Showing posts with label पुरुषसूक्त. Show all posts
Showing posts with label पुरुषसूक्त. Show all posts

Friday, November 21, 2014

Purusha Sukta पुरुषसूक्त


Purusha Sukta 
Purusha Sukta is in Sanskrit. It is a God Vishnu Sukta. Many Families at the time of performing daily pooja recite Purusha Sukta.
पुरुषसूक्त
हरि ॐ 
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।
स भूमिं विश्र्वतो वृत्वाऽत्यतिष्ठद्दशांङ् गुलम् ॥ १ ॥
पुरुष एवेदं सर्व यद् भूतं यच्च भव्यम् ।
उतामृत त्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥
एतावानस्य महिमाऽतोज्यायॉंश्र्च पूरुषः ।
पादोऽस्य विश्र्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥
त्रिपादूर्ध्वं उदैत्पुरुषः पादोस्येहा भवत् पुनः । 
ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥
तस्माद्विराळ जायत विराजो अधिपुरुषः ।
स जातो अत्यरिच्यत पश्र्चाद भूमिमयो पुरः ॥ ५ ॥
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो अस्यासी दाज्यं ग्रीष्म इध्मः शरद्धविः ॥ ६ ॥
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्र्च ये ॥ ७ ॥
तस्मात् यज्ञात् सर्व हुतः सम्भृतं पृषदाज्यम् ।
पशून्तांश्र्चक्रे वायव्या नारण्यान् ग्राम्याश्च ये ॥ ८ ॥
तस्मात् यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्मात् यजुस्तस्माद् अजायत ॥ ९ ॥
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ १० ॥
यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्य कीं बाहू का उरु पादा उच्येते ॥ ११ ॥
ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ।
उरु तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ १२ ॥
चन्द्रमा मनसो जातश्र्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्र्चाग्निश्र्च प्राणाद्वायुरजायत ॥ १३ ॥
नाम्या आसी दन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात् तथा लोकॉ अकल्पयन् ॥ १४ ॥
सप्तास्यासन् परिधयः त्रिः सप्तः समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५ ॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥
फलश्रुती ( विष्णू सूक्त )
हरि ॐ 
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे 
पृथिव्याः सप्त धामभिः ॥ १ ॥
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूळ्हमस्य पांसुरे ॥ २॥
त्रिणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । 
अतो धर्माणि धारयन् ॥ ३ ॥
विष्णोः कर्माणि पश्यत यतो व्रतानी पस्पशे ।
इन्द्रस्य युज्यः सुखा ॥ ४ ॥
तदविष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुरा ततम् ॥ ५ ॥
तद्विप्रासो विपन्यवो जागृवॉंस समिंधते ।
विर्ष्णोयत् परमं पदम् ॥ ६ ॥
शांती मंत्र 
ॐ देवस्य त्वा सवितुः प्रसवेऽश्र्चिनोबाहुभ्यां पूष्णो हस्ताभ्यां अग्नेस्तेजसा सूर्यस्य वर्चसे न्द्रस्येंद्रियेणाभिषिंचामि । बलाय श्रिये यशसेन्नाद्याय ।
ॐ भुर्भुवः स्वः अमृताभिषेकोऽस्तु । 
शान्तिः पुष्टिस्तुष्टिश्र्चास्तु ।
ॐ शांतिः शांतिः शांतिः ॥ 

Purusha Sukta 
 पुरुषसूक्त


Custom Search