Tuesday, May 19, 2015

Shri DurgaSaptashati Adhyay 5 श्रीदुर्गासप्तशती पञ्चमोऽध्यायः (५)


Shri DurgaSaptashati Adhyay 5 
Shri DurgaSaptashati Adhyay 5 is in Sanskrit. It is from Makandeya purana. The name of this Adhyay is Devya-Doot Samvado. Doot means messenger. Messenger of Demon king Shumbha is telling Goddess to come with him to marry with Demon Shumbha. Goddess told him that if Shumbha defeats her in a war then she will marry with him.
श्रीदुर्गासप्तशती पञ्चमोऽध्यायः (५)
विनियोगः 
ॐ अस्य श्रीउत्तरचरित्रस्य रुद्र  ऋषिः, महासरस्वती देवता, अनुष्टुप् छन्दः, भीमा शक्तिः, भ्रामरी बीजम्, सूर्यस्तत्त्वम्, सामवेदः स्वरुपम्, महासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः ।
ध्यानम् 
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं 
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा--
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
' ॐ क्लीं ' ऋषिरुवाच ॥ १ ॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्र्च हृता मदबलाश्रयात् ॥ २ ॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ३ ॥
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ४ ॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः ।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ५ ॥
तयास्माकं वरो दत्तो यथाऽऽपत्सु स्मृताखिलाः ।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ६ ॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्र्वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ७ ॥
देवा ऊचुः ॥ ८ ॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ९ ॥
रौद्रायै नमो नित्यायै गौर्यै धात्रै नमो नमः ।
ज्योत्स्नायै चेन्दरुपिण्यै सुखायै सततं नमः ॥ १० ॥
कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ११ ॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ १२ ॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ १३ ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै । १४ । नमस्तस्यै । १५ । नमस्तस्यै नमो नमः ॥ १६ ॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै ॥ १७ ॥
नमस्तस्यै । १८ । नमस्तस्यै नमो नमः ॥ १९ ॥ 
या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता । नमस्तस्यै ॥ २० ॥
नमस्तस्यै । २१ । नमस्तस्यै नमो नमः ॥ २२ ॥
या देवी सर्वभूतेषु निद्रारुपेण संस्थिता । नमस्तस्यै ॥ २३ ॥
नमस्तस्यै । २४ । नमस्तस्यै नमो नमः ॥ २५ ॥
या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता । नमस्तस्यै ॥ २६ ॥
नमस्तस्यै । २७ । नमस्तस्यै नमो नमः ॥ २८ ॥
या देवी सर्वभूतेषुच्छायारुपेण संस्थिता । नमस्तस्यै ॥ २९ ॥
नमस्तस्यै । ३० । नमस्तस्यै नमो नमः ॥ ३१ ॥
या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता । नमस्तस्यै ॥ ३२ ॥
नमस्तस्यै । ३३ । नमस्तस्यै नमो नमः ॥ ३४ ॥
या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता । नमस्तस्यै ॥ ३५ ॥
नमस्तस्यै । ३६ । नमस्तस्यै नमो नमः ॥ ३७ ॥
या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता । नमस्तस्यै ॥ ३८॥
नमस्तस्यै । ३९ । नमस्तस्यै नमो नमः ॥ ४० ॥
या देवी सर्वभूतेषु जातिरुपेण संस्थिता । नमस्तस्यै ॥ ४१ ॥
नमस्तस्यै । ४२ । नमस्तस्यै नमो नमः ॥ ४३ ॥
या देवी सर्वभूतेषु लज्जारुपेण संस्थिता । नमस्तस्यै ॥ ४४ ॥
नमस्तस्यै । ४५ । नमस्तस्यै नमो नमः ॥ ४६ ॥
या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता । नमस्तस्यै ॥ ४७ ॥
नमस्तस्यै । ४८ । नमस्तस्यै नमो नमः ॥ ४९ ॥
या देवी सर्वभूतेषु श्रद्धारुपेण संस्थिता । नमस्तस्यै ॥ ५० ॥
नमस्तस्यै । ५१ । नमस्तस्यै नमो नमः ॥ ५२ ॥
या देवी सर्वभूतेषु कान्तिरुपेण संस्थिता । नमस्तस्यै ॥ ५३ ॥
नमस्तस्यै । ५४ । नमस्तस्यै नमो नमः ॥ ५५ ॥
या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता । नमस्तस्यै ॥ ५६ ॥
नमस्तस्यै । ५७ । नमस्तस्यै नमो नमः ॥ ५८ ॥
या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता । नमस्तस्यै ॥ ५९ ॥
नमस्तस्यै । ६० । नमस्तस्यै नमो नमः ॥ ६१ ॥
या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता । नमस्तस्यै ॥ ६२ ॥
नमस्तस्यै । ६३ । नमस्तस्यै नमो नमः ॥ ६४ ॥
या देवी सर्वभूतेषु दयारुपेण संस्थिता । नमस्तस्यै ॥ ६५ ॥
नमस्तस्यै । ६६ । नमस्तस्यै नमो नमः ॥ ६७ ॥
या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता । नमस्तस्यै ॥ ६८ ॥
नमस्तस्यै । ६९ । नमस्तस्यै नमो नमः ॥ ७० ॥
या देवी सर्वभूतेषु मातृरुपेण संस्थिता । नमस्तस्यै ॥ ७१ ॥
नमस्तस्यै । ७२ । नमस्तस्यै नमो नमः ॥ ७३ ॥
या देवी सर्वभूतेषु भ्रान्तिरुपेण संस्थिता । नमस्तस्यै ॥ ७४ ॥
नमस्तस्यै । ७५ । नमस्तस्यै नमो नमः ॥ ७६ ॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ ७७ ॥
चितिरुपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै ॥ ७८ ॥
नमस्तस्यै । ७९ । नमस्तस्यै नमो नमः ॥ ८० ॥ 
स्तुता सुरैः पूर्वमभीष्टसंश्रया--
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरीश्र्वरी 
शुभानि भद्राण्यभिहन्तु चापदः ॥ ८१ ॥
या साम्प्रतं चोद्धतदैत्यतापितै--
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः 
सर्वापदो भक्तिविनम्रमूर्तिभिः ॥ ८२ ॥
ऋषिरुवाच ॥ ८३ ॥
एवं स्तवादियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ८४ ॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का ।
शरीरकोशतश्र्चास्याः समुद्भूताब्रवीच्छिवा ॥ ८५ ॥
स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः ।
देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ८६ ॥
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ८७ ॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ८८ ॥
ततोऽम्बिकां परं रुपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्र्च भृत्यौ शुम्भनिशुम्भयोः ॥ ८९ ॥
ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ९० ॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्र्वर ॥ ९१ ॥
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ९२ ॥
यानि रत्नानि मणयो गजाश्र्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ९३ ॥
ऐरावतः समानीतो गजरत्नं पुरन्दरात् ।
पारिजाततरुश्र्चायं तथैवोच्चैःश्रवा हयः ॥ ९४ ॥
विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे ।
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ९५ ॥
निधिरेष महापद्मः समानीतो धनेक्ष्वरात् ।
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥ ९६ ॥
छत्रं ते वारुणं गेहे काञ्चनस्त्रावि तिष्ठति ।
तथायं स्यन्दनवरो यः पुराऽऽसीत्प्रजापतेः ॥ ९७ ॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता ।
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ९८ ॥
निशुम्भस्याब्धिजाताश्र्च समस्ता रत्नजातयः ।
वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ९९ ॥
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते ।
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ १०० ॥
ऋषिरुवाच ॥ १०१ ॥
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥ १०२ ॥
इति चेति च वक्तव्या सा गत्वा वचनान्मम ।
यथा च्याभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥ १०३ ॥
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
सा देवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ १०४ ॥
दूत उवाच ॥ १०५ ॥   
देवि दैत्येश्र्वरः शुम्भस्त्रैलोक्ये परमेश्र्वरः ।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ १०६ ॥
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।
निर्जिताखिलदैत्यारिः स यदाह श्रृणुष्व तत् ॥ १०७ ॥
मम त्रैलोक्यमखिलं मम देवा वशानुगाः ।
यज्ञभागानहं सर्वानुपाश्र्नामि पृथक् पृथक् ॥ १०८ ॥
त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः ।
तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम् ॥ १०९ ॥   
क्षीरोदमथनोद्भूतमश्र्वरत्नं ममामरैः ।
उच्चैःश्रवससञ्ज्ञं तत्प्रणिपत्य समर्पितम् ॥ ११० ॥
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च  ।
रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ १११ ॥
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ११२ ॥
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ११३ ॥
परमैश्र्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ११४ ॥  
ऋषिरुवाच ॥ ११५ ॥
इतुक्ता सा देवी गम्भीरान्तः स्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ११६ ॥
देव्युवाच ॥ ११७ ॥
सत्यमुक्तं त्वया नात्र मिथ्या किंचित्त्वयोदितम् ।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्र्चापि तादृशः ॥ ११८ ॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ११९ ॥
यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ १२० ॥
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः ।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु ॥ १२१ ॥
दूत उवाच ॥ १२२ ॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः ।
त्रैलोक्ये कः पुमांस्तिष्ठदग्रे शुम्भनिशुम्भयोः ॥ १२३ ॥   
अन्येषामपि दैत्यानां सर्वे देवा किं पुनः स्त्री त्वमेकिका ॥ १२४ ॥
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥ १२५ ॥
सा त्वं गच्छ मयैवोक्ता पार्श्र्वं शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ १२६ ॥
देव्युवाच ॥ १२७ ॥
एवमेतद् बली शुम्भो निशुम्भश्र्चातिवीर्यवान् ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ १२८ ॥
स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः ।
तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् ॥ ॐ ॥ १२९ ॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या दूतसंवादो नाम पश्र्चमोऽध्यायः  ॥ ५ ॥
Shri DurgaSaptashati Adhyay 5 
श्रीदुर्गासप्तशती पञ्चमोऽध्यायः (५)


Custom Search

No comments: