Tuesday, April 28, 2015

Shri Bhargav Kavacham श्रीभार्गवकवचम्


Shri Bhargav Kavacham 
Shri Bhargav Kavacham is in Sanskrit. Bhargav is the name of Parshuram. Parshuram is the 6th Incarnation of God Vishnu. Every year on Vaishakha Shudha Dwitiya we celebrate Parshuram jayanti. This year we have celebrated it on 20th April 28, 2015. This Kavacha is very powerful and fulfills all the desires of the devotees who so ever recite this kavacham daily with faith, devotion and concentration.
श्रीभार्गवकवचम्
॥ श्रीगणेशाय नमः ॥
श्रीनारायण उवाच ।
कैलासशिखरे रम्ये शंकरं लोकशंकरम् ।
कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम् ॥ १ ॥
पार्वत्युवाच ।
देवदेव महादेव देवेश वृषभध्वज ।
त्वत्तः श्रुतान्यशेषाणि जामदग्नस्य साम्प्रतम् ॥ २ ॥
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम् ।
न श्रुतं कवचं देव न चोक्तं भवता मम ॥ ३ ॥
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ।
इति पृष्टः स गिरिशो मन्त्रतन्त्राङ्गतत्तववित् ॥ ४ ॥
उवाच प्रहसन्देवीं हिताय जगतामिदम् ।
रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥ ५ ॥
शिव उवाच ।
श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम् ।
धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥ ६ ॥
एकमौपयिकं मन्ये विष्णुवक्षःस्थलालयाम् ।
श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम् ॥ ७ ॥
एकातपत्रसहितां य इच्छेत्सागराम्बराम् ।
स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥ ८ ॥
उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम् ।
कथं जयेयुर्वीरेन्द्राः कवचानावृताङ्गकाः ॥ ९ ॥
परप्रयुक्तकृत्यादिदोषा भूतादयोऽपि वा ।
प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम् ॥ १० ॥
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्र्च वा ।
जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥ ११ ॥
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम् ।
मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥ १२ ॥
अङ्गिरा ऋषिः । बृहती छन्दः । श्रीमाञ्जामदग्न्यो देवता ।
उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फुलिङ्गाङ्कुर--
व्रातामोघमहास्त्रनाशितजगद्विद्वेषिवंशाटवीम् ॥
वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननं 
वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् ॥ १३ ॥
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक् ।
ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥ १४ ॥
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः ।
नेत्रे गोत्रार्तिहा मेऽव्याल्लोचने भवमोचनः ॥ १५ ॥
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवान् ।
नासे सुनासः पायान्मे नासिके दासवत्सलः ॥ १६ ॥
रसनां रसरुपोऽव्याद्रसज्ञां रेणुकासुतः ।
अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥ १७ ॥
वक्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तीन्द्रविक्रमः ।
चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥ १८ ॥
स्कन्धौ मे स्कन्धविजयी कक्षे मे क्षत्रियान्तकः ।
भुजौ मे सततं पातु सहस्त्रभुजशासनः ॥ १९ ॥
करौ हितकरः पातु पाणी क्षोणीभरापहः ।
अङ्गुलीर्मङ्गलगुणो नखानि मखकृन्मम ॥ २० ॥
वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः ।
उरः पुरुषवीरो मे पार्श्र्वौ पातु परश्र्वधी ॥ २१ ॥     
उदरस्थजगत्पायादुदरं मम सर्वदा ।
भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥ २२ ॥
लिङ्गं शंकरशिष्योऽव्यादुपस्थं निस्तुलप्रभः ।
पाय्वपानं च मे पायात्सायकासनवान्सदा ॥ २३ ॥
त्रिसप्तकृत्वःकुलहा त्रिकं मेऽवतु सर्वदा ।
परमेष्ठ्यवतात्पृष्ठं पिठरं दृढविक्रमः ॥ २४ ॥
ऊरु मेरुसमः पातु जानू मे जगतां पतिः ।
जङ्घे संघातहन्ताव्यात्प्रपदे विपदान्तकः ॥ २५ ॥ 
पादौ मे पादचार्यव्याच्चरणौ करुणानिधिः ।
पादाङ्गुलीः पापहा मे पायात्पादतले परः ॥ २६ ॥
परश्र्वधधरः पायाद्रामः पादनखानि मे ।
पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि संततम् ॥ २७ ॥
दक्षिणस्यामपि दिशि दक्षयज्ञान्तकप्रियः ।
पश्र्चिमस्यां सदा पायात्पाश्र्चात्याम्बुधिमर्दनः ॥ २८ ॥
वित्तेशराक्षिताशायां पायान्मां सत्तमार्चितः ।
सर्वतः सर्वजित्पायान्ममाङ्गानि भयात्प्रभुः ॥ २९ ॥
मनो महेन्द्रनिलयश्र्चित्तं मे दृप्तनाशनः ।
बुद्धिं सिद्धार्चितः पायादहंतामनहंकृतिः ॥ ३० ॥
कर्माणि कार्तवीर्यारिर्हिलां हैहयवंशहा ।
हरत्वमोघदृङ्मोहं क्रोधं च क्रोधदर्पहा ॥ ३१ ॥
श्रियं करोतु मे श्रीशः पुष्टिवर्धनः ।
संतानं सततं दद्याद्भृगुसंतानभूरुहः ॥ ३२ ॥
आयूंषि मे वितनुतादार्यः परमपूरुषः ।
आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः ।
श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥ ३३ ॥
ॐ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ।
कथितं देवि ते गुह्यं प्रियेति परमाद्भुतम् ॥ ३४ ॥
न नास्तिकाय नादात्रे न चाश्रद्धालये प्रिये ।
देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥ ३५ ॥
नाजापकाय नाज्ञात्रे नासत्यवचसे क्वचित् ।
नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥ ३६ ॥
देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने ।
गुणान्विताय शुद्धाय मन्त्रगोप्त्रे च मन्त्रिणे ॥ ३७ ॥
अवश्यमेतञ्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ।
मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥ ३८ ॥
 वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ।
आसेचितादिव तरोर्फलं नाप्नोति सद्रसम् ? ॥ ३९ ॥
जयकामो भूर्जपत्रे रक्तबिन्दुभिरुज्ज्वलैः ।
लिखित्वावर्तयेद्रात्रौ कवचं शतसंख्यया ॥ ४० ॥
संपूज्य धूपदीपाद्यैर्ध्यात्वा च हृदि भार्गवम् ।
हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात् ॥ ४१ ॥
एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा ।
वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥ ४२ ॥
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनि ।
कवचेनाभिजप्तेन गच्छञ्जयमवाप्नुयात् ॥ ४३ ॥
श्रीकामस्तु महेन्द्राद्रेर्द्रोणिं गत्वा मनोहराम् ।
तत्र मण्डलमास्थाय चण्डभानुं विलोकयन् ॥ ४४ ॥
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ।
मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥ ४५ ॥
सिद्धयो विविधास्तस्य दिव्यज्योतिर्लतालयः ।
सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः ॥ ४६ ॥
भूतप्रेतपिशाचाश्र्च रोगाश्र्च विविधाशुभाः ।
दुष्टा नृपास्तस्कराश्र्च व्याघ्रसिंहगजादयः ॥ ४७ ॥
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रिजे ।
दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥ ४८ ॥
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम् ।
दारिद्र्यदुःखशमनं संसारभयनाशनम् ॥ ४९ ॥
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम् ।
तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम् ॥ ५० ॥
परश्र्वधधनुर्दण्डराजितांसद्वयान्वितम् ।
अक्षसूत्रं सुविभ्राणं दक्षिणेऽङ्गुलिपल्लवे ॥ ५१ ॥
वामजानुतलन्यस्तवामपाणिकुशेशयम् ।
उन्मज्जज्जलजग्रीवमामीलितविलोचनम् ॥ ५२ ॥
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम् ।
सुन्दर सुन्दरापाङ्गं भोगिभोगभुजद्वयम् ॥ ५३ ॥
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम् ।
ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणतवत्सलम् ॥ ५४ ॥
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः ।
जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत् ॥ ५५ ॥
जामदग्न्यो जगन्नेता ब्रह्मण्यो ब्रह्मवत्सलः ।
कार्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥ ५६ ॥
विश्र्वजिद्दीक्षितो रामः कश्यपाशासुरद्रुमः ।
परश्र्वधधरः शान्तो महेन्द्रकृतकेतनः ॥ ५७ ॥
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरभ्यर्च्य नामभिः ।
उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्र्वरम् ॥ ५८ ॥
क्षिप्रप्रसादजननैश्र्चतुर्वर्गफलोदयैः ।
हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत् ॥ ५९ ॥
इमानि गौरि नामानि सुगोप्यानि सतामपि ।
ॐ हंसस्त्रयीमयो धाता योगीन्द्रहृदयालयः ॥ ६० ॥
त्रिधामा त्रिगुणातीतस्त्रिमूर्तिस्त्रिजगन्मयः ।
नारायणः परं ब्रह्म परं तत्त्वं परात्परः ॥ ६१ ॥
भार्गवो धर्मचरणो भर्गरुपः सतां गतिः ।
इति षोडशभिः स्तुत्वा नामभिर्ऋषिपुंगवम् ॥ ६२ ॥
सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ।
आत्मानं विन्यसेदङ्गेष्वनेन कवचेन सः ॥ ६३ ॥
मृगीमुद्रिकया धीमान्वज्रसारेण सारवित् ।
दशवारं प्रतिदिनं मासमेकं समाचरेत् ॥ ६४ ॥
स्वप्ने पश्यति देवेशं भार्गवं भृगुनन्दनम् ।
चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् ॥ ६५ ॥
मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः ।
मनसः संप्रसादेन लब्ध्वा वरमनुत्तमम् ॥ ६६ ॥
अणिमादिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात् ।
अथवा योगसिद्धिं यो धातुसिद्धिं च वाञ्छति ॥ ६७ ॥
कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान् ।
सर्वाश्र्चौषधयस्तस्य खेचरत्वादिसिद्धिदाः ॥ ६८ ॥
रससिद्धिप्रदाश्र्चापि सिध्यन्त्यस्य न संशयः ।
महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले ॥ ६९ ॥
जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः ।
प्रस्फुरद्गुणसौवर्णराशीनां जन्मभूः परः ॥ ७० ॥
तथेदमिव वर्मान्यद्धर्मादिफलदं न हि ।
कवचेऽस्मिन्सकृज्जप्ते मन्त्रावृत्तिसहस्त्रजम् ॥ ७१ ॥
फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः ।
अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ॥ ७२ ॥
जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात् ।
सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम् ॥ ७३ ॥
मूकोऽपि वाग्मी भवति जपन्नेतद्गुरुर्यथा ।
नित्यं परश्र्वधभृतः कवचस्यास्य धारणात् ॥ ७४ ॥
सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः ।
वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम् ॥ ७५ ॥
कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति ।
इत्येतदुक्तं कवचं मया हैहयविद्विषः ॥ ७६ ॥
गोपनीयमिदं देवि ममात्मासि मणिर्यथा ।
धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम् ।
जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥ ७७ ॥
॥ इति श्रीविष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धिकल्पे त्रयस्त्रिंशत्पटलः ॥
॥ श्रीभार्गवार्पणमस्तु ॥
॥ श्रीभार्गवकवचं संपूर्णम् ॥

Shri Bhargav Kavacham 
श्रीभार्गवकवचम्



Custom Search
Post a Comment