Showing posts with label Ganapati Stotram. Show all posts
Showing posts with label Ganapati Stotram. Show all posts

Sunday, March 15, 2015

Shri GanadhishaStotram श्रीगणाधीशस्तोत्रम्


Shri GanadhishaStotram 
ShriGanadhishaStotram is in Sanskrit. It is a praise of God Ganesh. God Ganesh is giver of Yoga and Shanti ( peace of Mind ). It is said in the Stotra that whosoever recites this stotra with devotion, faith and concentration daily is blessed with Peace and Yoga. This Stotra is from Mudgal Purana.
श्रीगणाधीशस्तोत्रम्
श्रीगणेशाय नमः ।
कर्दम उवाच ।
केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते । 
तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ १ ॥
कपिल उवाच ।
गणेश भजनं मुख्यं शान्तियोगप्रदं मतम् ।
योगकारस्वरुपं तं ब्रह्मेशं भज मानद ॥ २ ॥
सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
य आदिः प्रलयान्ते स तिष्टति शास्त्रसंमतम् ॥ ३ ॥
ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
गणाः समूहरुपाश्र्च तेषां स्वामी प्रकथ्यते ॥ ४ ॥
नानाजगत्स्वरुपं वैदेहरुपं कृतं मुने ।
नानाब्रह्ममयं तेन शिरः कृतं महात्मना ॥ ५ ॥
यस्माज्जातमिदं यत्र ह्यन्ते गच्छति महामते ।
तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ६ ॥
त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
तपोर्योगे गणेशोऽयं देहमस्तकयोर्गतः ॥ ७ ॥
चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्र्च पंचधा ।
मोहरुपा महासिद्धिर्बुद्धिश्र्च मोहधारका ॥ ८ ॥
तयोः स्वामी गणाधीशश्र्चित्ते नित्यं प्रतिष्ठितः ।
चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ९ ॥
पञ्चधा चित्तमुत्सृज्य तदैश्र्वर्यं तथैव च ।
योगः शान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ १० ॥
तस्मात्तं भज मंत्रेणैकाक्षरेण महामुने ।
तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ११ ॥

॥ इति श्रीमुद्गलपुराणे श्रीगणाधीशस्तोत्रं संपूर्णम् ॥ 



Custom Search

Saturday, April 19, 2014

Runa Mochan MahaGanapati Stotram ऋणमोचन महागणपति स्तोत्रम्


Runa Mochan MahaGanapati Stotram 
 Runa Mochan MahaGanapati Stotram is in Sanskrit. It is from Brahmand Purana. This is very pious and powerful stotra which if chanted every day with faith, devotion and concentration removes all the debts of the devotees. It also fulfill all the desires of the devotee. 
ऋणमोचन महागणपति स्तोत्रम् 
श्रीगणेशाय नमः ॥ 
ॐ अस्य श्रीऋणमोचन महागणपतिस्तोत्र मंत्रस्य । 
भगवान शुक्राचार्य ऋषिः । ऋणमोचन गणपतिर्देवता । 
ऋणमोचनार्थे जपे विनियोगः ॥ ॐ 
स्मरामि देवदेवेशं वक्रतुण्डं महबलं । 
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ १ ॥ 
महागणपतिं देवं महासत्त्वं महाबलं । 
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ २ ॥ 
एकाक्षरं एकदंतं एकब्रह्मसनातनं । 
एकमेवारद्वितीयं च नमामि ऋणमुक्तये ॥ ३ ॥ 
रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनं । 
रक्तपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ४ ॥ 
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं । 
कृष्णपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ५ ॥ 
पीतांबरं पीतवर्णं पीतगंधानुलेपनं । 
पीतपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ६ ॥ 
धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनं । 
धूम्रपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ७ ॥ 
भद्रजातं च रुपं च पाशांकुशधरं शुभं । 
सर्वविघ्नहरं देवं नमामि ऋणमुक्तये ॥ ८ ॥ 
यः पठेत् ऋणहरस्स्तोत्रं प्रातःकाले शुचिर्नरः । 
षण्मासाभ्यंतरे चैव ऋणच्छेदो भविष्यति ॥ ९ ॥ 
॥ इति श्रीब्रह्मांडपुराणे ऋणमोचनमहागणपतिस्तोत्रं संपूर्णम् ॥
Runa Mochan MahaGanapati Stotram 
ऋणमोचन महागणपति स्तोत्रम्


Custom Search