Showing posts with label MahaSaraswati. Show all posts
Showing posts with label MahaSaraswati. Show all posts

Friday, June 26, 2015

Moorti Rahasyam मूर्तिरहस्यम्


Moorti Rahasyam 
Moorti Rahasyam is in Sanskrit. It is from Markandeya Purana. When we perform the Patha of Shri DurgaSapta Shati; after reading/listening Adhyays from 1 to 13, and performing Navarn Japa, we have to read/listen Pradhanikam Rahasyam followed by reading/listening Vaikrutikam Rahasyam then Moorti Rahasyam.
अथ मूर्तिरहस्यम्
ऋषिरुवाच 
ॐ नन्दा भगवती नाम या भविष्यति नन्दजा ।
स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्रयम् ॥ १ ॥
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २ ॥
कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा ।
इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना ॥ ३ ॥
या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ ।
तस्याः स्वरुपं वक्ष्यामि श्रृणु सर्वभयापहम् ॥ ४ ॥
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥ ५ ॥ 
रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका ।
पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्  ॥ ६ ॥
वसुधेव विशाला सा सुमेरुयुगलस्तनी ।
दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ॥ ७ ॥
कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी ।
भक्तान् सम्पाययेद्देवी सर्वकामदुघौ स्तनौ ॥ ८ ॥
खड्गं पात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्र्वरीति च ॥ ९ ॥
अनया व्याप्तमकखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ १० ॥ 
( भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् । )
अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ११ ॥
शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १२ ॥
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखापूर्णं कमलं कमलालया ॥ १३ ॥
पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युभयापहम् ॥ १४ ॥
कार्मुकं च स्फुरत्कान्ति बिभ्रती परमेश्र्वरी ।
शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ १५ ॥
विशोका दुष्टदमनी शमनी दुरितापदाम् ।
उमा गौरी सती चण्डी कालिका सा च पार्वती ॥ १६ ॥
शाकम्भरीं स्तुवन् ध्यायञ्जपन् सम्पूजयन्नमन् ।
अक्षय्यमश्र्नुते शीघ्रमन्नपानामृतं फलम् ॥ १७ ॥
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनपयोधरा ॥ १८ ॥
चन्द्रहासं च डमरुं शिरः पात्रं च बिभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ १९ ॥
तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रानुलेपना देवी चित्रदाभरणभूषिता ॥ २० ॥
चित्रभ्रमरपाणिः सा महामारीति गीयते ।
इत्येता मूर्तयो देव्या याः ख्याता वसुधाधिप ॥ २१ ॥
जगन्मातुश्र्चण्डिकायाः कीर्तिताः कामधेनवः ।
इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया ॥ २२ ॥
व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम् ।
तस्मात् सर्वप्रयत्नेन देवीं जप निरन्तरम् ॥ २३ ॥
सप्तजन्मार्जितैर्घोरैर्ब्रह्महत्यासमैरपि ।
पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषैः ॥ २४ ॥
देव्या ध्यानं मया ख्यातं गुह्याद् गुह्यतरं महत् ।
तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ २५ ॥
( एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि । 
सर्वरुपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्र्वरुपां तां नमामि परमेश्र्वरीम् ॥  )   
॥ इति मूर्तिरहस्यं सम्पूर्णम् ॥ 
Moorti Rahasyam 
मूर्तिरहस्यम्

   

Custom Search

Tuesday, June 23, 2015

Vaikrutikam Rahasyam वैकृतिकं रहस्यम्


Vaikrutikam Rahasyam 
Vaikrutikam Rahasyam is in Sanskrit. It is from Markandeya Purana. When we perform the Patha of Shri DurgaSapta Shati; after reading/listening Adhyays from 1 to 13, and performing Navarn Japa, we have to read/listen Pradhanikam Rahasyam followed by reading/listening Vaikrutikam Rahasyam. In Vaikrutikam Rahasyam first seven stanzas describes swaroop of Goddess Khadga, Bana, Gada, Shool, Chakra, Shankha, bhushundi, Parigha, Karmukam and heads of demons which are bleeding in her hands. Devotees who perform her Pooja, Japa DeviSukta, and Pooja with flowers, doop, deep, gandha, Mantra-Japa, Balipooja, Vhanhi-Hom, and Mit-Aahar (fast), Goddess Mahakali blesses them and destroy their enemies and troubles. Stanzas 7 to 13 describe Goddess MahaLaxmi. Mahalaxmi is formed from bodies and tejas of all Gods. She had killed demon Mahishasoor and hence she is called as MahishasoorMardini. She is having eighteen hands. She having weapons in her hands described as Akshmala, Farasa, Gada, Bana, Vajra, Padma, Dhanus, Kundika, Danda, Shakti, Khadga, Dhaala, Shankha, Ghanta, Pasha and Chakra. Devotees who perform her Pooja, Japa DeviSukta, and Pooja with flowers, doop, deep, gandha, Mantra-Japa, Balipooja, Vhanhi-Hom, and Mit-Aahar (fast), Goddess Mahalaxmi blesses them and such devotees respected as Gods. Stanzas 7 to 13 describe Goddess Mahasaraswati. She is formed from the body of Goddess Gouri. She is Satva guna. She had killed demons Shumbha and Nishumabha. She is having eight hands and each hand she is holding weapons described as Bana, Dhanusha, Musal, Shool, Chakra, Shankha, Ghanta, Lamghal and Hal. Devotees who perform her Pooja, Japa DeviSukta, and Pooja with flowers, doop, deep, gandha, Mantra-Japa, Balipooja, Vhanhi-Hom, and Mit-Aahar (fast), Goddess Saraswati blesses them and such devotees becomes Sarvadnyani ( who knows everything), Learned. Still there is much more in this Vaikrutikam Rahasyam.
अथ वैकृतिकं रहस्यम् 
ऋषिरुवाच 
ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता ।
सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ १ ॥
योगनिद्रा हरेरुक्ता महाकाली तमोगुणा । 
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ॥ २ ॥
दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ॥ ३ ॥
स्फुरद्दशनदंष्ट्रा सा भीमरुपापि भूमिप ।
रुपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः ॥ ४ ॥
खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत् ।
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ ॥ ५ ॥
एषा सा वैष्णवी माया महाकाली दुरत्यया ।
आराधिता वशीकुर्यात् पूजाकर्तुश्र्चराचरम् ॥ ६ ॥
सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा ।
त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥ ७ ॥
श्र्वेतानना नीलभुजा सुश्र्वेतस्तनमण्डला ।
रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा ॥ ८ ॥
सुचित्रजघना चित्रमाल्याम्बरविभूषणा ।
चित्रानुलेपना कान्तिरुपसौभाग्यशालिनी ॥ ९ ॥
अष्टादशभुजा पूज्या सा सहस्त्रभुजा सती ।
आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् ॥ १० ॥
अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ।
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥ ११ ॥      
शक्तिर्दण्डश्र्चर्म चापं पानपात्रं कमण्डलुः ।
अलंकृतभुजामेभिरायुधैः कमलासनाम् ॥ १२ ॥
सर्चदेवमयीमीशां महालक्ष्मीमिमां नृप ।
पूजयेत्सर्वलोकानां स देवानां प्रभुर्भवेत् ॥ १३ ॥
गौरीदेहात्समुद्भूता या सत्त्वैकगुणाश्रया ।
साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ॥ १४ ॥
दधौ चाष्टभुजा बाणमुसले शूलचक्रभृत् ।
शङ्खं घण्टां लाङ्गलं च कार्मुकं वसुधाधिप ॥ १५ ॥
एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति ।
निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी ॥ १६ ॥
इत्युक्तानि स्वरुपाणि मूर्तीनां तव पार्थिव ।
उपासनं जगन्मातुः पृथगासां निशामय ॥ १७ ॥
महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती ।
दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् ॥ १८ ॥
विरञ्चिः स्वरया मध्ये। रुद्रो गौर्या च दक्षिणे ।
वामे लक्ष्म्या हृषीकेशः पुरतो देवतात्रयम् ॥ १९ ॥
अष्टादशभुजा मध्ये वामे चास्या दशानना ।
दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥ २० ॥
अष्टादशभुजा चैषा यदा पूज्या नराधिप ।
दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा ॥ २१ ॥
कालमृत्यू च सम्पूज्यौ सर्वारिष्टप्रशान्तये ।
यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी ॥ २२ ॥
नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ ।
नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् ॥ २३ ॥
अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः ।
अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥ २४ ॥
महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ।
ईश्र्वरी पुण्यपापानां सर्वलोकमहेश्र्वरी ॥ २५ ॥
महिषान्तकारी येन पूजिता स जगत्प्रभुः ।
पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ॥ २६ ॥
अर्घ्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः ।
धूपर्दीपैश्र्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥ २७ ॥
रुधिराक्तेन बलिना मांसेन सुरया नृप ।
( बलिमांसादिपूजेयं विप्रवर्ज्या मयेरिता ॥ 
तेषां किल सुरामांसैर्नोक्ता पूजा नृप क्वचित् । )
प्रणामाचमनीयेन चन्दनेन सुगन्धिना ॥ २८ ॥
सकर्पूरैश्र्च ताम्बूलैर्भक्तिभावसमन्वितैः ।
वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् ॥ २९ ॥
पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया ।
दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्र्वरम् ॥ ३० ॥
वाहनं पूजयेद्देव्या धृतं येन चराचरम् ।
कुर्याच्च स्तवनं धीमांस्तस्या एकाग्रमानसः ॥ ३१ ॥
ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः ।
एकेन वा मध्यमेन नैकेनेतरयोरिह ॥ ३२ ॥  
चरितार्धं तु न जपेज्जपञ्छिद्रमवाप्नुयात् ।
प्रदक्षिणानमस्कारान् कृत्वा मूर्ध्नि कृताञ्जलिः ॥ ३३ ॥
क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः ।
प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा ॥ ३४ ॥
जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः ।
भूयो नामपदैर्देवीं पूजयेत्सुसमाहितः ॥ ३५ ॥
प्रयतः प्राञ्जलिः प्रह्वः प्रणम्यारोप्य चात्मनि ।
सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत् ॥ ३६ ॥
एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्र्वरीम् ।
भुक्त्वा भोगान्  यथाकामं देवीसायुज्यमाप्नुयात् ॥ ३७ ॥
यो न पूजयते नित्यं चण्डिकां भक्रवत्सलाम् ।
भस्मीकृत्यास्य पुण्यानि निर्देहेत्परमेश्र्वरी ॥ ३८ ॥
तस्मात्पूजय भूपाल सर्वलोकमहेश्र्वरीम् ।
यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ॥ ३९ ॥
॥ इति वैकृतिकं रहस्यं सम्पूर्णम् ॥

Vaikrutikam Rahasyam 
वैकृतिकं रहस्यम्


Custom Search

Friday, June 19, 2015

Pradhanikam Rahasyam प्राधानिकं रहस्यम्


Pradhanikam Rahasyam 
Pradhanikam Rahasyam is in Sanskrit. It is from Markandeya Purana. When we perform the Patha of Shri DurgaSapta Shati; after reading/listening Adhyays from 1 to 13, and performing Navarn Japa, we have to read/listen Pradhanikam Rahasyam. King Surath asked the rushi , “You have told me about Navdurga and Matrukas (other goddesses) now please tell me in which form I have to worship/perform Pooja of Goddess Durga”. Now here rushi is telling king Surath, everything which includes their different names and their different forms which are originated from Goddess Mahalaxmi. Mahalaxmi describes the names of Goddess Kali as 1) Mahamaya 2) Mahakali 3) Mahamari 4) Kshudha 5) Trusha 6) Nidra 7) Trushna 8) Ekaveera 9) Kalratri and 10) Duratyaya. Mahalaxmi describes the names of Goddess Saraswati as 1) Mahavidya 2) Mahavani 3)Bharati 4) Vaak 5) Saraswati 6) Aarya 7) Brahmi 8) Kamdhenu 9) Vedgarbha and Dhishwari. Then goddess Mahalaxmi asked Goddess Mahakali and Goddess Mahasaraswati to give birth to the different gods and goddesses and allot some specific duties to them so that everything in three lokas ( Pruthavi lok, Patal lok and Swaga lok) would run smoothly. All this is described in Pradhanikam Rahasyam.
अथ प्राधानिकं रहस्यम् 
ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं जपे विनियोगः ।
राजोवाच 
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १ ॥
आराध्यं यन्मया देव्याः स्वरुपं येन च द्विज ।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य  मे ॥ २ ॥
ऋषिरुवाच  
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३ ॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्र्वरी ।
लक्ष्यालक्ष्यस्वरुपा सा व्याप्य कृत्स्न्नं व्यवस्थिता ॥ ४ ॥
मातुलुङ्गं गदा खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनि च बिभ्रती नृप मूर्द्धनि ॥ ५ ॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६ ॥
शून्यं तदखिलं लोकं विलोक्य परमेश्र्वरी ।
बभार परमं रुपं तमसा केवलेन हि ॥ ७ ॥
सा भिन्नाञ्जनसंकाशा दंष्ट्राङ्कितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥ ८ ॥
खड्गपात्रशिरः खेटैरलंकृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा हि शिरःस्त्रजम् ॥ ९ ॥
सा प्रोवाच महालक्ष्मीं तामसी प्रमदोत्तमा ।
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ १० ॥
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते  ॥ ११ ॥
महामाया महाकाली महामारी क्षुधा तृषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ १२ ॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्र्नुते सुखम् ॥ १३ ॥
तामित्युक्त्वा महालक्ष्मीः स्वरुपमपरं नृप ।
सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥ १४ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राह्मी कामधेनुर्वेदगर्भा च धीश्र्वरी ॥ १६ ॥
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम्  ।
युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥ १७ ॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १८ ॥
ब्रह्मन् विधे विरिञ्चेति धातरुत्याह तं नरम् ।
श्रीः पद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियम् ॥ १९ ॥
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रुपाणि नामानि च वदामि ते ॥ २० ॥
नीलकण्ठं रक्तबाहुं श्र्वेताङ्गं चन्द्रशेखरम् ।
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २१ ॥
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या कामधेनुः सा स्त्रि भाषाक्षरा स्वरा ॥ २२ ॥
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ॥ २३ ॥
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा ॥ २४ ॥
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चक्षुष्मन्तो नु पशन्ति नेतरेऽतद्विदो जनाः ॥ २५ ॥
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २६ ॥
स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् ॥ २७ ॥
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥ २८ ॥
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
संजहार जगत्सर्वं सह गौर्या महेश्र्वरः ॥ २९ ॥
महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्र्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३० ॥
नामान्तरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥ ॐ ॥ ॥ ३१ ॥        
॥ इति प्राधानिकं रहस्यं सम्पूर्णम् ॥   



Pradhanikam Rahasyam 
प्राधानिकं रहस्यम्



Custom Search