Sunday, April 27, 2014

NavGraha Kavacha नवग्रह कवच


NavGraha Kavacha 
NavGraha Kavacha is in Sanskrit and it is from Yamal Tantra. This is a prayer made by devotee to the NavGrahas to protect different parts of the body. God Surya is requested to protect the head. Forehead by Moon, Mouth by Mangal, throat by Budha, Buddhi by Guru, Heart by Shukra, belly by Shani, Tung by Rahu and Feet by Ketu. Further it is said that all tithes protect from all eight directions, Nakshatras protect from above and down directions, Anshas and Rashies protect allways, Yogas protect the stability. Falashruti: (Benefits) Diseased person gets cured. Devotee always gets money, he never becomes in debt, and the devotee who wears this in hand has never to ask for a loan from anybody. The devotee who recites this kavacha becomes free from all sins. Those ladies whose sons are found dead at the time of birth, the ladies who are KakVandhya are blessed with a child. If this is recited for somebody else then it is to be recited by touching the person for whom it is recited. Thus here completes this NavGraha Kavacha.


नवग्रह कवच 
ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः । 
मुखमङ्गारकः पातु कण्ठं च शशिनन्दनः ॥ १ ॥ 
बुद्धि जीवः सदा पातु हृदयं गुननदनः । 
जठरं च शनिः पातु जिव्हां मे दितिनन्दनः ॥ २ ॥ 
पादौ केतुः सदा पातु वाराः सर्वांगमेव च । 
तिथयोऽष्टौ दिशाः पान्तु नक्षत्राणि वपुः सदा ॥ ३ ॥ 
अंसौ राशिः सदा पातु योगश्र्च स्थैर्यमेव च । 
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत् ॥ ४ ॥ 
रोगात्प्रमुचते रोगी बन्धो मुच्येत बन्धनात् । 
श्रियं च लभते नित्यं रिष्टितस्य न जायते ॥ ५ ॥ 
यः करे धारयेन्नित्यं तस्य रिष्टिर्न जायते । 
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते ॥ ६ ॥ 
मृतवत्सा च या नारी काकवत्सा च या भवेत् । 
जीववत्सा पुत्रवती भवत्येव च न संशयः । 
एतां रक्षां पठेत् यस्तु अङ्गं स्पृष्ट्वापि वा पठेत् ॥ ७ ॥ 
॥ इति श्री यामलतंत्रे श्री नवग्रह कवच संपूर्णं ॥ 
मराठी अर्थ 
सूर्य (मार्तण्ड) माझ्या डोक्याचे रक्षण करो. (रोहिणीपति) चंद्र माझ्या कपाळाचे रक्षण करो. माझ्या तोंडाचे मंगळ रक्षण करो. बुध (शशिनन्दन) माझ्या कण्ठाचे तर गुरु माझ्या बुद्धिचे रक्षण करो. माझ्या हृदयाचे शुक्र (भृगुनन्दन) तर माझ्या जठराचे शनि रक्षण करो. राहु माझ्या जिव्हेचे तर केतु माझ्या पायांचे रक्षण करो. तिथी अष्टदिशां कडून तर नक्षत्रे माझ्या सर्व शरिराचे रक्षण करोत. अंश व राशी नेहमी माझे रक्षण करोत तर योग माझ्या स्थैर्याचे रक्षण करोत. दिर्घ आयुष्य, सुख, पुत्र आणि युद्धांत विजय (मला) प्राप्त होवो. रोगी माणुस रोगांपासुन मुक्त होतो. बंदिस्त असलेला बंदितून मुक्त होतो. नेहमी धन प्राप्त होते. त्याला ऋण होत नाही. जो हे कवच नेहमी हातांत धारण करतो त्यास कधीहि ऋण होत नाही. हे कवच नेहमी म्हटल्याने सर्व पापांतून मुक्ती होते. ज्या स्त्रीची मुले जन्मतःच मरत असतील, जी स्त्री काकवंध्या असेल ती या कवच्याच्या पठनाने पुत्रवती होते यांत संशय नाही. दुसर्यासाठी हे कवच म्हंटताना त्याला स्पर्श करून म्हणावे. अशारीतीने हे यामलतन्त्रांतील नवग्रह कवच पुरे झाले.
NavGraha Kavacha 
नवग्रह कवच


Custom Search

Saturday, April 19, 2014

Runa Mochan MahaGanapati Stotram ऋणमोचन महागणपति स्तोत्रम्


Runa Mochan MahaGanapati Stotram 
 Runa Mochan MahaGanapati Stotram is in Sanskrit. It is from Brahmand Purana. This is very pious and powerful stotra which if chanted every day with faith, devotion and concentration removes all the debts of the devotees. It also fulfill all the desires of the devotee. 
ऋणमोचन महागणपति स्तोत्रम् 
श्रीगणेशाय नमः ॥ 
ॐ अस्य श्रीऋणमोचन महागणपतिस्तोत्र मंत्रस्य । 
भगवान शुक्राचार्य ऋषिः । ऋणमोचन गणपतिर्देवता । 
ऋणमोचनार्थे जपे विनियोगः ॥ ॐ 
स्मरामि देवदेवेशं वक्रतुण्डं महबलं । 
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ १ ॥ 
महागणपतिं देवं महासत्त्वं महाबलं । 
महाविघ्नहरं सौम्यं नमामि ऋणमुक्तये ॥ २ ॥ 
एकाक्षरं एकदंतं एकब्रह्मसनातनं । 
एकमेवारद्वितीयं च नमामि ऋणमुक्तये ॥ ३ ॥ 
रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनं । 
रक्तपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ४ ॥ 
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं । 
कृष्णपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ५ ॥ 
पीतांबरं पीतवर्णं पीतगंधानुलेपनं । 
पीतपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ६ ॥ 
धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनं । 
धूम्रपुष्पैः पूज्यमानं नमामि ऋणमुक्तये ॥ ७ ॥ 
भद्रजातं च रुपं च पाशांकुशधरं शुभं । 
सर्वविघ्नहरं देवं नमामि ऋणमुक्तये ॥ ८ ॥ 
यः पठेत् ऋणहरस्स्तोत्रं प्रातःकाले शुचिर्नरः । 
षण्मासाभ्यंतरे चैव ऋणच्छेदो भविष्यति ॥ ९ ॥ 
॥ इति श्रीब्रह्मांडपुराणे ऋणमोचनमहागणपतिस्तोत्रं संपूर्णम् ॥
Runa Mochan MahaGanapati Stotram 
ऋणमोचन महागणपति स्तोत्रम्


Custom Search

Tuesday, April 15, 2014

Shri Hanumat Sahastra Nam Stotram श्री हनुमान सहस्त्रनाम स्तोत्रम्


Shri Hanumat Sahastra Nam Stotram 
This Stotra is in Sanskrit. This is created by God Ram. This Stotra consists Of thousand pious name of God Hanuman. On the auspicious day of Hanuman Jayanti (15th April 2014), I am uploading for the devotees of God Hanuman. 
श्रीहनुमत्सहस्त्रनाम स्तोत्रम् 
अथ ध्यानम् 
अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । 
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ 
इति ध्यानम् 
श्रीरामचन्द्र उवाच 
 हनुमाञ्श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः । अमृत्युर्वीरवीरश्र्च ग्रामवासो जनाश्रयः ॥ १ ॥ 
धनदो निर्गुणोऽकायो वीरो निधिपतिर्मुनिः । पिङ्गाक्षो वररदो वाग्मी सीताशोकविनाशनः ॥ २ ॥ 
शिवः सर्वः परोऽव्यक्तो व्यक्ताव्यक्तो रसाधरः । पिङ्केशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३ ॥ अनादिर्भगवान् देवो विश्र्वहेतुर्निरामयः । आरोग्यकर्ता विश्र्वेशो विश्र्वनाथो हरीश्र्वरः ॥ ४ ॥ 
भर्गो रामो रामभक्तः कल्याणप्रकृतिः स्थिरः । विश्र्वम्भरो विश्र्वमूर्तिर्विश्र्वाकारोऽथ विश्र्वपः ॥ ५ ॥
विश्र्वात्मा विश्र्वसेव्योऽथ विश्र्वो विश्र्वहरो रविः । विश्र्वचेष्टो विश्र्वगम्यो विश्र्वध्येयः कलाधरः ॥ ६ ॥
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ ७ ॥
अञ्जनासूनुरव्यग्रो ग्रामख्यातो धराधरः । भूर्भुवः स्वर्महर्लोको जनलोकस्तपोऽव्ययः ॥ ८ ॥
सत्यमोङ्कारगम्यश्र्च प्रणवो व्यापकोऽमलः । शिवधर्मप्रतिष्ठाता रामेष्टः फाल्गुनप्रियः ॥ ९ ॥
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १० ॥ 
जानकीप्राणदाता च रक्षःप्राणापहारकः । पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ ११ ॥ 
देवोद्यानविहारी च देवताभयभञ्जनः । भक्तोदयो भक्तलब्धो भक्तपालनत्तपरः ॥ १२ ॥ 
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः । अक्षघ्नो रामदूतश्र्च शाकिनीजीवहारकः ॥ १३ ॥
बुबुकारहतारातिर्गर्वपर्वतमर्दनः । हतुस्त्वहेतुः प्रांशुश्र्च विश्र्वभर्ता जगद्गुरुः ॥ १४ ॥ 
जगन्नेता जगन्नाथो जगदीशो जनेश्र्वरः । जगद्धितो हरिः श्रीशो गरुडस्भयभञ्जनः ॥ १५ ॥ 
पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितविक्रमः । ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ १६ ॥
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्र्वरः । कल्पस्थायी चिरञ्जीवी तपनश्र्च सदाशिवः ॥ १७ ॥ 
सन्नतः सद्भक्तिर्भुक्तिमुक्तिदः कीर्तिदायकः । कीर्तिः कीर्तिप्रदश्र्चैव समुद्रः श्रीप्रदः शिवः ॥ १८ ॥ 
भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः । उदधिक्रमणो देवः संसारभयनाशनः ॥ १९ ॥ 
वार्धिबन्धनकृद् विश्र्वजेता विश्र्वप्रतिष्ठितः । लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ॥ २० ॥ 
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्र्वरः । श्रीरामरुपः कृष्णस्तु लङ्काप्रासादभञ्जकः ॥ २१ ॥ 
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्र्वपावनः । विश्र्वभोक्ताथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥ २२ ॥
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः । समीरतनुजो वीरो वीरतारो जयप्रदः ॥ २३ ॥ 
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः । पुण्यकीर्तिः पुण्यगतिर्जगत्पावनपावनः ॥ २४ ॥ 
देवेशो जितमारोऽथ रामभक्तिविधायकः । ध्याता ध्येयो लयः साक्षी चेता चैतन्यविग्रहः ॥ २५ ॥ 
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः । बिभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ॥ २६ ॥ 
सिद्धः सिद्धाश्रयः कालो महोक्षः कालजान्तकः । लङ्केशनिधनस्थायी लङ्कादाहक ईश्र्वरः ॥ २७ ॥
चन्द्रसूर्याग्निनेत्रश्र्च कालाग्नि प्रलयान्तकः । कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ॥ २८ ॥
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः । लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ॥ २९ ॥ 
रामध्येयो हृषीकेशो विष्णुभक्तो जटी बली । देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ॥ ३० ॥ 
नगरग्रामपालश्र्च शुद्धो बुद्धो निरत्रपः । निरञ्जनो निर्विकल्पो गुणातीतो भयंकरः ॥ ३१ ॥ 
हनुमांश्र्च दुराराध्यस्तपःसाध्यो महेश्र्वरः । जानकीधनशोकोत्थतपहर्ता परात्परः ॥ ३२ ॥ 
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः । भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ॥ ३३ ॥
पुच्छबद्धयातुधानो यातुधानरिपुप्रियः । छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ॥ ३४ ॥ 
प्लवङ्मेश्र्वरः क्रोधः क्रोधसंरक्तलोचनः । सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः ॥ ३५ ॥ 
भक्तानुकम्पी विश्र्वेशः पुरुहूतः पुरंदरः । क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः ॥ ३६ ॥ 
अग्निर्विभावसुर्भास्वान् यमो निर्ऋतिरेव च । वरुणो वायुगतिमान् वायुः कौबेर ईश्र्वरः ॥ ३७ ॥ 
रविश्र्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्र्चरः । राहुः केतुर्मरुद्धोता दाता हर्ता समीरजः ॥ ३८ ॥
मशकीकृतदेवारिदैत्यारिर्मधुसूदनः । कामः कपिः कामपालः कपिलो विश्र्वजीवनः ॥ ३९ ॥
भागीरथीपदाम्भोजः सेतुबन्धविशारदः । स्वाहाः स्वधा हविः कव्यं हव्यवाहकप्रकाशकः ॥ ४० ॥ 
स्वप्रकाशो महावीरो लघुरुर्जितविक्रमः । उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ४१ ॥ 
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः । विपाम्पा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ ४२ ॥ 
खं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च । क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः ॥ ४३ ॥ 
हिरण्मयः पुराणश्र्च खेचरो भूचरोऽमरः । हिरण्यगर्भः सूत्रात्मा राजराजो विशाम्पतिः ॥ ४४ ॥ 
वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः । प्रतिग्रामस्थितिः सद्यःस्फूर्तिदाता गुणाकरः ॥ ४५ ॥ 
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाधारो ह्यनुत्तमः ॥ ४६ ॥ 
पुण्यश्लोकः पुरारातिर्ज्योतिष्माञ्शर्वरीपतिः । किल्किलारावसंत्रस्तभूतप्रेतपिशाचकः ॥ ४७ ॥ 
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ ४८ ॥ 
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्र्वरः । नादरुपः परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४९ ॥ 
एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्र्च सात्विको राजसस्तमः ॥ ५० ॥
तमोहर्ता निरालम्बो निराकारो गुणाकरः । गुणाश्रयो गुणमयो बृहत्कर्मो बृहद्यशाः ॥ ५१ ॥ 
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्धाहुर्बृहत्तनुः ॥ ५२ ॥ 
बृहजानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः । बृहद्भतिर्बुहत्सेव्यो बृहल्लोकफलप्रदः ॥ ५३ ॥
बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्र्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरु ॥ ५४ ॥ 
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५५ ॥ 
उत्तराशास्थितः श्रीदो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः ॥ ५६ ॥ 
चतुरब्राह्मणो योगी योगगम्यः परावरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५७ ॥ 
अपराजितो जितारातिः सदानन्दो दयायुतः । गोपालो गोपतिर्गोप्ता कलिकालपराशरः ॥ ५८ ॥ 
मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताथ तत्त्वज्ञस्तत्तवं तत्त्वप्रकाशकः ॥ ५९ ॥ 
शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः । प्रलयोऽमितामायश्र्च मायातीतो विपत्सरः ॥ ६० ॥
मायाभर्जितरक्षाश्र्च मायानिर्मितविष्टपः । मायाश्रयश्र्च निर्लेपो मायानिर्वर्तकः सुखम् ॥ ६१ ॥ 
सुखी शुखप्रदो नागो महेशकृतसंस्तवः । महेश्र्वरः सत्यसंधः शरभः कलिपावनः ॥ ६२ ॥
सहस्त्रकन्धरवलविध्वंसनविचक्षणः । सहस्त्रबाहुः सहजो द्विबाहुर्द्विभुजोमरः ॥ ६३ ॥ 
चतुर्भुजो दशभुजो हयग्रीवः खगाननः । कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ॥ ६४ ॥ 
भीषणो भावनो वन्द्यो वराहो वायुरुपधृक् । लक्ष्मणप्राणदाता च पराजितदशाननः ॥ ६५ ॥ 
पारिजातनिवासी च वटुर्वचनकोविदः । सुरसास्यविनिर्मुक्तः सिंहिकाप्राणहारकः ॥ ६६ ॥
लङ्कालङ्कारविध्वंसी वृषदंशकरुपधृक् । रात्रिसंचारकुशलो रात्रिंचरगृहाग्निदः ॥ ६७ ॥ 
किङ्करान्तकरो जम्बुमालिहन्तोग्ररुपधृक् । आकाशचारी हरिगो मेघनादरणोत्सुकः ॥ ६८ ॥ 
मेघगम्भीरनिनदो महारावणकुलान्तकः । कालनेमिप्राणहारी मकरीशापमोक्षदः ॥ ६९ ॥ 
रसो रसज्ञः सम्मानो रुपं चक्षुः श्रुतिर्वचः । घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानगः ॥ ७० ॥
नेतिनेतीतिगम्यश्र्च वैकुण्ठभजनप्रियः । गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ७१ ॥
भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बरोऽमलः । विश्र्वक्षेत्रो विश्र्वबीजो विश्र्वनेत्रश्र्च विश्र्वपः ॥ ७२ ॥ 
याजको यजमानश्र्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः ॥ ७३ ॥ 
राजेन्द्रो भूपती रुण्डमाली संसारसारथिः । नित्यसम्पूर्णकामश्र्च भक्तकामधुगुत्तमः ॥ ७४ ॥ 
गणपः केशवो भ्राता पिता माता च मारुतिः । सहस्त्रमूर्द्धानेकास्यः सहस्त्राक्षः सहस्त्रपात् ॥ ७५ ॥ 
कामजित् कामदहनः कामः कामफलप्रदः । मुद्रापहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ७६ ॥ 
नखद्रंष्ट्रायुधो विष्णुर्भक्ताभयवरप्रदः । दर्पहा दर्पदो दंष्टाशतमूर्तिमान् ॥ ७७ ॥ 
महानिधिर्महाभागो महाभर्गो महर्द्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥ ७८ ॥ 
महासनो महानादो महामन्त्रो महामतिः । महागमो महोदारो महादेवत्मको विभुः ॥ ७९ ॥ 
रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्कनः सिंहः सत्यधर्मप्रमोदनः ॥ ८० ॥ 
जितामित्रो जयः सोमो विजयो वायुनन्दनः । जीवदाता सहस्त्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ ८१ ॥ 
सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ ८२ ॥
सप्ताब्धिलङ्कनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ८३ ॥
सप्तस्वर्लोकमुकुटः सप्तहोता स्वराश्रयः । सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥ ८४ ॥
सप्तसामोपगीतश्र्च सप्तपातालसंक्षयः । मेघादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ८५ ॥ 
सर्वरक्षाकरो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादतः ॥ ८६ ॥ 
पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ८७ ॥ 
नरनारायणस्तुत्यो नवनाथमहेश्र्वरः । मेखली कवची खङ्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ ८८ ॥
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टग्रहनिहन्ता च पिशाचग्रहघातकः ॥ ८९ ॥ 
बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्र्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ ९० ॥ 
शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥ ९१ ॥ रक्षोऽग्निदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरुपो मेघवृष्टिनिवारकः ॥ ९२ ॥ 
मेघजीवनहेतुश्र्च मेघश्यामः परात्मकः । समीरतनयो योद्धा नृत्यविद्याविशारदः ॥ ९३ ॥
अमोघोऽमोघदृष्टिश्र्च इष्टदोऽरिष्टनाशनः । अर्थोऽनर्थोपहारी च समर्थो रामसेवकः ॥ ९४ ॥
अर्थिवन्द्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । संकर्षणो विशुद्धात्मा विद्याराशिः सुरेक्ष्वरः ॥ ९५ ॥
अचलोद्धारको नित्यः सेतुकृद् रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः ॥ ९६ ॥ 
वराहो नारसिंहश्र्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ ९७ ॥ 
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः ॥ ९८ ॥ 
जगन्नाथः कपीशश्र्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ ९९ ॥
नखदारितरक्षाश्र्च नखयुद्धिविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ १०० ॥ 
स्वर्णवर्णो बलाढ्यश्र्च पुरुजेताघनाशनः । कैवल्यरुपः कैवल्यो गरुडः पन्नगोरगः ॥ १०१ ॥ 
किल् किल् रावहतारातिर्गर्वपर्वतभेदनः । वज्राङ्गो वज्रदंष्ट्रश्र्च भक्तवज्रनिवारकः ॥ १०२ ॥ 
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ १०३ ॥ 
शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः । स्वतिमान् स्वस्तिदो दुःखशातनः पवनात्मजः ॥ १०४ ॥ 
पावनः पवनः कान्तो भक्तागःसहनो बली । मेघनादरिपुर्मेघनादसंहतराक्षसः ॥ १०५ ॥ 
क्षरोऽक्षरो विनीतात्मा वानरेशः सतां गतिः । श्रीकण्ठः शितिकण्ठश्र्च सहायः सहनायकः ॥ १०६ ॥
अस्थूलस्त्वनणुर्भर्गो दिव्यः संसृतिनाशनः । अध्यात्मविद्यासारश्र्च ह्यध्यात्मकुशलः सुधीः ॥ १०७ ॥
अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरुपः सत्यः सत्यपराक्रमः ॥ १०८ ॥
अञ्जनाप्राणलिङ्गश्र्च वायुवंशोद्भवः शुभः । भद्ररुपो रुद्ररुपः सुरुपश्र्चित्ररुपधृक् ॥ १०९ ॥ 
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । क्रानदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ ११० ॥ 
कम्बुकण्ठः प्रसन्नात्मा हृस्वनासो वृकोदरः । लम्बौष्टः कुण्डली चित्रमाली योगविदां वरः ॥ १११ ॥
विपश्र्चित्कविरानन्दविग्रहोऽनल्पशासनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ ११२ ॥ 
योगविद् योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिहकारान्तवर्णनिर्मितविग्रहः ॥ ११३ ॥ 
उलूखलमूखः सिद्धसंस्तुतः प्रथमेश्र्वरः । श्लिष्टजङ्वः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ ११४ ॥
सुशर्मामितशर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ ११५ ॥
हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागस्तुतिप्रियः ॥ ११६ ॥
नागकन्याभयध्वंसी रुक्मवर्णः कपालभृत् । अनाकुलो भवोपायोऽनपायो वेदपारगः ॥ ११७ ॥ 
अक्षरः पुरुषो लोकनाथ ऋक्षप्रभुर्दृढः । अष्टाङ्गयोगफलभुक् सत्यसंघः पुरुष्टुतः ॥ ११८ ॥
श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥ ११९ ॥
योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥ १२० ॥ 
अप्रपञ्चः सदाचारः शूरसेनाविदारकः । वृद्धः प्रमोद आनन्दः सप्तद्विपपतिन्धरः ॥ १२१ ॥ 
नवद्वारपुराधारः प्रत्यग्रः सामगायकः । षट्चक्रधाम स्वर्लोकाभयकृन्मानदो मदः ॥ १२२ ॥ 
सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिर्नयोपेतो विरुपः सुरसुन्दरः ॥ १२३ ॥ 
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दिप्रियः स्वतन्त्रश्र्च मेखली डमरुप्रियः ॥ १२४ ॥ 
लौहाङ्गः सर्वविद्धन्वी खण्डलः शर्व ईश्र्वरः । फलभुक् फलहस्तश्र्च सर्वकर्मफलप्रदः ॥ १२५ ॥ 
धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ १२६ ॥
त्रिमार्गवसतिभीमः सर्वदुःखनिबर्हणः । ऊर्जस्वान् निष्कलः शूलो मौलिर्गर्जन्निशाचरः ॥ १२७ ॥ 
रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः । वनमाली शुभाङ्गश्र्च श्र्वेतः श्र्वेताम्बरो युवा ॥ १२८ ॥
जयोऽजयपरीवारः सहस्त्रवदनः कपिः । शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकः ॥ १२९ ॥ 
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः । शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १३० ॥
चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा । सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥ १३१ ॥ 
स्मृतिबीजं सुरेशानः संसारभयनाशनः । उत्तमः श्रीपरीवारः श्रितो रुद्रक्ष्च कामधुक् ॥ १३२ ॥ 
॥ इति मन्त्रमहार्णवे पूर्वखण्डे नवमतरङ्गे श्रीरामकृतं श्रीहनुमत्सहस्त्रनामस्तोत्रं संपूर्णम् ॥

Shri Hanumat Sahastra Nam Stotram 
श्री हनुमान सहस्त्रनाम स्तोत्रम्


Custom Search

Saturday, April 12, 2014

.Shri DattatTreyAshtottarShatNam Stotra श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्


.
Shri DattatTreyAshtottarShatNam Stotra 
 Shri DattatTreyAshtottarShatNam Stotra is in Sanskrit. The stotra consists of 108 Pious Names of God Dattatreya. It is fromBrahmanda Purana. It has arisen in the conversation in between Narad Rushi and God Brahmadev. 
श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम् 
अस्य श्रीदत्तात्रेयअष्टोत्तरशतनामस्तोत्रमन्त्रस्य । ब्रह्माविष्णुमहेश्र्वर ऋषयः । 
श्रीदत्तात्रेयो देवता । अनुष्टुप् छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः । 
अथ ध्यानं । 
दिगम्बरं भस्मसुगंधलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् । 
पद्मासनं योगिमुनीन्द्रवंदितं दत्तात्रेयध्यानमभीष्टसिद्धिदं ॥ 
इति ध्यानम् । 
अनसूयासुतो दत्तो अत्रिपुत्रो महामुनिः । 
योगीन्द्रः पुण्यपुरुषो देवेशो भुवनेश्र्वरः ॥ १ ॥ 
वेदांतवेद्यो वरदो विश्र्वरुपोऽव्ययो हरिः । 
सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ २ ॥ 
दिगम्बरो दिव्यमूर्तिर्दिव्यभूतिविभूषणः । 
अनादिसिद्धसुलभो भक्तवांछितदायकः ॥ ३ ॥ 
भुक्तिमुक्तिप्रदात्ता च कार्तवीर्यवरप्रदः । 
एकोनैको न द्वितीयो निगमागमवन्दितः ॥ ४ ॥ 
सात्तवतानां महात्मा च विश्र्वात्मा विश्र्वतोमुखः । 
सर्वेश्र्वरः सदातुष्टो सर्वमङ्गलदायकः ॥ ५ ॥ 
निष्कलंको निराभासो निर्विकल्पो निरञ्जनः । 
गुणात्मको गुणातीतो ब्रह्माविष्णुशिवात्मकः ॥ ६ ॥ 
नानारुपधरो नित्यः शान्तो दान्तः कृपानिधिः । 
भक्तप्रियो भवहरो भगवान् भवनाशनः ॥ ७ ॥ 
आदिदेवो महादेवो देवेशो जगदिश्र्वरः । 
परमात्मा परब्रह्म सदानन्दो जगद्गुरुः ॥ ८ ॥ 
नित्यतृप्तो निराकारो निर्विकारो निराश्रयः । 
पुरुषोत्तमो लोकनाथो पुराणपुरुषोऽनघः ॥ ९ ॥ 
अपारमहिमानन्त आद्यन्तरहितः शिवः । 
संसारभयदावाग्निभवसागरतारकः ॥ १० ॥ 
श्रीनिवासो विशालाक्षो क्षीराब्धिशयनोऽच्युतः । 
सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११ ॥ 
लोकेशः सर्वभूतेशो व्यापकः करुणाकरः । 
ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२ ॥ 
नानारुपः क्रियातीतो निस्पृहो निर्मलात्मकः । 
मयाधीशो महात्मा च महादेवो महेश्र्वरः ॥ १३ ॥ 
व्याघ्रचर्माम्बरधरो नागकुण्डलभूषणः । 
सर्वलक्षणसम्पन्नो सर्वसिद्धिप्रदायकः ॥ १४ ॥ 
सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः । 
सह्याद्रिघासः सर्वात्मा भवबन्धविमोचनः ॥ १५ ॥ 
विश्र्वंभरो विश्र्वनाथो जगन्नाथो जगत्प्रभुः । 
अष्टोत्तरशतं नाम्नां दत्तात्रेयमहामुनेः ॥ १६ ॥ 
नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते । 
सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् ॥ १७ ॥ 
भोगमोक्षप्रदं नृणां दत्तसायुज्यमाप्नुयात् । 
पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ॥ १८ ॥ 
॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीदत्तात्रेय- 
अष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥


Shri DattatTreyAshtottarShatNam Stotra 
 श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्


Custom Search

Tuesday, April 8, 2014

Shri Ram Sahastra Namavalihi Part 1/4 श्रीराम सहस्त्र नामावली भाग १/४


Shri Ram Sahastra Namavalihi 
Shri Ram Sahastra Namavalihi is from Valmiki Ramayan. In the Aanand Ramayan the great Ram devotee Valmiki Rushi has written these one Thousand Pious Names of God Ram.  
श्रीराम सहस्त्र नामावलिः
१) ॐ राजीवलोचनाय नमः, २) ॐ श्रीमते नमः, ३) ॐ श्रीरामाय नमः,४) ॐ रघुपुङ्गवाय नमः, 
५)ॐ रामभद्राय नमः, ६) ॐ सदाचाराय नमः, ७) ॐ राजेन्द्राय नमः, ८) ॐ जानकीपतये नमः, 
९) ॐ अग्रगण्याय नमः, १०) ॐ वरेण्याय नमः, ११) ॐ वरदाय नमः, १२) ॐ परमेश्र्वराय नमः, 
१३)ॐ जनार्दनाय नमः, १४)ॐ जितामित्राय नमः, १५) ॐ परार्थैकप्रयोजनाय नमः, 
१६) ॐ विश्र्वामित्रप्रियाय नमः, १७) ॐ दान्ताय नमः, १८) ॐ शत्रुजिते नमः, १९) ॐ शत्रुतापनाय नमः, 
२०) ॐ सर्वज्ञाय नमः, २१) ॐ सर्वदेवादये नमः, २२) ॐ शरण्याय नमः, २३) ॐ वालिमर्दनाय नमः, 
२४) ॐ ज्ञानभाव्याय नमः, २५) ॐ अपरिच्छेद्याय नमः, २६) ॐ वाग्मिने नमः, २७) ॐ सत्यव्रताय नमः, 
२८) ॐ शुचये नमः, २९) ॐ ज्ञानगम्याय नमः, ३०)ॐ दृढप्रज्ञाय नमः. ३१) ॐ खरध्वंसिने नमः, 
३२) ॐ प्रतापवते नमः, ३३)ॐ द्युतिमते नमः,३४) ॐ आत्मवते नमः, ३५) ॐ वीराय नमः, 
३६) ॐ जितक्रोधाय नमः,३७) ॐ अरिमर्दनाय नमः, ३८)ॐ विश्र्वरुपाय नमः, ३९)ॐ विशालाक्षाय नमः, 
४०)ॐ प्रभवे नमः, ४१) ॐ परिवृढाय नमः, ४२)ॐ दृढाय नमः, ४३) ॐ ईशाय नमः, 
४४) ॐ खड्गधराय नमः, ४५) ॐ श्रीमते नमः, ४६) ॐ कौसलेयाय नमः, ४७)ॐ अनसूयकाय नमः, 
४८) ॐ विपुलांसाय नमः, ४९)ॐ महोरस्काय नमः,५०) ॐ परमेष्ठिने नमः, ५१) ॐ परायणाय नमः, 
५२) ॐ सत्यव्रताय नमः, ५३) ॐ सत्यसन्धाय नमः, ५४) ॐ गुरवे नमः, ५५) ॐ परमधार्मिकाय नमः, 
५६) ॐ लोकज्ञाय नमः, ५७) लोकवन्द्याय नमः, ५८)ॐ लोकात्मने नमः, ५९) ॐ लोककृते नमः, 
६०) ॐ परस्मै नमः, ६१) ॐ अनादये नमः,६२) ॐ भगवते नमः, ६३) ॐ सेव्याय नमः 
६४) ॐ जितमायाय नमः६५) ॐ रघूद्वहाय नमः ६६) ॐ रामाय नमः ६७) ॐ दयाकराय नमः 
६८) ॐ दक्षाय नमः ६९) ॐ सर्वज्ञाय नमः ७०) ॐ सर्वपावनाय नमः ७१) ॐ ब्रह्मण्याय नमः 
७२) ॐ नीतिमते नमः ७३) ॐ गोप्त्रे नमः ७४) ॐ सर्वदेवमयाय नमः ७५) ॐ हरये नमः 
७६) ॐ सुन्दराय नमः ७७) ॐ पीतवाससे नमः ७८) ॐ सूत्रकाराय नमः ७९) ॐ पुरातनाय नमः 
८०) ॐ सौम्याय नमः ८१) ॐ महर्षये नमः ८२) ॐ कोदण्डिने नमः ८३) ॐ सर्वज्ञाय नमः 
८४) ॐ सर्वकोविदाय नमः ८५) ॐ कवये नमः ८६) सुग्रीववरदाय नमः ८७) ॐ सर्वपुण्याधिकप्रदाय नमः 
८८) ॐ भव्याय नमः ८९) ॐ जितारिषड्वर्गाय नमः ९०) ॐ महोदराय नमः ९१) ॐ अघनाशनाय नमः 
९२) ॐ सुकीर्तये नमः ९३) ॐ आदिपुरुषाय नमः ९४) ॐ कान्ताय नमः ९५) ॐ पुण्यकृतागमाय नमः 
९६) ॐ अकल्मषाय नमः ९७) ॐ चतुर्बाहवे नमः ९८) ॐ सर्वावासाय नमः ९९) ॐ दुरासदाय नमः १००) ॐ स्मितभाषिणे नमः १०१) ॐ निवृत्तात्मने नमः १०२) ॐ स्मृतिमते नमः १०३) ॐ वीर्यवते नमः १०४) ॐ प्रभवे नमः १०५) ॐ धीराय नमः १०६) ॐ दान्ताय नमः १०७) ॐ घनश्यामाय नमः १०८) ॐ सर्वायुधविशारदाय नमः १०९) ॐ अध्यात्मयोगनिलयाय नमः ११०) ॐ सुमनसे नमः १११) ॐ लक्ष्मणाग्रजाय नमः ११२) ॐ सर्वतीर्थमयाय नमः ११३) ॐ शूराय नमः ११४) ॐ सर्वयज्ञफलप्रदाय नमः ११५) ॐ यज्ञस्वरुपिणे नमः ११६) ॐ यज्ञेशाय नमः ११७) ॐ जरामरणवर्जिताय नमः ११८) ॐ वर्णाश्रमकराय नमः ११९) ॐ वर्णिने नमः १२०) ॐ शत्रुजिते नमः १२१) ॐ पुरुषोत्तमाय नमः १२२) ॐ बिभीषणप्रतिष्ठात्रे नमः १२३) ॐ परमात्मने नमः १२४) ॐ परात्परस्मै नमः १२५) ॐ प्रमाणभूताय नमः १२६) ॐ दुर्ज्ञेयाय नमः १२७) ॐ पूर्णाय नमः १२८) ॐ परपुरञ्जयाय नमः १२९) ॐ अनन्तदृष्टये नमः १३०) ॐ आनन्दाय नमः १३१) ॐ धनुर्वेदाय नमः १३२) ॐ धनुर्धराय नमः १३३) ॐ गुणाकराय नमः १३४) ॐ गुणश्रेष्ठाय नमः १३५) ॐ सच्चिदानन्दविग्रहाय नमः १३६) ॐ अभिवन्द्याय नमः १३७) ॐ महाकायाय नमः १३८) ॐ विश्र्वकर्मणे नमः १३९) ॐ विशारदाय नमः १४०) ॐ विनीतात्मने नमः १४१) ॐ वीतरागाय नमः १४२) ॐ तपस्वीशाय नमः १४३) ॐ जनेश्र्वराय नमः १४४) ॐ कल्याणप्रकृतये नमः १४५) ॐ कल्पाय नमः १४६) ॐ सर्वेशाय नमः १४७) ॐ सर्वकामदाय नमः १४८) ॐ अक्षयाय नमः १४९) ॐ पुरुषाय नमः १५०) ॐ साक्षिणे नमः १५१) ॐ केशवाय नमः १५२) ॐ पुरुषोत्तमाय नमः १५३) ॐ लोकाध्यक्षाय नमः १५४) ॐ महामायाय नमः १५५) ॐ बिभीषणवरप्रदाय नमः १५६) ॐ आनन्दविग्रहाय नमः १५७) ॐ ज्योतिषे नमः १५८) ॐ हनुमत्प्रभवे नमः १५९) ॐ अव्ययाय नमः १६०) ॐ भ्राजिष्णवे नमः १६१) ॐ सहनाय नमः १६२) ॐ भोक्त्रे नमः १६३) ॐ सत्यवादिने नमः १६४) ॐ बहुश्रुताय नमः १६५) ॐ सुखदाय नमः १६६) ॐ कारणाय नमः १६७) ॐ कर्त्रे नमः १६८) ॐ भवबन्धविमोचनाय नमः १६९) ॐ देवचूडामणये नमः १७०) ॐ नेत्रे नमः १७१) ॐ ब्रह्मण्याय नमः १७२) ॐ ब्रह्मवर्धनाय नमः १७३) ॐ संसारोत्तारकाय नमः १७४) ॐ रामाय नमः १७५) ॐ सर्वदुःखविमोक्षकृते नमः १७६) ॐ विद्वत्तमाय नमः १७७) ॐ विश्र्वकर्त्रे नमः १७८) ॐ विश्र्वहर्त्रे नमः १७९) ॐ विश्र्वकृते नमः १८०) ॐ नित्याय नमः १८१) ॐ नियतकल्याणाय नमः १८२) ॐ सीताशोकविनाशकृते नमः १८३) ॐ काकुत्स्थाय नमः १८४) ॐ पुण्डरीकाक्षाय नमः १८५) ॐ विश्र्वामित्रभयापहाय नमः १८६) ॐ मारीचमथनाय नमः १८७) ॐ रामाय नमः १८८) ॐ विराधवधपण्डिताय नमः १८९) ॐ दुस्स्वप्ननाशनाय नमः १९०) ॐ रम्याय नमः १९१) ॐ किरीटिने नमः १९२) ॐ त्रिदशाधिपाय नमः १९३) ॐ महाधनुषे नमः १९४) ॐ महाकायाय नमः १९५) ॐ भीमाय नमः १९६) ॐ भीमपराक्रमाय नमः १९७) ॐ तत्त्वस्वरुपिणे नमः १९८) ॐ तत्त्वज्ञाय नमः १९९) ॐ तत्त्वादिने नमः २००) ॐ सुविक्रमाय नमः २०१) ॐ भूतात्मने नमः २०२) ॐ भूतकृते नमः २०३) ॐ स्वामिने नमः २०४) ॐ कालज्ञानिने नमः २०५) ॐ महापटवे नमः २०६) ॐ अनिर्विण्णाय नमः २०७) ॐ गुणग्राहिणे नमः २०८) ॐ निष्कलङ्काय नमः २०९) ॐ कलङ्कघ्ने नमः २१०) ॐ स्वभावभद्राय नमः २११) ॐ शत्रुघ्नाय नमः २१२) ॐ केशवाय नमः २१३) ॐ स्थाणवे नमः २१४) ॐ ईश्र्वराय नमः २१५) ॐ भूतादये नमः २१६) ॐ शम्भवे नमः २१७) ॐ आदित्याय नमः २१८) ॐ स्थविष्टाय नमः २१९) ॐ शाश्र्वताय नमः २२०) ॐ ध्रुवाय नमः २२१) ॐ कवचिने नमः २२२) ॐ कुण्डलिने नमः २२३) ॐ चक्रिणे नमः २२४) ॐ खड्गिने नमः २२५) ॐ भक्तजनप्रियाय नमः २२६) ॐ अमृत्यवे नमः २२७) ॐ जन्मरहिताय नमः २२८) ॐ सर्वजिते नमः २२९) ॐ सर्वगोचराय नमः २३०) ॐ अनुत्तमाय नमः २३१) ॐ अप्रमेयात्मने नमः २३२) ॐ सर्वादये नमः २३३) ॐ गुणसागराय नमः २३४) ॐ समाय नमः २३५) ॐ समात्मने नमः २३६) ॐ समगाय नमः २३७) ॐ जटामुकुटमण्डिताय नमः २३८) ॐ अजेयाय नमः २३९) ॐ सर्वभूतात्मने नमः २४०) ॐ विष्वक्सेनाय नमः २४१) ॐ महातपसे नमः २४२) ॐ लोकाध्यक्षाय नमः २४३) ॐ महाबाहवे नमः २४४) ॐ अमृताय नमः २४५) ॐ वेदवित्तमाय नमः २४६) ॐ सहिष्णवे नमः २४७) ॐ सद्गतये नमः २४८) ॐ शास्त्रे नमः २४९) ॐ विश्र्वयोनये नमः २५०) ॐ महाद्युतये नमः 

Shri Ram Sahastra Namavalihi 
श्रीराम सहस्त्र नामावली



Custom Search