Thursday, April 30, 2015

Shri Vyankatesh VajraKavacha Stotra श्रीवेंकटेश वज्रकवच स्तोत्रं


Shri Vyankatesh VajraKavacha Stotra
Shri Vyankatesh VajraKavacha Stotra is in Sanskrit. It is a very powerful Vajrakavacha of God Vyankatesha. Any devotee who recites it daily is everywhere protected by God Vyankatesha.
श्रीवेंकटेश वज्रकवच स्तोत्रं
नारायणं परब्रह्म सर्वकारण कारणम् 
प्रपद्ये वेंकटेशाख्यं तदेव कवचं मम ॥ १ ॥
सहस्त्र शीर्षा पुरुषो वेंकटेश श्शिरोऽवतु 
प्राणेशः प्राणनिलयः प्राणंरक्षतुमे हरिः ॥ २ ॥
आकाशराट् सुतानाथ आत्मानाम सदावतु 
देवदेवोत्तमः पायाद्देहंमे वेंकटेश्वरः ॥ ३ ॥
सर्वत्र सर्वकालेषु मंगांबा जानिरिश्वरः 
पालयेन्मामकं कर्मसाफल्यं नः प्रयच्छतु ॥ ४ ॥
यएतद्वज्र कवचमभेद्य वेंकटेशितुः 
सायंप्रातः पठेन्नित्यं मृत्युंतरति निर्भयः ॥ ५ ॥
॥ इति श्रीवेंकटेश वज्रकवच स्तोत्रम् संपूर्णम् ॥


Shri Vyankatesh VajraKavacha Stotra 
श्रीवेंकटेश वज्रकवच स्तोत्रं


Custom Search

Tuesday, April 28, 2015

Shri Bhargav Kavacham श्रीभार्गवकवचम्


Shri Bhargav Kavacham 
Shri Bhargav Kavacham is in Sanskrit. Bhargav is the name of Parshuram. Parshuram is the 6th Incarnation of God Vishnu. Every year on Vaishakha Shudha Dwitiya we celebrate Parshuram jayanti. This year we have celebrated it on 20th April 28, 2015. This Kavacha is very powerful and fulfills all the desires of the devotees who so ever recite this kavacham daily with faith, devotion and concentration.
श्रीभार्गवकवचम्
॥ श्रीगणेशाय नमः ॥
श्रीनारायण उवाच ।
कैलासशिखरे रम्ये शंकरं लोकशंकरम् ।
कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम् ॥ १ ॥
पार्वत्युवाच ।
देवदेव महादेव देवेश वृषभध्वज ।
त्वत्तः श्रुतान्यशेषाणि जामदग्नस्य साम्प्रतम् ॥ २ ॥
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम् ।
न श्रुतं कवचं देव न चोक्तं भवता मम ॥ ३ ॥
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ।
इति पृष्टः स गिरिशो मन्त्रतन्त्राङ्गतत्तववित् ॥ ४ ॥
उवाच प्रहसन्देवीं हिताय जगतामिदम् ।
रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥ ५ ॥
शिव उवाच ।
श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम् ।
धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥ ६ ॥
एकमौपयिकं मन्ये विष्णुवक्षःस्थलालयाम् ।
श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम् ॥ ७ ॥
एकातपत्रसहितां य इच्छेत्सागराम्बराम् ।
स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥ ८ ॥
उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम् ।
कथं जयेयुर्वीरेन्द्राः कवचानावृताङ्गकाः ॥ ९ ॥
परप्रयुक्तकृत्यादिदोषा भूतादयोऽपि वा ।
प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम् ॥ १० ॥
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्र्च वा ।
जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥ ११ ॥
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम् ।
मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥ १२ ॥
अङ्गिरा ऋषिः । बृहती छन्दः । श्रीमाञ्जामदग्न्यो देवता ।
उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फुलिङ्गाङ्कुर--
व्रातामोघमहास्त्रनाशितजगद्विद्वेषिवंशाटवीम् ॥
वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननं 
वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् ॥ १३ ॥
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक् ।
ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥ १४ ॥
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः ।
नेत्रे गोत्रार्तिहा मेऽव्याल्लोचने भवमोचनः ॥ १५ ॥
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवान् ।
नासे सुनासः पायान्मे नासिके दासवत्सलः ॥ १६ ॥
रसनां रसरुपोऽव्याद्रसज्ञां रेणुकासुतः ।
अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥ १७ ॥
वक्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तीन्द्रविक्रमः ।
चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥ १८ ॥
स्कन्धौ मे स्कन्धविजयी कक्षे मे क्षत्रियान्तकः ।
भुजौ मे सततं पातु सहस्त्रभुजशासनः ॥ १९ ॥
करौ हितकरः पातु पाणी क्षोणीभरापहः ।
अङ्गुलीर्मङ्गलगुणो नखानि मखकृन्मम ॥ २० ॥
वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः ।
उरः पुरुषवीरो मे पार्श्र्वौ पातु परश्र्वधी ॥ २१ ॥     
उदरस्थजगत्पायादुदरं मम सर्वदा ।
भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥ २२ ॥
लिङ्गं शंकरशिष्योऽव्यादुपस्थं निस्तुलप्रभः ।
पाय्वपानं च मे पायात्सायकासनवान्सदा ॥ २३ ॥
त्रिसप्तकृत्वःकुलहा त्रिकं मेऽवतु सर्वदा ।
परमेष्ठ्यवतात्पृष्ठं पिठरं दृढविक्रमः ॥ २४ ॥
ऊरु मेरुसमः पातु जानू मे जगतां पतिः ।
जङ्घे संघातहन्ताव्यात्प्रपदे विपदान्तकः ॥ २५ ॥ 
पादौ मे पादचार्यव्याच्चरणौ करुणानिधिः ।
पादाङ्गुलीः पापहा मे पायात्पादतले परः ॥ २६ ॥
परश्र्वधधरः पायाद्रामः पादनखानि मे ।
पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि संततम् ॥ २७ ॥
दक्षिणस्यामपि दिशि दक्षयज्ञान्तकप्रियः ।
पश्र्चिमस्यां सदा पायात्पाश्र्चात्याम्बुधिमर्दनः ॥ २८ ॥
वित्तेशराक्षिताशायां पायान्मां सत्तमार्चितः ।
सर्वतः सर्वजित्पायान्ममाङ्गानि भयात्प्रभुः ॥ २९ ॥
मनो महेन्द्रनिलयश्र्चित्तं मे दृप्तनाशनः ।
बुद्धिं सिद्धार्चितः पायादहंतामनहंकृतिः ॥ ३० ॥
कर्माणि कार्तवीर्यारिर्हिलां हैहयवंशहा ।
हरत्वमोघदृङ्मोहं क्रोधं च क्रोधदर्पहा ॥ ३१ ॥
श्रियं करोतु मे श्रीशः पुष्टिवर्धनः ।
संतानं सततं दद्याद्भृगुसंतानभूरुहः ॥ ३२ ॥
आयूंषि मे वितनुतादार्यः परमपूरुषः ।
आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः ।
श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥ ३३ ॥
ॐ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ।
कथितं देवि ते गुह्यं प्रियेति परमाद्भुतम् ॥ ३४ ॥
न नास्तिकाय नादात्रे न चाश्रद्धालये प्रिये ।
देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥ ३५ ॥
नाजापकाय नाज्ञात्रे नासत्यवचसे क्वचित् ।
नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥ ३६ ॥
देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने ।
गुणान्विताय शुद्धाय मन्त्रगोप्त्रे च मन्त्रिणे ॥ ३७ ॥
अवश्यमेतञ्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ।
मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥ ३८ ॥
 वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ।
आसेचितादिव तरोर्फलं नाप्नोति सद्रसम् ? ॥ ३९ ॥
जयकामो भूर्जपत्रे रक्तबिन्दुभिरुज्ज्वलैः ।
लिखित्वावर्तयेद्रात्रौ कवचं शतसंख्यया ॥ ४० ॥
संपूज्य धूपदीपाद्यैर्ध्यात्वा च हृदि भार्गवम् ।
हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात् ॥ ४१ ॥
एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा ।
वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥ ४२ ॥
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनि ।
कवचेनाभिजप्तेन गच्छञ्जयमवाप्नुयात् ॥ ४३ ॥
श्रीकामस्तु महेन्द्राद्रेर्द्रोणिं गत्वा मनोहराम् ।
तत्र मण्डलमास्थाय चण्डभानुं विलोकयन् ॥ ४४ ॥
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ।
मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥ ४५ ॥
सिद्धयो विविधास्तस्य दिव्यज्योतिर्लतालयः ।
सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः ॥ ४६ ॥
भूतप्रेतपिशाचाश्र्च रोगाश्र्च विविधाशुभाः ।
दुष्टा नृपास्तस्कराश्र्च व्याघ्रसिंहगजादयः ॥ ४७ ॥
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रिजे ।
दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥ ४८ ॥
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम् ।
दारिद्र्यदुःखशमनं संसारभयनाशनम् ॥ ४९ ॥
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम् ।
तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम् ॥ ५० ॥
परश्र्वधधनुर्दण्डराजितांसद्वयान्वितम् ।
अक्षसूत्रं सुविभ्राणं दक्षिणेऽङ्गुलिपल्लवे ॥ ५१ ॥
वामजानुतलन्यस्तवामपाणिकुशेशयम् ।
उन्मज्जज्जलजग्रीवमामीलितविलोचनम् ॥ ५२ ॥
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम् ।
सुन्दर सुन्दरापाङ्गं भोगिभोगभुजद्वयम् ॥ ५३ ॥
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम् ।
ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणतवत्सलम् ॥ ५४ ॥
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः ।
जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत् ॥ ५५ ॥
जामदग्न्यो जगन्नेता ब्रह्मण्यो ब्रह्मवत्सलः ।
कार्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥ ५६ ॥
विश्र्वजिद्दीक्षितो रामः कश्यपाशासुरद्रुमः ।
परश्र्वधधरः शान्तो महेन्द्रकृतकेतनः ॥ ५७ ॥
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरभ्यर्च्य नामभिः ।
उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्र्वरम् ॥ ५८ ॥
क्षिप्रप्रसादजननैश्र्चतुर्वर्गफलोदयैः ।
हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत् ॥ ५९ ॥
इमानि गौरि नामानि सुगोप्यानि सतामपि ।
ॐ हंसस्त्रयीमयो धाता योगीन्द्रहृदयालयः ॥ ६० ॥
त्रिधामा त्रिगुणातीतस्त्रिमूर्तिस्त्रिजगन्मयः ।
नारायणः परं ब्रह्म परं तत्त्वं परात्परः ॥ ६१ ॥
भार्गवो धर्मचरणो भर्गरुपः सतां गतिः ।
इति षोडशभिः स्तुत्वा नामभिर्ऋषिपुंगवम् ॥ ६२ ॥
सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ।
आत्मानं विन्यसेदङ्गेष्वनेन कवचेन सः ॥ ६३ ॥
मृगीमुद्रिकया धीमान्वज्रसारेण सारवित् ।
दशवारं प्रतिदिनं मासमेकं समाचरेत् ॥ ६४ ॥
स्वप्ने पश्यति देवेशं भार्गवं भृगुनन्दनम् ।
चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् ॥ ६५ ॥
मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः ।
मनसः संप्रसादेन लब्ध्वा वरमनुत्तमम् ॥ ६६ ॥
अणिमादिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात् ।
अथवा योगसिद्धिं यो धातुसिद्धिं च वाञ्छति ॥ ६७ ॥
कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान् ।
सर्वाश्र्चौषधयस्तस्य खेचरत्वादिसिद्धिदाः ॥ ६८ ॥
रससिद्धिप्रदाश्र्चापि सिध्यन्त्यस्य न संशयः ।
महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले ॥ ६९ ॥
जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः ।
प्रस्फुरद्गुणसौवर्णराशीनां जन्मभूः परः ॥ ७० ॥
तथेदमिव वर्मान्यद्धर्मादिफलदं न हि ।
कवचेऽस्मिन्सकृज्जप्ते मन्त्रावृत्तिसहस्त्रजम् ॥ ७१ ॥
फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः ।
अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ॥ ७२ ॥
जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात् ।
सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम् ॥ ७३ ॥
मूकोऽपि वाग्मी भवति जपन्नेतद्गुरुर्यथा ।
नित्यं परश्र्वधभृतः कवचस्यास्य धारणात् ॥ ७४ ॥
सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः ।
वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम् ॥ ७५ ॥
कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति ।
इत्येतदुक्तं कवचं मया हैहयविद्विषः ॥ ७६ ॥
गोपनीयमिदं देवि ममात्मासि मणिर्यथा ।
धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम् ।
जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥ ७७ ॥
॥ इति श्रीविष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धिकल्पे त्रयस्त्रिंशत्पटलः ॥
॥ श्रीभार्गवार्पणमस्तु ॥
॥ श्रीभार्गवकवचं संपूर्णम् ॥

Shri Bhargav Kavacham 
श्रीभार्गवकवचम्



Custom Search

Tuesday, April 14, 2015

Shri Ganapati Stotra (Marathi) श्रीगणपती स्तोत्र


Shri Ganapati Stotra (Marathi) 
Shri Ganapati Stotra (Marathi) is the translation of the original Ganapati stotra in Sanskrit which is created by Narad Muni.This translation is done by Shridhar Swami.These are 12 names of God Ganesh. Anybody reciting this stotra daily for six months; then all his troubles, difficuities are vanasied by the blessings of God Ganesh.If anybody recites this stotra daily for a year then he becomes master of all sidhies.
श्रीगणपती स्तोत्र
साष्टांग नमन हे माझे गौरीपुत्रा विनायका । 
भक्तीनें स्मरतो नित्य आयुःकामार्थ साधती ॥ १ ॥
प्रथम नांव वक्रतुंड दुसरें एकदंत ते ।
तिसरे कृष्णपिंगाक्ष चवथे गजवक्र ते ॥ २ ॥
पांचवे श्रीलंबोदर सहावें विकट नांव ते ।
सातवे विघ्नराजेंद्र आठवे धुम्रवर्ण ते ॥ ३ ॥
नववे श्री भालचंद्र दहावे श्री विनायक ।
अकरावे गणपती बारावे श्री गजानन ॥ ४ ॥
    देवनांवे अशी बारा तीन संध्या म्हणे नर ।              विघ्नभीती नसे त्याला प्रभो ! तू सर्व सिद्धिदे ॥ ५ ॥
विद्यार्थ्याला मिळे विद्या धनार्थ्याला मिळे धन ।
पुत्रार्थ्याला मिळे पुत्र मोक्षार्थ्याला मिळे गति ॥ ६ ॥
जपता गणपती स्तोत्र सहा मासांत हे फळ ।
एक वर्ष पुर्ण होतां मिळे सिद्धी न संशय ॥ ७ ॥
नारदांनी रचिलेले झाले संपू्र्ण स्तोत्र हें ।
श्रीधराने मराठींत पठण्या अनुवादिले ॥ ८ ॥
॥ श्रीगणपती स्तोत्र संपूर्ण ॥

Shri Ganapati Stotra (Marathi) 
श्रीगणपती स्तोत्र



Custom Search

Sunday, April 12, 2015

BibhishanKrutam Hanumat Stotram बिभीषणकृतं हनुमत्स्तोत्रम्


BibhishanKrutam Hanumat Stotram 
BibhishanKrutam Hanumat Stotram is in Sanskrit. It is created by Bibhishan. This stotra is from ShriSudarshan Sanhita. It has arisen from the discussion between Bibhishan and Garuda. This is a God Hanuman Stuti and description of what God Hanuman has done for God Ram in the war with Ravana. All desires of the devotee who recites this stotra daily with faith, devotion and concentration are fulfilled by the blessings of God Hanuman.
बिभीषणकृतं हनुमत्स्तोत्रम्
नमो हनुमते तुभ्यं नमो मारुत्सूनवे ।
नमः श्रीरामभक्ताय श्यामास्याय ते नमः ॥ १ ॥
नमो वानरवीराय सुग्रीवसख्यकारिणे ।
लङ्काविदाहनार्थाय हेलासागरतारिणे ॥ २ ॥
सीताशोकविनाशाय राममुद्राधरायच ।
रावणान्तकुलच्छेदकारिणे ते नमो नमः ॥ ३ ॥
मेघनादमखध्वंससकारिणे ते नमो नमः ।
अशोकवनविध्वंसकारिणे भयहारिणे ॥ ४ ॥
वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेदलङ्काप्रासादभञ्जिने ॥ ५ ॥
ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिविजयदात्रे च रामदूताय ते नमः ॥ ६ ॥
अक्षस्य वधकर्ते च ब्रह्मपाशनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ॥ ७ ॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः ।
ऋक्षवानरवीरौघप्राणदाय नमो नमः ॥ ८ ॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥ ९ ॥
महाभयरिपुघ्नाय भक्तत्राणैककारिणे ।
परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥ १० ॥
पयःपाषाणतरणकारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे भवतारिणे ॥ ११ ॥
नखायुधाय भीमाय दन्तायुधधराय च ।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥ १२ ॥
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने ।
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥ १३ ॥
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च ।
विहंगमाय सर्वाय वज्रदेहाय ते नमः ॥ १४ ॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥ १५ ॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसंग्रामेसंख्ये संजवधारिणे ॥ १६ ॥
भक्तान्तदिव्यवादेषु संग्रामे जयदायिने  ।
किल्किलाबुबुकोच्चारघोर शब्दकराय च ॥ १७ ॥
सर्पाग्रिव्याधिसंस्तम्भकारिणे वनचारिणे ।
सदा वनफलाहारसंतृप्ताय विशेषतः ॥ १८ ॥
महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।
वादे विवादे संग्रामे भये घोरे महावने ॥ १९ ॥
सिंहव्याघ्रादिचोरेभ्यः स्तोत्रपाठाद् भयं न हि ।
दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे ॥ २० ॥
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ।
जले सर्प महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ॥ २१ ॥
पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः ।
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ॥ २२ ॥
सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् ।
सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥ २३ ॥
बिभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् ।
ये पठिष्यन्ति भक्त्या वै सिद्धवस्तत्करे स्थिताः ॥ २४ ॥
॥ इति सुदर्शनसंहितायां बिभीषण-गरुड संवादे बिभीषणकृतं 
हनुमत्स्तोत्रं सम्पूर्णम् ॥
मराठी अर्थ:
१) हनुमान आपल्याला नमस्कार. मारुतनन्दन आपल्याला नमस्कार. श्रीरामभक्त आपल्याला नमस्कार. आपल्या मुखाचा रंग श्याम आहे आपल्याला नमस्कार आहे.
२) आपण श्रीराम-सुग्रीव यांची मैत्री करुन देणारे, लंकादहन करणारे आणि खेळता खेळता महासागर पार करुन जाणारे वानर वीर आहात आपल्याला नमस्कार आहे.
३) आपण राममुद्रीका धारण करणारे, सीतेचे दुःख हरण करणारे आणि रावणकुलाचा नाश करणारे आहात आपल्याला पुनःपुनः नमस्कार आहे.
४) आपण अशोकवन उध्वस्त करणारे, मेघनादाच्या (मेघनाद नावाचा राक्षस) यज्ञाचा विध्वंस करणारे, भय हरण करणारे आपल्याला परत परत नमस्कार आहे.
५) आपण वायु पुत्र आहात, अशोकवनाच्या रक्षकांचा 
शिरच्छेद करणारे आहात, लंकेच्या राजवाड्याच्या तटबंदीची तोडफोड करणारे आहात.
६) आपल्या शरीर कांतीचा वर्ण तापलेल्या सुवर्णासारखा आहे. आपली शेपटी फार लांब आहे आणि आपण सुमित्रेचा मुलगा लक्ष्मण याला विजय मिळवून देणारे आहात. आपल्याला पुनः पुनः नमस्कार आहे.
७) आपण अक्षकुमाराचा वध करणारे, ब्रह्मपाशाचे निवारण करणारे, लक्ष्मणाच्या शरिरावर शक्तीच्या आघाताने झालेल्या घावाचे निवारण करणारे आहात.
८) राक्षस, शत्रु व भूतांचे संहार करणारे आणि वानरवीरांच्या समुदायाचे जीवनदाते आहात. आपल्याला पुनःपुनः नमस्कार आहे.
९) आपण शत्रु सैन्याचा नाश करणारे, त्यांच्या शस्त्रास्त्रांचे विनाशक आहात आपल्याला नमस्कार आहे. आपण वीष, शत्रु आणि ज्वर यांचे विनाशक आहात आपल्याला नमस्कार आहे.
१०) आपण महाभयंकर शत्रुचा नाश करणारे, भक्तजनांचे एकमेव तारणकर्ता आणि दुसर्‍यांनी केलेल्या मंत्र-यंत्रांना स्तंभित करणारे आहात.
११) समुद्र जलावर तरंगणार्‍या शिलांचे कारण स्वरुप आहात आपल्याला पुनःपुनः नमस्कार आहे. आपण बाल-सूर्य-मंडलाचा ग्रास करणारे आणि (भक्तजनांवाचे) भवसागरांतुन तारण करणारे आहात.
१२) आपले स्वरुप महाभयंकर आहे. आपण नखें आणि दात यांनाच शस्त्र म्हणुन धारण करता. शत्रुच्या मायेपासुन निवारण करणारे आहात तसेच श्रीरामांच्या आज्ञेने लोकांचे पालन करणारे आहात. 
१३) राक्षस व भूतांचा नाश करणे हेच आपले प्रयोजन आहे. प्रत्येक गावामध्ये आपण मूर्तरुपाने आहात. विशाल पर्वत आणि मोठेमोठे वृक्ष ही आपली शस्त्रे आहेत आपल्याला नमस्कार आहे.
१४) आपण ब्रह्मचारी आहात, रुद्ररुपामध्ये अवतरित असून आकाशामध्ये संचार करणारे आहात. आपले शरीर वज्रासारखे आहे. आपणास परत परत नमस्कार आहे.
१५) कौपीन हेच आपले वस्त्र आहे, नेहमी रामभक्तीमध्ये आपण मग्न असता, दक्षिणदिशा उजळून टाकण्यासाठी आपण सूर्यासारखे आहात. शेकडो चंद्रांसारखी आपली शरीर कांती आहे.
१६) आपण कृत्यांनी केलेल्या आघातांच्या घावांचे नाश करणारे आहात.सर्व कष्टांचे निवारक आहात. स्वामींच्या (रामाज्ञेने) अर्जुनाच्या (कौरवाशी झालेल्या) युद्धांत मैत्रीभावाचे (त्याच्या रथावर राहून) संस्थापन करणारे आहात. 
१७) भक्तांना दिव्या वाद-विवादांत अंतिम जय देणारे व युद्धांत विजय मिळवुन देणारे आहात. किलकिला आणि बुबुकह्यांचे भिषण उच्चार करणारे आहात.
१८) आपण सर्प, अग्नि आणि वाघ यांचे स्तंभन करणारे आहात. वनचारी आणि आपण महाजंगलांतील फळांचा आहार करुन  विशेषतः तृप्त होणारे आहात. 
१९-२२) आपण समुद्रावर शिलाखंडांचा पूल निर्माण करणारे आहात. आपल्याला नमस्कार आहे. या स्तोत्राचा पाठ करणारास वाद-विवाद, युद्ध, महाभयंकर अरण्य सिंह-वाघ आदि हिंसक प्राण्यांपासून आणि चोरांपासून भयप्राप्ती होते. यासर्वा पासून त्रास होत नाही. जर एखाद्याने या स्तोत्राचा पाठ केला तर दैविक व भौक्तिक दुःख,व्याधि,संकटे; स्थावर-जंगम यासंबंधी त्रास, राजभय, ग्रहांचे भय, पाणी, साप, महावृष्टी, दुर्भिक्ष आणि घोर प्राणसंकट यासर्वांपासून भय राहात नाही. या सर्वांपासून काहीही त्रास होत नाही.
२३) सकाळी, दुपारी आणि संध्याकाळी या स्तोत्राचा पाठ केला पाहीजे. असे केल्यावर सर्व प्रकारच्या 
इच्छा-आाकांक्षाची पूर्ति होते. याबद्दल पुनर्विचार करण्याची आवश्यकता नाही. म्हणजे हे होतेच यांत संशय नाही.
२४) बिभिषणाने केलेल्या या स्तोत्राचा गरुडाने सम्यक पाठ केला. जो कोणी या स्तोत्राचा भक्तिपूर्वक पाठ करतो त्याच्या करतलावर सर्व सिद्धि राहतात. 
अशारीतीने सुदर्शनसंहितेंतील हे बिभिषणाने केलेले हनुमान स्तोत्र संपूर्ण झाले. 

BibhishanKrutam Hanumat Stotram
बिभीषणकृतं हनुमत्स्तोत्रम्



Custom Search

Saturday, April 11, 2015

ParasharaMuniKrut Putrapraptikar Mahalaxmi Stotra पराशरमुनिकृत पुत्रप्राप्तिकर महालक्ष्मी स्तोत्रम्


ParasharaMuniKrut Putrapraptikar Mahalaxmi Stotra 
ParasharaMuniKrut Putrapraptikar Mahalaxmi Stotra is in Sanskrit. It is a praise of Goddess Mahalaxmi done by Parashar Muni.It is specially created for those who don't have a child. It is said that if such couples recites this stotra daily with devotion, faith and concentration their desires are fulfilled by the blessings of Goddess Mahalaxmi. This stotra is from ShreeKarveer Mahatmya.
पराशरमुनिकृत पुत्रप्राप्तिकर महालक्ष्मी स्तोत्रम् 
अनाद्दन्तरुपां त्वां जननी देहिनाम् । 
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ १ ॥
नामजात्यादिरुपेण स्थितां त्वां परमेश्र्वरीम् ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ २ ॥
व्यक्ताव्यक्त स्वरुपेण कुत्रनं व्याप्या व्यवस्थिताम् ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ ३ ॥
भक्तानंदश्रद्धा पूर्णापूर्ण काम करी पराम् ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ ४ ॥
अंतर्याम्यात्मना विश्र्वमापूर्य ह्रदिसंस्थिताम् ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ ५ ॥
सर्वदैत्य विनाशार्थ लक्ष्मीरुपां व्यवस्थिताम् ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ ६ ॥
भुक्तिमुक्तिंच दातु संस्थिता करवीरके ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ ७ ॥
सर्वभयप्रदां देवी सर्वसंशय नाशिनीम् ।
श्रीविष्णुरुपिणीं वदें महालक्ष्मी परमेश्र्वरीम् ॥ ८ ॥
॥ इति श्रीकरवीरमहात्म्ये पराशरकृतं पुत्रप्राप्तिकरं महालक्ष्मीस्तोत्रं संपूर्णम् ॥
मराठी अर्थः
१) अनादी आणि अंनतरुपी हे देवी, तू देहधारण करणार्‍याची माता आहेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार. 
२) नाम आणि जाती आदिरुपाने हे परमेश्र्वरी तू स्थित आहेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार.
३) व्यक्त आणि अव्यक्त स्वरुपांत तू सर्व व्यापून आहेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार.
४) भक्तांच्या श्रद्धेप्रमाणे त्यांना आनंदी करून त्यांचे मनोरथही पूर्ण करतेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार.
५) विश्र्व व्यापून आमच्या अंर्तयामी, ह्रदयांत तू स्थित झाली आहेस.
विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार.
६) सर्व दैत्यांचा नाश करण्यासाठी लक्ष्मीच्यारुपांत तू स्थित झाली आहेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार. 
७) भक्तांना भुक्ती आणि मुक्ती देण्यासा्ठी तू करवीरी स्थित झाली आहेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार.
८) हे देवी सर्व भयाचा आणि सर्व संशयाचा नाश तू करतेस. विष्णुरुपी असलेल्या हे महालक्ष्मी तुला माझा नमस्कार.

अशा प्रकारे श्रीकरवीर महात्म्यामधे असलेले हे पराशराने रचिलेले पुत्रप्राप्ती करून देणारे हे महालक्ष्मी स्तोत्र पुरे झाले.
ParasharaMuniKrut Putrapraptikar Mahalaxmi Stotra



Custom Search

Friday, April 10, 2015

ShriGuruPadukashta श्रीगुरुपादुकाष्टक


ShriGuruPadukashtak 
Shri GuruPadukashtak is in Marathi.It is a praise of Guru done by devotee Narayan. His Guru showed him the way of Mukti. So devotee Narayan was very much pleased and with heart teaching feelings he is describing Guru's greatness.
श्रीगुरुपादुकाष्टक
ज्या संगतीनेंच विराग झाला ।
मनोदरींचा जडभास गेला ।
साक्षात् परात्मा मज भेटविला ।
विसरुं कसा मी गुरुपादुकांला ॥ १ ॥
सद्योगपंथें घरि आणियेलें ।
अंगेच मातें परब्रह्म केलें ।
प्रचंड तो बोधरवि उदेला ।
विसरुं कसा मी गुरुपादुकांला ॥ २ ॥
चराचरीं व्यापकता जयाची ।
अखंड भेटी मजला तयाची ।
परं पदीं संगम पूर्ण झाला ।
विसरुं कसा मी गुरुपादुकांला ॥ ३ ॥
जो सर्वदा गुप्त जनांत वागे ।
प्रसंन्न भक्ता निजबोध सांगे ।
सद्भक्तिभावांकरितां भुकेला ।
विसरुं कसा मी गुरुपादुकांला ॥ ४ ॥
अनंत माझे अपराध कोटी ।
नाणी मनीं घालुनि सर्व पोटीं ।
प्रबोध करितां श्रम फार झाला ।
विसरुं कसा मी गुरुपादुकांला ॥ ५ ॥
कांहीं मला सेवनही न झालें ।
तथापि तेणें मज उद्धरीलें ।
आता तरी अर्पिन प्राण त्याला ।
विसरुं कसा मी गुरुपादुकांला ॥ ६ ॥
माझा अहंभाव वसे शरीरीं ।
तथापि तो सद्गुरु अंगिकारीं ।
नाहीं मनीं अल्प विकार ज्याला ।
विसरुं कसा मी गुरुपादुकांला ॥ ७ ॥
आतां कसा हा उपकार फेडूं ।
हा देह ओवाळुनि दूर सांडूं ।
म्यां एकभावें प्रणिपात केला । 
विसरुं कसा मी गुरुपादुकांला ॥ ८ ॥
जया वानितां वानितां वेदवाणी ।
म्हणे ' नेति नेतीति ' लाजे दुरुनी ।
नव्हे अंत ना पार ज्याच्या रुपाला ।
विसरुं कसा मी गुरुपादुकांला ॥ ९ ॥     
जो साधुचा अंकित जीव झाला ।
त्याचा असे भार निरंजनाला ।
नारायणाचा भ्रम दूर केला ।
विसरुं कसा मी गुरुपादुकांला ॥ १० ॥
॥ इति गुरुपादुकाष्टक संपूर्ण ॥
ShriGuruPadukashta 
श्रीगुरुपादुकाष्टक


Custom Search

Wednesday, April 8, 2015

Shradha Sookta श्रद्धा-सूक्त


Shradha Sookta 
Shradha Sookta is in Sanskrit. These are 5 ruchas or sholakas from Rugved from 10th mandal 151. Since these sholaks are from Rugved these are 5 powerful mantras.If anybody chants these sholaks he fills himself with Shardha (Unshakable faith) and attracts Success in all his projects.
श्रद्धा-सूक्त
श्रद्धयाग्निः समिध्यते  श्रद्धया हूयते हविः ।
श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥ १ ॥
प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।
प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥ २ ॥
यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे ।
एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥ ३ ॥
श्रद्धां देवा यजमाना वायुगोपा उपासते ।
श्रद्धां हृदय्य याकूत्या श्रद्धया विन्दते वसु ॥ ४ ॥
श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि । 
श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥ ५ ॥
॥ इति श्रद्धा सूक्त ॥
श्रद्धा सूक्तचा मराठी अर्थः 
ऋग्वेदांतील दशम मंडलांतील १५१ व्या सूक्ताला " श्रद्धा-सूक्त " असे म्हणतात. याची ऋषिका  श्रद्धा कामायनी, देवता श्रद्धा आणि छन्द अनुष्टुप् आहे. या सूक्तामध्ये श्रद्धेचा महिमा सांगितला आहे. अग्नि, इन्द्र, वरुण अशा मोठ्या देवता व अन्य छोट्या देवता यांच्यात काहीहि फरक नाही असे सांगितले आहे. सर्व यज्ञ-कर्म, पूजा-पाठ अशा सर्वांत श्रद्धेची अत्यंत आवश्यकता असते. ऋषिनी या सूक्तांत श्रद्धेचे देवीरुपांत आवाहन करुन सांगितले आहे की, ती आमच्या हृदयांत श्रद्धा उत्पन्न करो.
१) श्रद्धेनेच अग्निहोत्राचा अग्नि प्रदीप्त होतो. श्रद्धेनेच हविची आहुति यज्ञांत दिली जाते. धन-ऐश्र्वर्य मिळण्यासाठीच आम्ही श्रद्धेची स्तुति करतो. 
२) हे श्रद्धे ! देणारा दाता जो आहे त्याचे अभिष्ट होईल असे फल दे. दान देण्याची जो इच्छा करतो त्याचेही हित कर. भोगैश्र्वर्याची इच्छा करणार्‍याचे सुद्धा प्रार्थित फळ त्याना दे.
३) ज्या प्रकारे देवांनी असुरांना हरविण्यासाठी निश्र्चय केला की या असुरांना नष्टच केले पाहिजे. त्याचप्रमाणे हे जे श्रद्धाळु याज्ञिक आणि भोगार्थी आहेत त्याना इच्छित भोग प्रदान कर. 
४) बलवान वायुकडून रक्षण प्राप्त करुन देव व मनुष्य श्रद्धेची उपासना करतात. ते अंतःकरणांत संकल्पानेच श्रद्धेची उपासना करतात. श्रद्धेने धन प्राप्त होते.  
५) आम्ही प्रातःकाळी श्रद्धेची प्रार्थना करतो. मध्याह्नि श्रद्धेची उपासना करतो. हे श्रद्धादेवि ! या जगांत आम्हाला श्रद्धावान बनव. 

Shradha Sookta 
श्रद्धा-सूक्त



Custom Search

Monday, April 6, 2015

Ketu Ashtottar ShatNamavalihi केतु अष्टोत्तर शतनामावलि


Ketu Ashtottar ShatNamavalihi 
Ketu Ashtottar ShatNamavalihi; these are 108 names of Bhagwan Ketu. Names are in Sanskrit. Whenever Ketu is badly placed in the horoscope, it is better to recite these names to minimize the troubles.
केतु अष्टोत्तर शतनामावलि
१) ॐ केतवे नमः २) ॐ स्थूल शिरसे नमः ३) ॐ शिरोमात्राय नमः ४) ॐ ध्वजा कृतये नमः ५) ॐ नवग्रहयुताय नमः 
६) ॐ सिंहिकासुरी गर्भ संभवाय नमः ७) ॐ महाभीतिकराय नमः ८) ॐ चित्रवर्णाय नमः ९) ॐ श्री पिंगळाक्षकाय नमः 
१०) ॐ फुल्ल धूम्र संकाषाय नमः ११) ॐ तीक्ष्ण दंष्ट्राय नमः
१२) ॐ महोदराय नमः १३) ॐ रक्तनेत्राय नमः १४) ॐ चित्रकारिणे नमः १५) ॐ तीव्रकोपाय नमः १६) ॐ महासुराय नमः १७) ॐ क्रूरकण्ठाय नमः १८) ॐ क्रोधनिधये नमः 
१९) ॐ छायाग्रह विशेषकाय नमः २०) ॐ अन्त्यग्रहाय नमः 
२१) ॐ महाशीर्षाय नमः २२) ॐ सूर्यारये नमः २३) ॐ पुष्पवद् ग्राहिणे नमः २४) ॐ वरहस्ताय नमः २५) ॐ गदापाणये नमः २६) ॐ चित्रवस्त्रधराय नमः २७) ॐ चित्रध्वज पताकाय नमः २८) ॐ घोराय नमः २९) ॐ चित्ररथाय नमः ३०) ॐ शिखिने नमः ३१) ॐ कुळुत्थ भक्षकाय नमः ३२) ॐ वैडूर्याभरणाय नमः ३३) ॐ उत्पात जनकाय नमः ३४) ॐ शुक्रमित्राय नमः ३५) ॐ मंदसखाय नमः ३६) ॐ गदाधराय नमः ३७) ॐ नाकपतये नमः ३८) ॐ अंतर्वेदीश्र्वराय नमः ३९) ॐ जैमिनि गोत्रजाय नमः ४०) ॐ चित्रगुप्तात्मने नमः ४१) ॐ दक्षिणामुखाय नमः ४२) ॐ मुकुंदवर पात्राय नमः ४३) ॐ महासुर कुलोद्भवाय नमः ४४) ॐ घनवर्णाय नमः ४५) ॐ लंबदेवाय नमः ४६) ॐ मृत्युपुत्राय नमः ४७) ॐ उत्पातरुप धारिणे नमः ४८) ॐ अदृश्याय नमः ४९) ॐ कालाग्नि सन्निभाय नमः ५०) ॐ नृपीडाय नमः 
५१) ॐ ग्रहकारिणे नमः ५२) ॐ सर्वोपद्रव कारकाय नमः 
५३) ॐ चित्रप्रसूताय नमः ५४) ॐ अनलाय नमः ५५) ॐ सर्वव्याधि विनाशकाय नमः ५६) ॐ अपसव्य प्रचारिणे नमः ५७) ॐ नवमे पापदायकाय नमः ५८) ॐ पंचमे शोकदाय नमः ५९) ॐ उपराग खेचराय नमः ६०) ॐ अतिपुरुष कर्मणे नमः ६१) ॐ तुरीये सुखप्रदाय नमः ६२) ॐ तृतीये वैरदाय नमः ६३) ॐ पापग्रहाय नमः ६४) ॐ स्फोटक कारकाय नमः ६५) ॐ प्राणनाथाय नमः ६६) ॐ पंचमे श्रमकारकाय नमः ६७) ॐ द्वितीयेऽस्फुट वग्दात्रे नमः ६८) ॐ विषाकुलित वक्त्राय नमः ६९) ॐ कामरुपिणे नमः ७०) ॐ सिंहदंताय नमः ७१) ॐ कुशेध्म प्रियाय नमः ७२) ॐ चतुर्थे मातृनाशाय नमः ७३) ॐ नवमे पितृनाशकाय नमः ७४) ॐ अन्त्ये वैरप्रदाय नमः ७५) ॐ सुतानंदन्निधनकाय नमः ७६) ॐ सर्पाक्षिजाताय नमः ७७) ॐ अनंगाय नमः ७८) ॐ कर्मराश्युद्भवाय नमः ७९) ॐ उपांते कीर्तिदाय नमः ८०) ॐ सप्तमे कलहप्रदाय नमः ८१) ॐ अष्टमे व्याधिकर्त्रे नमः 
८२) ॐ धने बहुसुख प्रदाय नमः ८३) ॐ जनने रोगदाय नमः 
 ८४) ॐ ऊर्ध्वमूर्धजाय नमः ८५) ॐ ग्रहनायकाय नमः 
८६) ॐ पापदृष्टये नमः ८७) ॐ खेचराय नमः ८८) ॐ शांभवाय नमः ८९) अशेषपूजिताय नमः ९०) ॐ शाश्र्वताय नमः ९१) ॐ नटाय नमः ९२) ॐ शुभाशुभ फलप्रदाय नमः 
९३) ॐ धूम्राय नमः ९४) ॐ सुधापायिने नमः ९५) ॐ अजिताय नमः ९६) ॐ भक्रवत्सलाय नमः ९७) ॐ सिंहासनाय नमः ९८) ॐ केतुमूर्तये नमः ९९) ॐ रवींदुद्युति नाशकाय नमः १००) ॐ अमराय नमः १०१) ॐ पीडकाय नमः १०२) ॐ अमर्त्याय नमः १०३) ॐ विष्णुदृष्टाय नमः 
१०४) ॐ असुरेश्र्वराय नमः १०५) ॐ भक्तरक्षाय नमः 
१०६) ॐ वैचित्र्य कपटस्यंदाय नमः १०७) ॐ विचित्रफलदायिने नमः १०८) भक्ताभीष्ट फलप्रदाय नमः
॥ इति केतु अष्टोत्तर शतनामावली संपूर्णा ॥   
  
Ketu Ashtottar ShatNamavalihi 
केतु अष्टोत्तर शतनामावलि


Custom Search