Tuesday, March 17, 2020

Ganesh Kavacham गणेशकवचम्


Ganesh Kavacham 
Ganesh Kavacham is from Ganesh Purana. It is in Sanskrit. It is composed by Kashyap Muni. It is very effective and protects whosoever recites it.
गणेश कवचम्
गौरी उवाच
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कंठे किंचित्वं रक्षार्थं बद्धुमर्हसि ॥ २ ॥
मुनिर्उवाच: 
ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे ।
त्रेतायां तु मयूरवाहनममुं षङ्बाहुकं सिद्धिदम् ॥ 
द्वापारे तु गजाननं युगभुजं रक्तांगरागं विभुम् ।
तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥
अथ कवचं
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुंदरकायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥
ललाटं कश्यपः पातु भ्रुयुगं तु महोदरः ।
नयने भालचंद्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥ 
जिव्हां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः ।
गणेशस्तु मुखं कंठं पातु देवो गणंजयः ॥ ७ ॥
स्कधौ पातु गजस्कंधः स्तनौ विघ्नविनायकः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥
धराधरः पातुः पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः ॥ ९ ॥
गणक्रीडो जानुजंघे ऊरु मंगलमूर्तिमान् ।
एकदंतो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १० ॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अंगुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११ ॥
सर्वांगानि मयूरेशो विश्र्वव्यापी सदा ऽ  वतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदा ऽ वतु ॥ १२ ॥
आमोदस्त्वग्रतः पातुः प्रमोदः पृष्ठतो ऽ वतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥ १३ ॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्र्वरः ।
प्रतिच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४ ॥
कौबेर्यां निधिपः पायादीशान्यामीशनंदनः ।
दिवाऽव्यादेकदस्तु रात्रौ संध्यासु विघ्नहृत् ॥ १५ ॥
राक्षसासुरवेताल ग्रहभूत पिशाचतः ।
पाशांकुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६ ॥
ज्ञानं धर्मंच लक्ष्मींच लज्जां कीर्तिं तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान दाराः सुतान् सखीन् ॥ १७ ॥
सर्वायुधधरः पौत्रान् मयूरेशो ऽवतात्सदा ।
कपिलोऽजाविकं पातु गजाश्वान्विकटोऽवतु ॥ १८ ॥
भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ १९ ॥
त्रिसंध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् ।   
मारणोच्चाटनाकर्षस्तंभ मोहनकर्मणि ॥ २१ ॥
सप्तवारं जपेदेतद्दिनामेकम् विंशतिम् ।
तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२ ॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४ ॥
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च तेनाथ मांडव्याय महर्षये ॥ २५ ॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥ 
यस्यानेन कृता रक्षा न बाधास्य भवेत् क्वचित् ।
राक्षसासुरवेताल दैत्यदानवसंभवा ॥ २७ ॥
॥ इति श्री गणेशपुराणे श्री गणेशकवचं संपूर्णम् ॥
Ganesh Kavacham  
गणेशकवचम्



Custom Search

No comments: