Saturday, January 12, 2019

SarveshtaPradam Gajanan Stotram सर्वेष्टप्रदं गजानन स्तोत्रम्


SarveshtaPradam Gajanan Stotram 
SarveshtaPradam Gajanan Stotram is in Sanskrit. It is created by Kapil Muni. It is from Mudgal Purana.
सर्वेष्टप्रदं गजानन स्तोत्रम् 
श्रीगणेशाय नमः ।
कपिल उवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहाारिणे । 
अभक्तानां विशेषेण विघ्नकर्ते नमो नमः ॥ १ ॥
आकाशाय च भूतानां मनसे चामरेषु ते ।
बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २ ॥
देहानां बिन्दुरुपाय मोहरुपाय देहिनाम् ।
तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३ ॥
सांख्याय वै विदेहानां संयोगानां निजात्मने ।
चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४ ॥
नामरुपात्मकानां वै शक्तिरुपाय ते नमः ।
आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५ ॥
आनन्दानां महाविष्णुरुपाय नेति धारिणाम् ।
शंकराय च सर्वेषां संयोगे गणपाय ते ॥ ६ ॥
कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् ।
समेषु समरुपाय लम्बोदर नमोऽस्तु ते ॥ ७ ॥
स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८ ॥
निर्मायिकस्वरुपाणामयोगाय नमो नमः ।
योगानां योगरुपाय गणेशाय नमो नमः ॥ ९ ॥
शान्तियोगप्रदात्रे ते शान्तिमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १० ॥
ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११ ॥
श्रीगणेश उवाच ।
त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२ ॥
वरं वरय मत्तस्त्वं दास्यामि भक्तियंत्रितः ।
त्वत्समो न भवेत्तात तत्वज्ञानप्रकाशकः ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।
त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४ ॥
त्वदीयभूषणं दैत्यो हत्वा सद्यो जगाम ह ।
ततश्र्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५ ॥
यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६ ॥
गृत्समद उवाच ।
तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७ ॥
त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति ।
तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८ ॥
॥ इति श्रीमुद्गलपुराणे कपिलमुनिना विरचितं गजाननस्तोत्रं संपूर्णम् ॥ 
SarveshtaPradam Gajanan Stotram
सर्वेष्टप्रदं गजानन स्तोत्रम् 


Custom Search