Monday, October 26, 2020

Shri GopalDwadashaNam Stotram श्री गोपालद्वादशनाम स्तोत्रम्


 

Shri GopalDwadashaNam Stotram 
श्री गोपालद्वादशनाम स्तोत्रम्
Shri Gopal Dwadasha Nam Stotram is in Sanskrit. It is from Shri MahaBharat Aranya Parvani and appeared in ShriKrishna-Arjun discussion. These are the twelve pious names of God ShriKrishna. The devotee who recites three times in a day receives the blessings of yGod. the punya is equal to hundred Kanya Dan Punya and thousand Aswamsgha Yagnya is said in this stotra.
  श्रीगोपालद्वादशनाम स्तोत्रम्
शृणुध्वं मुनयः सर्वे गोपालस्य महात्मनः ।
अनंतस्याप्रमेयस्य नामद्वादशं स्तवम् ॥ १ ॥
अर्जुनाय पुरा गीतं गोपालेन महात्मनः । 
द्वारकायां प्रार्थयते यशोदायाश्र्च संनिधौ ॥ २ ॥
अस्य श्रीदिव्यद्वादशनामस्तोत्रमहामंत्रस्य फाल्गुनऋषिः ,
अनुष्टुप् छंदः, श्रीकृष्णः परमात्मा देवता, 
ॐ बीजं स्वाहेति शक्तिः , श्रीगोपालकृष्णप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ॥
जानुभ्यामपि धावंतं बाहुभ्यामतिसुंदरम् ॥
सकुंडलालकं बालं गोपालं चिंतयेद्बुधः ॥ १ ॥
प्रथमं तु हरि वंद्यं द्वितीयं केशवं तथा ।
तृतीये पद्मनाभं तु चतुर्थं वामनं तथा ॥ २ ॥
पंचमं वेदगर्भं च षष्ठं तु मधुसूदनम् ।
सप्तमं वासुदेवं च वाराहं चाष्टमं तथा ॥ ३ ॥
नवमं पुंडरीकाक्षं दशमं तु जनार्दनम् । 
कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा ॥ ४ ॥
एतद्द्वादशनामानि मया प्रोक्तानि फाल्गुन ।
कालत्रये पठेद्यस्तु तस्य पुण्यफलं शृणु ॥ ५ ॥
चांद्रायणसहस्रस्य कन्यादानशतस्य च ।
अश्र्वमेधसहस्रस्य फलमाप्नोति मानवः ॥ ६ ॥
इति श्रीमहाभारतेऽरण्यपर्वणि श्रीकृष्णार्जुनसंवादे द्वादशनामस्तोत्रं संपूर्णम ॥
Shri GopalDwadashaNam Stotram 
श्री गोपालद्वादशनाम स्तोत्रम्





Custom Search

No comments: