Monday, May 23, 2016

Shri Mat Bhagwat Geeta Adhyay 11 विश्र्वरुपदर्शन योग अध्याय ११


Shri Mat Bhagwat Geeta Adhyay 11 
Shri Mat Bhagwat Geeta Adhyay 11 is in Sanskrit. Name of this Adhyay is VishvarupDarshan Yoga. God Shrikrishna is has given powerful eyes to Arjuna so that he can see the VishvarupDarshan of God Shrikrishna. Arjuna is describing it for our benefit as this VishvarupDarshan is very rare to see.
विश्र्वरुपदर्शन योग अध्याय ११
अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्र्वर ।
द्रष्टुमिच्छामि ते रुपमैश्र्वरं पुरुषोत्तम ॥ ३ ॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्र्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
श्रीभगवानुवाच 
पश्य मे पार्थ रुपाणि शतशोऽथ सहस्त्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
पश्यादित्यान्वसून् रुद्रानश्र्विनौ मरुतस्तथा । 
बहून्यदृष्टपूर्वाणी पश्याश्र्चर्याणि भारत ॥ ६ ॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्र्वरम् ॥ ८ ॥
सञ्जय उवाच 
एवमुक्त्वा ततो राजन्महायोगेश्र्वरो हरिः ।
दर्शयामास पार्थाय परमं रुपमैश्र्वरम् ॥ ९ ॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्  ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्र्वतोमुखम् ॥ ११ ॥
दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता । 
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
अर्जुन उवाच
पश्यामि देवांस्तव देव देहे 
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्र्च सर्वानुरगांश्र्च दिव्यान् ॥ १५ ॥     
अनेकबाहुदरवक्त्रनेत्रं-
पश्यामि त्वां सर्वतोऽनन्तरुपम् ।
नान्तं न मध्यं न पुनस्तवादिं-
पश्यामि विश्र्वेश्र्वर विश्र्वरुप ॥ १६ ॥
किरीटिनं गदिनं चक्रिणं च 
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-
द्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
त्वमक्षरं परमं वेदितव्यं-
त्वमस्य विश्र्वस्य परं निधानम् ।
त्वमव्ययः शाश्र्वतधर्मगोप्ता 
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं-
स्वतेजसा विश्र्वमिदं तपन्तम् ॥ १९ ॥
द्यावापृथिव्योरिदमन्तरं हि 
व्याप्तं त्वयैकेन दिशश्र्च सर्वाः ।
दृष्ट्वाद्भुतं रुपमुग्रं तवेदं-
लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
अमी हि त्वां सुरसङ्घा विशन्ति 
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः 
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
रुद्रादित्या वसवो ये च साध्या-
विश्र्वेऽश्र्विनौ मरुतश्र्चोष्मपाश्र्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा-
वीक्षते त्वां विस्मिताश्र्चैव सर्वे ॥ २२ ॥
रुपं महत्ते बहुवक्त्रनेत्रं-
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं-
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
नभःस्पृशं दीप्तमनेकवर्णं-
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा 
धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥
दंष्ट्राकरालानि च ते मुखानि 
दृष्टैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म 
प्रसीद देवेश जगन्निवास ॥ २५ ॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः 
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ 
सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
वक्त्राणि ते त्वरमाणा विशन्ति 
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु 
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥
यथा नदिनां बहवोऽम्बुवेगाः 
समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा-
विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
यथा प्रदीप्तं ज्वलनं पतङ्गा-
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
लेलिह्यसे ग्रसमानः समन्ता-
ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं-
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥
आख्याहि मे को भवानुग्ररुपो-
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं-
न हि प्रजानानि तव प्रवृत्तिम् ॥ ३१ ॥         
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो-
लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे 
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व 
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव 
निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
द्रोणं च भीष्मं च जयद्रथं च 
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा-
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
सञ्जय उवाच
एतच्छ्रुत्वा वचनं केशवस्य 
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं-
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या 
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति 
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥
कस्माच्च ते न नमेरन्महात्मन् 
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास 
त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्र्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम 
त्वया ततं विश्र्वमनन्तरुप ॥ ३८ ॥
वायुर्यमोऽग्निर्वरुणः शशाङ्कः 
प्रजापतिस्त्वं प्रपितामहश्र्च ।
नमो नमस्तेऽस्तु सहस्त्रकृत्वः
पुनश्र्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
नमः पुरस्तादथ पृष्ठतस्ते 
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं-
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
सखेति मत्वा प्रसभं यदुक्तं-
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं- 
मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं-
तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
पितासि लोकस्य चराचरस्य 
त्वमस्य पूजश्र्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो-
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
तस्मात्प्रणम्य प्रणिधाय कायं-
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देवरुपं-
प्रसीद देवेश जगन्निवास ॥ ४५ ॥
किरीटीनं गदिनं चक्रहस्त-
मिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रुपेण चतुर्भुजेन 
सहस्त्रबाहो भव विश्र्वमूर्ते ॥ ४६ ॥
श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदं-
रुपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्र्वमनन्तमाद्यं-
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
न वेदयज्ञाध्ययनैर्न दानै-
र्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरुपः शक्य अहं नृलोके 
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
मा ते व्यथा मा च विमूढभावो-
दृष्ट्वा रुपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं-
तदेव मे रुपमिदं प्रपश्य ॥ ४९ ॥            
सञ्जय उवाच
इत्युर्जुनं वासुदेवस्तथोक्त्वा 
स्वकं रुपं दर्शयामास भूयः ।
आश्र्वासयामास च भीतमेनं-
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥
अर्जुन उवाच
दृष्ट्वेदं मानुषं रुपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥
श्रीभगवानुवाच
सुदुर्दर्शमिदं रुपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रुपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥
॥ हरि ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे विश्र्वरुपदर्शनयोगो नामैकादशोऽध्यायः ॥  
॥ श्रीकृष्णार्पणमस्तु ॥
Shri Mat Bhagwat Geeta Adhyay 11 विश्र्वरुपदर्शन योग अध्याय ११


Custom Search