Showing posts with label Hanuman Jayanti. Show all posts
Showing posts with label Hanuman Jayanti. Show all posts

Tuesday, April 15, 2014

Shri Hanumat Sahastra Nam Stotram श्री हनुमान सहस्त्रनाम स्तोत्रम्


Shri Hanumat Sahastra Nam Stotram 
This Stotra is in Sanskrit. This is created by God Ram. This Stotra consists Of thousand pious name of God Hanuman. On the auspicious day of Hanuman Jayanti (15th April 2014), I am uploading for the devotees of God Hanuman. 
श्रीहनुमत्सहस्त्रनाम स्तोत्रम् 
अथ ध्यानम् 
अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । 
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ 
इति ध्यानम् 
श्रीरामचन्द्र उवाच 
 हनुमाञ्श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः । अमृत्युर्वीरवीरश्र्च ग्रामवासो जनाश्रयः ॥ १ ॥ 
धनदो निर्गुणोऽकायो वीरो निधिपतिर्मुनिः । पिङ्गाक्षो वररदो वाग्मी सीताशोकविनाशनः ॥ २ ॥ 
शिवः सर्वः परोऽव्यक्तो व्यक्ताव्यक्तो रसाधरः । पिङ्केशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३ ॥ अनादिर्भगवान् देवो विश्र्वहेतुर्निरामयः । आरोग्यकर्ता विश्र्वेशो विश्र्वनाथो हरीश्र्वरः ॥ ४ ॥ 
भर्गो रामो रामभक्तः कल्याणप्रकृतिः स्थिरः । विश्र्वम्भरो विश्र्वमूर्तिर्विश्र्वाकारोऽथ विश्र्वपः ॥ ५ ॥
विश्र्वात्मा विश्र्वसेव्योऽथ विश्र्वो विश्र्वहरो रविः । विश्र्वचेष्टो विश्र्वगम्यो विश्र्वध्येयः कलाधरः ॥ ६ ॥
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ ७ ॥
अञ्जनासूनुरव्यग्रो ग्रामख्यातो धराधरः । भूर्भुवः स्वर्महर्लोको जनलोकस्तपोऽव्ययः ॥ ८ ॥
सत्यमोङ्कारगम्यश्र्च प्रणवो व्यापकोऽमलः । शिवधर्मप्रतिष्ठाता रामेष्टः फाल्गुनप्रियः ॥ ९ ॥
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १० ॥ 
जानकीप्राणदाता च रक्षःप्राणापहारकः । पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ ११ ॥ 
देवोद्यानविहारी च देवताभयभञ्जनः । भक्तोदयो भक्तलब्धो भक्तपालनत्तपरः ॥ १२ ॥ 
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः । अक्षघ्नो रामदूतश्र्च शाकिनीजीवहारकः ॥ १३ ॥
बुबुकारहतारातिर्गर्वपर्वतमर्दनः । हतुस्त्वहेतुः प्रांशुश्र्च विश्र्वभर्ता जगद्गुरुः ॥ १४ ॥ 
जगन्नेता जगन्नाथो जगदीशो जनेश्र्वरः । जगद्धितो हरिः श्रीशो गरुडस्भयभञ्जनः ॥ १५ ॥ 
पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितविक्रमः । ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ १६ ॥
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्र्वरः । कल्पस्थायी चिरञ्जीवी तपनश्र्च सदाशिवः ॥ १७ ॥ 
सन्नतः सद्भक्तिर्भुक्तिमुक्तिदः कीर्तिदायकः । कीर्तिः कीर्तिप्रदश्र्चैव समुद्रः श्रीप्रदः शिवः ॥ १८ ॥ 
भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः । उदधिक्रमणो देवः संसारभयनाशनः ॥ १९ ॥ 
वार्धिबन्धनकृद् विश्र्वजेता विश्र्वप्रतिष्ठितः । लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ॥ २० ॥ 
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्र्वरः । श्रीरामरुपः कृष्णस्तु लङ्काप्रासादभञ्जकः ॥ २१ ॥ 
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्र्वपावनः । विश्र्वभोक्ताथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥ २२ ॥
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः । समीरतनुजो वीरो वीरतारो जयप्रदः ॥ २३ ॥ 
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः । पुण्यकीर्तिः पुण्यगतिर्जगत्पावनपावनः ॥ २४ ॥ 
देवेशो जितमारोऽथ रामभक्तिविधायकः । ध्याता ध्येयो लयः साक्षी चेता चैतन्यविग्रहः ॥ २५ ॥ 
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः । बिभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ॥ २६ ॥ 
सिद्धः सिद्धाश्रयः कालो महोक्षः कालजान्तकः । लङ्केशनिधनस्थायी लङ्कादाहक ईश्र्वरः ॥ २७ ॥
चन्द्रसूर्याग्निनेत्रश्र्च कालाग्नि प्रलयान्तकः । कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ॥ २८ ॥
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः । लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ॥ २९ ॥ 
रामध्येयो हृषीकेशो विष्णुभक्तो जटी बली । देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ॥ ३० ॥ 
नगरग्रामपालश्र्च शुद्धो बुद्धो निरत्रपः । निरञ्जनो निर्विकल्पो गुणातीतो भयंकरः ॥ ३१ ॥ 
हनुमांश्र्च दुराराध्यस्तपःसाध्यो महेश्र्वरः । जानकीधनशोकोत्थतपहर्ता परात्परः ॥ ३२ ॥ 
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः । भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ॥ ३३ ॥
पुच्छबद्धयातुधानो यातुधानरिपुप्रियः । छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ॥ ३४ ॥ 
प्लवङ्मेश्र्वरः क्रोधः क्रोधसंरक्तलोचनः । सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः ॥ ३५ ॥ 
भक्तानुकम्पी विश्र्वेशः पुरुहूतः पुरंदरः । क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः ॥ ३६ ॥ 
अग्निर्विभावसुर्भास्वान् यमो निर्ऋतिरेव च । वरुणो वायुगतिमान् वायुः कौबेर ईश्र्वरः ॥ ३७ ॥ 
रविश्र्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्र्चरः । राहुः केतुर्मरुद्धोता दाता हर्ता समीरजः ॥ ३८ ॥
मशकीकृतदेवारिदैत्यारिर्मधुसूदनः । कामः कपिः कामपालः कपिलो विश्र्वजीवनः ॥ ३९ ॥
भागीरथीपदाम्भोजः सेतुबन्धविशारदः । स्वाहाः स्वधा हविः कव्यं हव्यवाहकप्रकाशकः ॥ ४० ॥ 
स्वप्रकाशो महावीरो लघुरुर्जितविक्रमः । उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ४१ ॥ 
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः । विपाम्पा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ ४२ ॥ 
खं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च । क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः ॥ ४३ ॥ 
हिरण्मयः पुराणश्र्च खेचरो भूचरोऽमरः । हिरण्यगर्भः सूत्रात्मा राजराजो विशाम्पतिः ॥ ४४ ॥ 
वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः । प्रतिग्रामस्थितिः सद्यःस्फूर्तिदाता गुणाकरः ॥ ४५ ॥ 
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाधारो ह्यनुत्तमः ॥ ४६ ॥ 
पुण्यश्लोकः पुरारातिर्ज्योतिष्माञ्शर्वरीपतिः । किल्किलारावसंत्रस्तभूतप्रेतपिशाचकः ॥ ४७ ॥ 
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ ४८ ॥ 
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्र्वरः । नादरुपः परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४९ ॥ 
एकोऽनेको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्र्च सात्विको राजसस्तमः ॥ ५० ॥
तमोहर्ता निरालम्बो निराकारो गुणाकरः । गुणाश्रयो गुणमयो बृहत्कर्मो बृहद्यशाः ॥ ५१ ॥ 
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्धाहुर्बृहत्तनुः ॥ ५२ ॥ 
बृहजानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः । बृहद्भतिर्बुहत्सेव्यो बृहल्लोकफलप्रदः ॥ ५३ ॥
बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्र्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरु ॥ ५४ ॥ 
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५५ ॥ 
उत्तराशास्थितः श्रीदो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः ॥ ५६ ॥ 
चतुरब्राह्मणो योगी योगगम्यः परावरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५७ ॥ 
अपराजितो जितारातिः सदानन्दो दयायुतः । गोपालो गोपतिर्गोप्ता कलिकालपराशरः ॥ ५८ ॥ 
मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताथ तत्त्वज्ञस्तत्तवं तत्त्वप्रकाशकः ॥ ५९ ॥ 
शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः । प्रलयोऽमितामायश्र्च मायातीतो विपत्सरः ॥ ६० ॥
मायाभर्जितरक्षाश्र्च मायानिर्मितविष्टपः । मायाश्रयश्र्च निर्लेपो मायानिर्वर्तकः सुखम् ॥ ६१ ॥ 
सुखी शुखप्रदो नागो महेशकृतसंस्तवः । महेश्र्वरः सत्यसंधः शरभः कलिपावनः ॥ ६२ ॥
सहस्त्रकन्धरवलविध्वंसनविचक्षणः । सहस्त्रबाहुः सहजो द्विबाहुर्द्विभुजोमरः ॥ ६३ ॥ 
चतुर्भुजो दशभुजो हयग्रीवः खगाननः । कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ॥ ६४ ॥ 
भीषणो भावनो वन्द्यो वराहो वायुरुपधृक् । लक्ष्मणप्राणदाता च पराजितदशाननः ॥ ६५ ॥ 
पारिजातनिवासी च वटुर्वचनकोविदः । सुरसास्यविनिर्मुक्तः सिंहिकाप्राणहारकः ॥ ६६ ॥
लङ्कालङ्कारविध्वंसी वृषदंशकरुपधृक् । रात्रिसंचारकुशलो रात्रिंचरगृहाग्निदः ॥ ६७ ॥ 
किङ्करान्तकरो जम्बुमालिहन्तोग्ररुपधृक् । आकाशचारी हरिगो मेघनादरणोत्सुकः ॥ ६८ ॥ 
मेघगम्भीरनिनदो महारावणकुलान्तकः । कालनेमिप्राणहारी मकरीशापमोक्षदः ॥ ६९ ॥ 
रसो रसज्ञः सम्मानो रुपं चक्षुः श्रुतिर्वचः । घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानगः ॥ ७० ॥
नेतिनेतीतिगम्यश्र्च वैकुण्ठभजनप्रियः । गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ७१ ॥
भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बरोऽमलः । विश्र्वक्षेत्रो विश्र्वबीजो विश्र्वनेत्रश्र्च विश्र्वपः ॥ ७२ ॥ 
याजको यजमानश्र्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः ॥ ७३ ॥ 
राजेन्द्रो भूपती रुण्डमाली संसारसारथिः । नित्यसम्पूर्णकामश्र्च भक्तकामधुगुत्तमः ॥ ७४ ॥ 
गणपः केशवो भ्राता पिता माता च मारुतिः । सहस्त्रमूर्द्धानेकास्यः सहस्त्राक्षः सहस्त्रपात् ॥ ७५ ॥ 
कामजित् कामदहनः कामः कामफलप्रदः । मुद्रापहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ७६ ॥ 
नखद्रंष्ट्रायुधो विष्णुर्भक्ताभयवरप्रदः । दर्पहा दर्पदो दंष्टाशतमूर्तिमान् ॥ ७७ ॥ 
महानिधिर्महाभागो महाभर्गो महर्द्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥ ७८ ॥ 
महासनो महानादो महामन्त्रो महामतिः । महागमो महोदारो महादेवत्मको विभुः ॥ ७९ ॥ 
रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्कनः सिंहः सत्यधर्मप्रमोदनः ॥ ८० ॥ 
जितामित्रो जयः सोमो विजयो वायुनन्दनः । जीवदाता सहस्त्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ ८१ ॥ 
सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ ८२ ॥
सप्ताब्धिलङ्कनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ८३ ॥
सप्तस्वर्लोकमुकुटः सप्तहोता स्वराश्रयः । सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥ ८४ ॥
सप्तसामोपगीतश्र्च सप्तपातालसंक्षयः । मेघादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ८५ ॥ 
सर्वरक्षाकरो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादतः ॥ ८६ ॥ 
पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ८७ ॥ 
नरनारायणस्तुत्यो नवनाथमहेश्र्वरः । मेखली कवची खङ्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ ८८ ॥
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टग्रहनिहन्ता च पिशाचग्रहघातकः ॥ ८९ ॥ 
बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्र्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ ९० ॥ 
शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥ ९१ ॥ रक्षोऽग्निदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरुपो मेघवृष्टिनिवारकः ॥ ९२ ॥ 
मेघजीवनहेतुश्र्च मेघश्यामः परात्मकः । समीरतनयो योद्धा नृत्यविद्याविशारदः ॥ ९३ ॥
अमोघोऽमोघदृष्टिश्र्च इष्टदोऽरिष्टनाशनः । अर्थोऽनर्थोपहारी च समर्थो रामसेवकः ॥ ९४ ॥
अर्थिवन्द्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । संकर्षणो विशुद्धात्मा विद्याराशिः सुरेक्ष्वरः ॥ ९५ ॥
अचलोद्धारको नित्यः सेतुकृद् रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः ॥ ९६ ॥ 
वराहो नारसिंहश्र्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ ९७ ॥ 
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः ॥ ९८ ॥ 
जगन्नाथः कपीशश्र्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ ९९ ॥
नखदारितरक्षाश्र्च नखयुद्धिविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ १०० ॥ 
स्वर्णवर्णो बलाढ्यश्र्च पुरुजेताघनाशनः । कैवल्यरुपः कैवल्यो गरुडः पन्नगोरगः ॥ १०१ ॥ 
किल् किल् रावहतारातिर्गर्वपर्वतभेदनः । वज्राङ्गो वज्रदंष्ट्रश्र्च भक्तवज्रनिवारकः ॥ १०२ ॥ 
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ १०३ ॥ 
शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः । स्वतिमान् स्वस्तिदो दुःखशातनः पवनात्मजः ॥ १०४ ॥ 
पावनः पवनः कान्तो भक्तागःसहनो बली । मेघनादरिपुर्मेघनादसंहतराक्षसः ॥ १०५ ॥ 
क्षरोऽक्षरो विनीतात्मा वानरेशः सतां गतिः । श्रीकण्ठः शितिकण्ठश्र्च सहायः सहनायकः ॥ १०६ ॥
अस्थूलस्त्वनणुर्भर्गो दिव्यः संसृतिनाशनः । अध्यात्मविद्यासारश्र्च ह्यध्यात्मकुशलः सुधीः ॥ १०७ ॥
अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरुपः सत्यः सत्यपराक्रमः ॥ १०८ ॥
अञ्जनाप्राणलिङ्गश्र्च वायुवंशोद्भवः शुभः । भद्ररुपो रुद्ररुपः सुरुपश्र्चित्ररुपधृक् ॥ १०९ ॥ 
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । क्रानदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ ११० ॥ 
कम्बुकण्ठः प्रसन्नात्मा हृस्वनासो वृकोदरः । लम्बौष्टः कुण्डली चित्रमाली योगविदां वरः ॥ १११ ॥
विपश्र्चित्कविरानन्दविग्रहोऽनल्पशासनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ ११२ ॥ 
योगविद् योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिहकारान्तवर्णनिर्मितविग्रहः ॥ ११३ ॥ 
उलूखलमूखः सिद्धसंस्तुतः प्रथमेश्र्वरः । श्लिष्टजङ्वः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ ११४ ॥
सुशर्मामितशर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ ११५ ॥
हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागस्तुतिप्रियः ॥ ११६ ॥
नागकन्याभयध्वंसी रुक्मवर्णः कपालभृत् । अनाकुलो भवोपायोऽनपायो वेदपारगः ॥ ११७ ॥ 
अक्षरः पुरुषो लोकनाथ ऋक्षप्रभुर्दृढः । अष्टाङ्गयोगफलभुक् सत्यसंघः पुरुष्टुतः ॥ ११८ ॥
श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥ ११९ ॥
योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥ १२० ॥ 
अप्रपञ्चः सदाचारः शूरसेनाविदारकः । वृद्धः प्रमोद आनन्दः सप्तद्विपपतिन्धरः ॥ १२१ ॥ 
नवद्वारपुराधारः प्रत्यग्रः सामगायकः । षट्चक्रधाम स्वर्लोकाभयकृन्मानदो मदः ॥ १२२ ॥ 
सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिर्नयोपेतो विरुपः सुरसुन्दरः ॥ १२३ ॥ 
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दिप्रियः स्वतन्त्रश्र्च मेखली डमरुप्रियः ॥ १२४ ॥ 
लौहाङ्गः सर्वविद्धन्वी खण्डलः शर्व ईश्र्वरः । फलभुक् फलहस्तश्र्च सर्वकर्मफलप्रदः ॥ १२५ ॥ 
धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ १२६ ॥
त्रिमार्गवसतिभीमः सर्वदुःखनिबर्हणः । ऊर्जस्वान् निष्कलः शूलो मौलिर्गर्जन्निशाचरः ॥ १२७ ॥ 
रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः । वनमाली शुभाङ्गश्र्च श्र्वेतः श्र्वेताम्बरो युवा ॥ १२८ ॥
जयोऽजयपरीवारः सहस्त्रवदनः कपिः । शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकः ॥ १२९ ॥ 
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः । शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १३० ॥
चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा । सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥ १३१ ॥ 
स्मृतिबीजं सुरेशानः संसारभयनाशनः । उत्तमः श्रीपरीवारः श्रितो रुद्रक्ष्च कामधुक् ॥ १३२ ॥ 
॥ इति मन्त्रमहार्णवे पूर्वखण्डे नवमतरङ्गे श्रीरामकृतं श्रीहनुमत्सहस्त्रनामस्तोत्रं संपूर्णम् ॥

Shri Hanumat Sahastra Nam Stotram 
श्री हनुमान सहस्त्रनाम स्तोत्रम्


Custom Search

Friday, April 6, 2012

Mantratmakam ShriMaruti Stotram मन्त्रात्मकं श्रीमारुतिस्तोत्रं

Mantratmakam ShriMaruti Stotram 

We celebrate Shri Hanuman birth day on Chaitra Pournima every year. This year Chaitra Pournima is on 6th April 2012. I am uploading Mantratmakam ShriMaruti Stotram which is in Sanskrit. It is a very beautiful creation of Shri Vasudevanand Saraswati. Maruti/Hanuman is a great devotee of God Ram. This stotra is called as Mantratmakam because if we write first letter (Sanskrit Devanagari) of each line, it form a hanuman Mantra. This can be translated as “Om namo bhagavat aanjaneyaay mahaabalaaya swaahaa”. 
1 I bow to Vayu (God Wind) putra (son) Hanuman. Hanuman can take a very big form or a small form as per his will. He can remove sorrow and affection. He had removed sorrow of Sita. He had destroyed AshokVan and burnt Lanka. He is a very good orator. I bow to God Hanuman who is messenger of God Ram. (1-2) 
2 He had a tremendous speed and he had defeated God Vayu. He had saved life of Laxman. He is leader of monkeys. He has a very good control over his organs and will. He lives in forests. He is very knowledgeable. He is commander of army of Sugriv. I bow to Anjani putra God Hanuman. (3-4) 
3 He is destroyer of fear of death and birth. He is remover of all troubles. He is very near and dear devotee of God Ram. He is remover of fear from demon, devil and ghost. He also makes us free from fear of Yaksha, Demon, lions and serpents and other poisonous creatures. I bow to that monkey roopa God Hanuman. (5-6) 
4 He has crossed a big ocean in his one leap. He is great and powerful among all. His body is very hard and strong like Vajra (Weapon of God Indra). I bow to great God Hanuman. O! God Hanuman please protects me. (7-7.5) 
5 O! Hanuman you are death of Demons. You bless us/your devotees immediately. Please make me successful and victorious. Please destroy all my enemies. (8-8.5) 
6 The devotee who recites this stotra for the people depending on him becomes victorious. Nobody can defeat him. (9)
Thus here completes Mnatratmakam ShriMaruti Stotram.

मन्त्रात्मकं श्रीमारुतिस्तोत्रं 
ॐ नमो वायुपुत्राय भीमरूपाय धीमते I 
नमस्ते रामदूताय कामरूपाय श्रीमते II १ II 
मोहशोकविनाशाय सीताशोकविनाशिने I 
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने II २ II 
गतिनिर्जितवाताय लक्ष्मण प्राणदाय च I 
वनौकसां वरिष्ठाय वशिने वनवासिने II ३ II 
तत्त्वज्ञान सुधासिन्धुनिमग्नाय महीयसे I 
 आञ्जनेयाय शूराय सुग्रीवसचिवाय ते II ४ II 
जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च I 
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे II ५ II 
यातनानाशनायास्तु नमो मर्कटरूपिणे I 
यक्षराक्षसशार्दूलसर्पवृश्चिक भीह्रते II ६ II 
महाबलाय वीराय चिरंजीविन उद्धते I 
हारिणे वज्रदेहाय चोल्लङ्घितमहाब्धये II ७ II 
बलिनामग्रगण्याय नमो नः पाहि मारुते I 
लाभदोSसि त्वमेवाशु हनुमन् राक्षसान्तक II ८ II 
यशो जयं च मे देहि शत्रून् नाशय नाशय I 
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् I 
हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् II ९ II 
II इति श्री ह्रत्पुन्दरिकाधिष्ठितश्रीमत्परमहंसपरिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीकृतं मन्त्रात्मकं श्रीमारुतिस्तोत्रं संपूर्णं II
मन्त्रात्मकं श्रीमारुतिस्तोत्रं मराठी अर्थ: 

दरवर्षी आपण चैत्र पौर्णिमेला श्री हनुमान जयंती साजरी करतो. या वर्षी आपण हनुमान जयंती ६ एप्रिल २०१२ ला साजरी करत आहोत. सर्व हनुमान भक्तांसाठी परम पूज्य श्री वासुदेवानंद सरस्वतींचे मंत्रात्मक मारुती स्तोत्र सादर करीत आहे. 
१-२) मी भयंकर रुप धारण करणार्या बुद्धिमान वायुपुत्र हनुमानाला नमस्कार करतो. जो स्वेच्छेनुसार रूप धारण करण्यास समर्थ आहे, जो मोह आणि शोकाचा नाश करणारा आहे, जो सीतेचा शोक नाहीसा करणारा आहे, अशोकवनाचा विध्वंसक जो लंकेचे भस्म करणारा आहे आणि जो कुशल वक्ता आहे त्या श्रीमान रामदूताला मी नमस्कार करतो. 
३-४) ज्याने आपल्या वेगाने प्रत्यक्ष वायुला हरविले आहे, जो लक्ष्मणाचा प्राणदाता आहे, माकडांमध्ये श्रेष्ठ, जितेंद्रिय, वनामध्ये राहणारा, तत्त्वज्ञानरुपी अमृतसागरांत मग्न असणारा, महान ऐश्वर्यशाली आणि सुग्रीवाच्या सचिवाला त्या शूरवीर अंजनी नंदनाला मी नमस्कार करतो. 
५-६) जो जन्ममृत्यूरुपी भयाचा नाश करणारा, सर्व कष्टांचा नाश करणारा, भगवान श्री रामांचा निकटचा, भूत, प्रेत, पिशाच यांच्या भयाला निवारणारा, पीडेचा नाशक, आणि यक्ष, राक्षस, सिंह, सर्प आणि विंचू याच्या भयापासून रक्षण करणारा, त्या मर्कट रुपी हनुमानाला नमस्कार असो. 
७-७.५) जो महासागराला पार करणारा आहे, अहंकारी लोकांचा गर्व हरण करणारा, चिरंजीवी, बलवानांमध्ये अग्रगण्य, ज्याचे शरीर वज्रासारखे कठीण आहे, त्या महाबली वीरवर हनुमानाला नमस्कार करतो. हे मारुतीराया आमचे रक्षण कर. 
८-८.५) राक्षसांसाठी कालस्वरूप, हनुमाना आपण शीघ्र लाभ देणारे आहात, म्हणून मला यश द्या आणि विजयी करा. तसेच माझ्या शत्रुंचा सर्वथा नाश करा. 
९) जो हनुमान भक्त त्याच्यावर आश्रीत असलेल्या लोकांसाठी अभय देणार्या हनुमानाचे या स्तोत्रा द्वारे स्तवन करतो, तो सर्वत्र विजयी होतो त्याची कशी बरे हानी होईल? अर्थात त्याची हानी होणारच नाही आणि तो यशस्वी आणि विजयी होईल. 
अशा रीतीने श्रीमत्परमहंसपरिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वतीनी रचिलेले मन्त्रात्मक श्रीमारुतिस्तोत्र संपूर्ण झाले. 
या स्तोत्राला मन्त्रात्मकं असे म्हंटले आहे कारण परम पूज्य श्रीवासुदेवानन्दसरस्वतीनी या स्तोत्राच्या रचनेंत 
" ॐ नमो भगवत आंजनेयाय महाबलाय स्वाहा " 
हा मंत्र गुंफला आहे. स्तोत्राच्या प्रत्येक ओळींतील पहिले अक्षर घेतल्यावर हा मंत्र तयार होतो.  

Mnatratmakam ShriMaruti Stotram 
मन्त्रात्मकं श्रीमारुतिस्तोत्रं 



Custom Search