Showing posts with label RatriSuktatmkam Devi Stotram. Show all posts
Showing posts with label RatriSuktatmkam Devi Stotram. Show all posts

Tuesday, September 30, 2014

RatriSuktatmkam Devi Stotram रात्रिसूक्तात्मकं देवी स्तोत्रम्


RatriSuktatmkam Devi Stotram 
RatriSuktatmkam Devi Stotram is in Sanskrit. It is a praise of Goddess Durga Devi. Shortly her very important deeds for the benefit of people and other Gods are mentioned. It is mentioned that she killed Demon Raktbij, Shumha-Nishumbha and Mahishasur.

रात्रिसूक्तात्मकं देवी स्तोत्रम् 
रात्रिदेवीं प्रपद्येऽहं शरणागतवत्सलाम् ।
करालवदनां कृष्णां दुष्टग्रहविनाशिनीम् ॥ १ ॥
नमामि खड्गहस्तां तां खेटहस्तां भयानकाम् ।
वरदाभयहस्तां च भक्तलोकभयापहाम् ॥ २ ॥
शूलहस्तां शंखचक्रगदाचापेषुधारिणीम् ।
चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् ॥ ३ ॥
अष्टादशभुजां लक्ष्मीं दशहस्तां सरस्वतीम् ।
सर्वसम्पत्प्रदात्रीं च सर्वविद्याप्रदायिनीम् ॥ ४ ॥
सहस्त्रबाहुचरणां सहस्त्रमुखलोचनाम् ।
सहस्त्रमुकुटोपेतां सहस्त्रचरणाम्बुजाम् ॥ ५ ॥
पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थळस्थिताम् ।
शिवाङ्कनिलयां गौरीं वन्दे मूर्तित्रयात्मिकाम् ॥ ६ ॥
आभट्या वैष्णवी चोग्रा कुलानि विबुधद्विषाम् ।
या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहनाम् ॥ ७ ॥
मधुकैटभसंहारं महिषासुरमर्दनम् ।
याऽकरोन्योमि दुर्गा तां वधं शुम्भनिशुम्भयोः ॥ ८ ॥
इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि ।
सर्वशक्तिस्वरुपा या रात्रीं तां प्रणमाम्यहम् ॥ ९ ॥
रात्रिसूक्तं जपेद्रात्रौ त्रिवारं च दिने दिने ।
भूतप्रेतपिशाचादिचोरसर्पादिनाशनम् ॥ १० ॥
॥ इति रात्रिसूक्तात्मकदेवीस्तोत्रं सम्पूर्णम् ॥

RatriSuktatmkam Devi Stotram 
 रात्रिसूक्तात्मकं देवी स्तोत्रम्


Custom Search