Friday, November 21, 2014

Purusha Sukta पुरुषसूक्त


Purusha Sukta 
Purusha Sukta is in Sanskrit. It is a God Vishnu Sukta. Many Families at the time of performing daily pooja recite Purusha Sukta.
पुरुषसूक्त
हरि ॐ 
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमिं विश्र्वतो वृत्वाऽत्यतिष्ठद्दशांङ् गुलम् ॥ १ ॥
पुरुष एवेदं सर्व यद् भूतं यच्च भव्यम् ।
उतामृत त्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥
एतावानस्य महिमाऽतोज्यायॉंश्र्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥
त्रिपादूर्ध्वं उदैत्पुरुषः पादोस्येहा भवत् पुनः । 
ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥
तस्माद्विराळ जायत विराजो अधिपुरुषः ।
स जातो अत्यरिच्यत पश्र्चाद भूमिमयो पुरः ॥ ५ ॥
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासी दाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्र्च ये ॥ ७ ॥
तस्मात् यज्ञात् सर्व हुतः सम्भृतं पृषदाज्यम् ।
पशून्तांश्र्चक्रे वायव्या नारण्यान् ग्राम्याश्च ये ॥ ८ ॥
तस्मात् यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्मात् यजुस्तस्माद् अजायत ॥ ९ ॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १० ॥
यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कीं बाहू का उरु पादा उच्येते ॥ ११ ॥
ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ।
उरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥
चन्द्रमा मनसो जातश्र्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्र्चाग्निश्र्च प्राणाद्वायुरजायत ॥ १३ ॥
नाम्या आसी दन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकॉ अकल्पयन् ॥ १४ ॥
सप्तास्यासन् परिधयः त्रिः सप्तः समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥
फलश्रुती ( विष्णू सूक्त )
हरि ॐ 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे 
पृथिव्याः सप्त धामभिः ॥ १ ॥
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूळ्हमस्य पांसुरे ॥ २॥
त्रिणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । 
अतो धर्माणि धारयन् ॥ ३ ॥
विष्णोः कर्माणि पश्यत यतो व्रतानी पस्पशे ।
इन्द्रस्य युज्यः सुखा ॥ ४ ॥
तदविष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुरा ततम् ॥ ५ ॥
तद्विप्रासो विपन्यवो जागृवॉंस समिंधते ।
विर्ष्णोयत् परमं पदम् ॥ ६ ॥
शांती मंत्र 
ॐ देवस्य त्वा सवितुः प्रसवेऽश्र्चिनोबाहुभ्यां पूष्णो हस्ताभ्यां अग्नेस्तेजसा सूर्यस्य वर्चसे न्द्रस्येंद्रियेणाभिषिंचामि । बलाय श्रिये यशसेन्नाद्याय ।
ॐ भुर्भुवः स्वः अमृताभिषेकोऽस्तु । 
शान्तिः पुष्टिस्तुष्टिश्र्चास्तु ।
ॐ शांतिः शांतिः शांतिः ॥ 

Purusha Sukta 
 पुरुषसूक्त


Custom Search

Saturday, November 8, 2014

Bruhaspati AshatottarShat Namavalihi बृहस्पती अष्टोत्तरशतनामावलिः


Bruhaspati AshatottarShat Namavalihi 
 These are the 105 names of Bruhaspatti. The names are in Sanskrit. When Guru is along with Rahu, ketu, Shani or Marsh in the horoscope it is better to recite/listen these names every day with devotion and faith to remove the bad effects of the above planets.
बृहस्पती अष्टोत्तरशतनामावलिः
१) ॐ गुरवे नमः २) ॐ गुणाकराय नमः ३) ॐ गोप्त्रे नमः ४) ॐ गोवराय नमः ५) ॐ गोपतिप्रियाय नमः ६) ॐ गुणिवे नमः ७) ॐ गुणवतां श्रेष्ठाय नमः ८) ॐ गुरुनां गुरवे नमः ९) ॐ अव्ययाय नमः १०) ॐ जेत्रे नमः ११) ॐ जयंताय नमः १२) जयदाय नमः १३) ॐ जीवाय नमः १४) ॐ अनंताय नमः १५) ॐ जयवहाय नमः १६) ॐ आंगिरसाय नमः १७) ॐ अध्वरमक्ताय नमः १८) ॐ विविक्ताय नमः १९ ) ॐ अध्वरकृत्पराय नमः २०) ॐ वाचस्पतये नमः २१) ॐ वशिने नमः २२) ॐ वश्याय नमः २३) ॐ वरिष्ठाय नमः २४) ॐ वाग्वाचक्षणाय नमः २५) ॐ चित्तशुद्धिकराय नमः २६) ॐ श्रीमते नमः २७) ॐ चैत्राय नमः २८) ॐ चित्रशिखन्डिजाय नमः २९) ॐ बृहद्रथाय नमः ३०) ॐ बृहद्भानवे नमः ३१) ॐ बृहस्पतये नमः ३२) ॐ अभीष्टदाय नमः ३३) ॐ सुराचर्याय नमः ३४) ॐ सुराराध्याय नमः ३५) ॐ सुरकार्य कृतोद्यमयाय नमः ३६) ॐ गीर्वाणपोषकाय नमः ३७) ॐ धन्याय नमः ३८) ॐ गिष्पतये नमः ३९) ॐ गिरिशाय नमः ४०) ॐ अनघाय नमः ४१) ॐ धीवराय नमः ४२) ॐ धीषणाय नमः ४३) ॐ दिव्यभूषणाय नमः ४४) ॐ देवपूजिताय नमः ४५) ॐ धनुर्धराय नमः ४६) ॐ दैत्यहन्त्रे नमः ४७) ॐ दयासराय नमः ४८) ॐ दयाकराय नमः ४९) ॐ दारिद्रनाशनाय नमः ५०) ॐ धन्याय नमः ५१) ॐ दक्षिणायन संभवाय नमः ५२) ॐ धनुर्मिनाधिपाय नमः ५३) ॐ देवाय नमः ५४) ॐ धनुर्बाणधराय नमः ५५) ॐ हरये नमः ५६) ॐ अंगोरोवर्श संजताय नमः ५७) ॐ आंगीरः कुलसंभवाय नमः ५८) ॐ सिन्धुदेशाधिपाय नमः ५९) ॐ धीमते नमः ६०) ॐ स्वर्णकायाय नमः ६१) ॐ चतुर्भुजाय नमः ६२) ॐ हेमांगदाय नमः ६३) ॐ हेमवपुशे नमः ६४) ॐ हेमभूषण भूषिताय नमः ६५) ॐ पुष्पनाथाय नमः ६६) ॐ पुष्प राग मणिमन्दन मन्दिकाशपुष्प समनाभाय नमः ६७) ॐ इंद्रद्यमर संघपाय नमः ६८) ॐ असमानबलाय नमः ६९) ॐ सत्व गुण सम्पद्विभावसे भूसुरभीष्टदाय नमः ७०) ॐ भूरियशसे नमः ७१) ॐ पुण्य विवर्धनाय नमः ७२) ॐ धर्मरुपाय नमः ७३) ॐ धनाध्यक्षाय नमः ७४) ॐ धनदाय नमः ७५) ॐ धर्मपालनाय नमः ७६) ॐ सर्व वेदार्थ तत्वज्ञाय नमः ७७) ॐ सर्व पद्वि निवारकाय नमः ७८) ॐ सर्व पाप प्रशमनाय नमः ७९) ॐ स्वरमतानुगतमराय नमः ८०) ॐ ऋग्वेदपारगाय नमः ८१) ॐ ऋक्ष राशि मार्ग प्रचारवते सदानन्दाय नमः ८२) ॐ सत्यसंधाय नमः ८३) ॐ सत्य संकल्प मानसाय नमः ८४) ॐ सर्वगमज्ञाय नमः ८५) ॐ सर्वज्ञाय नमः ८६) ॐ सर्व वेदान्तविदे नमः ८७) ॐ ब्रह्मपुत्राय नमः ८८) ॐ ब्रह्मणेषाय नमः ८९) ॐ ब्रह्म विद्या विशारदाय नमः ९०) ॐ समानाधिक निर्भुक्ताय नमः ९१) ॐ सर्व लोक वशंवदाय नमः ९२) ॐ ससुरासुर गन्धर्व वन्दिताय नमः ९३) ॐ सत्य भाषणाय नमः 
९४) ॐ बृहस्पतये नमः ९५) ॐ सुराचर्याय नमः ९६) ॐ दयावते नमः ९७) ॐ शुभलक्षणाय नमः ९८) ॐ लोकत्रयगुरवे नमः ९९) ॐ श्रीमते नमः १००) ॐ सर्वगाय नमः १०१) ॐ सर्वतो विभवे नमः १०२) ॐ सर्वेशाय नमः १०३) ॐ सर्वदतुष्टाय नमः १०४) ॐ सर्वदाय नमः १०५) ॐ सर्वपूजिताय नमः
॥ इति गुरु अष्टोत्तरशतनामावलिः संपूर्णा ॥

Bruhaspati AshatottarShat Namavalihi 
बृहस्पती अष्टोत्तरशतनामावलिः


Custom Search