजामि तं गजाननं स्वमाययात्तविग्रहम् ॥ २ ॥ 
गणाधिप त्वमष्टमूर्तिरीशसूनुरीश्र्वरः । 
त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।। 
त्वमेव दीक्षितः क्षितिर्निशाकरः प्रभाकरः ।।। 
चराचरप्रचार हेतुरन्तरायशान्तिकृत् ॥ ३ ॥ 
अनेकदं तमालनीलमेकदन्तसुन्दरं । 
गजाननं नमोऽगजाननामृताब्धिचन्दिरम् ।। 
समस्तवेदवादसत्कलाकलापमन्दिरं ।।। 
महान्तरायकृत्तमोऽर्कमाश्रितोन्दुरुं परम् ॥ ४ ॥ 
सरत्नहेमघण्टिकानिनादनूपुरस्वनैर् । 
मृदङ्गतालनादभेदसाधनानुरुपतः ।। 
धिमिद्धिमित्तथोङ्गथोङ्गधैयिधैयिशब्दतो ।।। 
विनायकः शशाङ्कशेखरः प्रह्रष्य नृत्यति ॥ ५ ॥ 
सदा नमामि नायकैकनायकं विनायकं । 
कलाकलापकल्पनानिदानमादिपूरुषम् ।। 
गणेश्र्वरं गुणेश्र्वरं महेश्र्वरात्मसंभवमं ।।। 
स्वपादपद्मसेविनामपारवैभवप्रदम् ॥ ६ ॥ 
भजे प्रचण्डतुन्दिलं सदन्दशूकभूषणं । 
सनन्दनादिवन्दितं समस्तसिद्धसेवितम् ।। 
सुरासुरौघयोः सदा जयप्रदं भयप्रदं ।।। 
समस्तविघ्नघातिनं स्वभक्तपक्षपातिनम् ॥ ७ ॥ 
कराम्बुजात्तकङ्कणः पदाब्जकिङ्किणीगणो । 
गणेश्र्वरो गुणार्णवः फणीश्र्वराङ्गभूषणः ।। 

जगत्रयान्तरायशान्तिकारकोऽस्तु तारको ।।। 
भवार्णवस्यघोरदुर्गहा चिदेकविग्रहः ॥ ८ ॥ 
यो भक्तिप्रवणश्र्चराचरगुरोः स्तोत्रं गणेशाष्टकं 
शुद्धः संयतचेतसा यदि पठेन्नित्यं त्रिसन्ध्यं पुमान् ।। 
तस्य श्रीरतुला स्वसिद्धिसहिता श्रीशारदा सर्वदा 
स्यातां तत्परिचारिके किल तदा क्वाः कामनानां कथाः ॥ ९ ॥ 
॥ इति श्रीरुद्रयामलोक्तो गणेशस्तवराजः संपूर्ण ॥

GaneshStavarajaha  गणेशस्तवराजः


Custom Search