Showing posts with label Lakhmi. Show all posts
Showing posts with label Lakhmi. Show all posts

Monday, September 29, 2014

ShriMahalaxmi Stotram श्रीमहालक्ष्मी स्तोत्रम्


ShriMahalaxmi Stotram 
Shri Mahalaxmi Stotram is in Sanskrit. It is a very beautiful creation of Sri SridharSwami. He was a disciple of Ramdas Swami. SridharSwami has created many stotras.
श्रीमहालक्ष्मी स्तोत्रम्
सर्वसौभाग्यरुपा त्वं सर्वसम्पत्स्वरुपिणी । 
सर्वकल्याणरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ १ ॥
जनश्रीस्त्वं वनश्रीस्त्वं मङ्गलश्रीः स्वभावतः ।
ब्रह्मश्रीश्र्च मोक्षश्रीश्र्च महालक्ष्मि नमोऽस्तु ते ॥ २ ॥ 
शान्तिस्तुष्टिस्तथापुष्टिर्मेधा कीर्तिश्र्च सन्मतिः ।
दैविसमपत्स्वरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ३ ॥
मोक्षसाधनसम्पत्तिरायुरारोग्यसंसृतिः ।
सर्वैश्र्वर्यस्वरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ४ ॥
भक्तियोगा ब्रह्मनिष्ठात्वमेवैकाखिलेश्र्वरी ।
तदैव ब्रह्मरुपा च महालक्ष्मि नमोऽस्तु ते ॥ ५ ॥
सच्चिदानन्दरुपा त्वं जगन्माता जगत्पिता ।
विष्णुब्रह्ममहेशास्त्वं महालक्ष्मि नमोऽस्तु ते ॥ ६ ॥ 
यतो हि जायते विश्र्वं यतश्र्च परिपाल्यते ।
यस्मिन् संलीयते ह्यन्ते महालक्ष्मि नमोऽस्तु ते ॥ ७ ॥ 
यच्च किञ्चित् सुष्ठुजातं यच्च किञ्चित् शुभं सुखम् ।
तदेवैकात्मरुपेण महालक्ष्मि नमोऽस्तु ते ॥ ८ ॥ 
वेदस्मृतिः सदाचार आत्मतुष्टिर्गुरोः कृपा ।
सर्वोपास्यस्वरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ९ ॥ 
वशमेवाद्वयं ब्रह्म नित्यानन्दैकमात्रतः । 
भेदबुद्धिमपास्यैवं महालक्ष्मि नमोऽस्तु ते ॥ १० ॥
॥ इती श्री श्रीधरस्वामी विरचितम् महालक्ष्मिस्तोत्रं संपूर्णम् ॥

ShriMahalaxmi Stotram 
श्रीमहालक्ष्मी स्तोत्रम्


Custom Search