Wednesday, August 5, 2015

Aditya Hrudayam Part 2/2 आदित्यहृदयम् भाग २/२


Aditya Hrudayam 
Aditya Hrudayam is in Sanskrit. It is a very pious and powerful stotra. It is from Bhavishottar Purana. Any devotee reciting it or listening it every day after taking a bath early in the morning, with faith, devotion and concentration is blessed by God Aditya (Surya ). It cures a diseased person. It gives money and property. It gives son/daughter. It gives victory in any endeavor and destroys enemies. Many more good things happen in the life and fulfilling the desires of such devotee.
आदित्यहृदयम् भाग २/२
एतन्मंत्रं समाहूय सर्वसिद्धिकरं परमं ।
ॐह्रीं हिमालीढं स्वाहा । ॐ ह्रीं निलीढं स्वाहा ।
ॐ ह्रीं मालीढं स्वाहा । इति मंत्रः ।
त्रिभिश्र्च रोगी भवति ज्वरी भवति पंचभिः ।
जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत् ॥ ९१ ॥
राक्षसेनाभिभूतस्य विकारान् श्रृणु पांडव ।
गायते नृत्यते नग्न आस्फोटयति धावति ॥ ९२ ॥
शिवारुतं च कुरुते हसते क्रंदते पुनः ।
एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्र्वरः ॥ ९३ ॥
किं पुनर्मानुषः कश्र्चिच्छलौचाचारविवर्जितः । 
पीडितस्य न संदेहो ज्वरो भवति दारुणः ॥ ९४ ॥
यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभयंकरम् ।
तदा सलिलमादाय जपेन्मंत्रमिमं बुधः ॥ ९५ ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ।
जयाय जयभद्राय हरिदश्र्वाय ते नमः ॥ ९६ ॥  
स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा । 
अन्यथा च भवेदेषो नश्यते नात्र संशयः ॥ ९७ ॥
स्तवस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे ।
उषलिप्ते शुचौ देशे नियतो वाग्यतः शुचिः ॥ ९८ ॥
वृतं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचिः ।
त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ९९ ॥
अष्टपत्रं लिखेत्पद्मं लिप्तगोमयमंडले । 
पूर्वपत्रे लिखेत्सूर्यमाग्नेये तु रविं न्यसेत् ॥ १०० ॥
याम्यायां च विवस्वंतं नैर्ऋत्यां तु भगं न्यसेत् ।
प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च ॥ १०१ ॥
आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव च ।
मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत् ॥ १०२ ॥
अतः परतरं नास्ति सिद्धिकामस्य पांडव ।
महातेजः समुद्यंतं प्रणमेत्स कृतांजलिः ॥ १०३ ॥
सकेसराणि पद्मानि करवीराणि चार्जुन ।
तिलतंडुलसंयुक्तकुशगंधोदकेन च ॥ १०४ ॥
रक्तचंदनमिश्राणि कृत्वा वै ताम्रभाजने ।
धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणिं स्पृशेत् ॥ १०५ ॥
मंत्रपूतं गुडाकेश चार्घ्यं दद्याद्गभस्तये ।
सायुधं सरथं चैव सूर्यमावाहयाम्यहम् ॥ १०६ ॥
स्वागतो भव । सुप्रतिष्ठितो भव । सन्निधौ भव ।
सन्निहितो भव । संमुखो भव । इति पंचमुद्राः ॥
स्फुटयित्वार्हयेत्सूर्यं भुक्तिं मुक्तिं लभेन्नरः ॥ १०७ ॥
ॐ श्रीं विद्यां किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा ।
ॐ श्रीं ह्रीं ह्रः हंसः सूर्याय नमः स्वाहा ।
ॐ श्रींह्रींखंखः लोकाय सर्वमूर्तये स्वाहा ।
ॐ ह्रूं मार्तंडाय स्वाहा । नमोऽस्तु सूर्याय सहस्त्रभानवे 
नमोऽस्तु वैश्र्वानरजातवेदसे । त्वमेव चार्घं प्रतिगृह्ण देव 
देवाधिदेवाय नमो नमस्ते ॥ १०८ ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे ।
दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते ॥ १०९ ॥
एहि सूर्यसहस्रांशो तेजोराशे जगत्पते ।
अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ११० ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे । 
ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥ १११ ॥
सर्वदेवाधिदेवाय आधिव्याधिविनाशिने ।
इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ ११२ ॥
नमः सूर्याय शांताय सर्वरोगविनाशिने ।
ममेप्सितं फलं दत्त्वा प्रसीद परमेश्र्वर ॥ ११३ ॥
ॐ नमो भगवते सूर्याय स्वाहा । ॐ शिवाय स्वाहा ।
ॐ सर्वात्मने सूर्याय नमः स्वाहा ।
ॐ अक्षय्यतेजसे नमः स्वाहा । 
सर्वसंकटदारिद्र्यं शत्रुं नाशय नाशय ।
सर्वलोकेषु विश्र्वात्मा सर्वात्मा सर्वदर्शकः ॥ ११४ ॥
नमो भगवते सूर्य कुष्ठरोगान् विखंडय । 
आयुरारोग्यमैश्र्वर्यं देहि देव नमोऽस्तु ते ॥ ११५ ॥ 
नमो भगवते तुभ्यमादित्याय नमो नमः ।
ॐ अक्षय्यतेजसे नमः । ॐ सूर्याय नमः । ॐ विश्र्वमूर्तये नमः । 
आदित्यं च शिवं विंद्याच्छिवमादित्यरुपिणम् ।
उभयोरंतरं नास्ति आदित्यस्य शिवस्य च ॥ ११६ ॥
एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः ।
उदये ब्रह्मणो रुपं मध्याह्ने तु महेश्र्वरः ॥ ११७ ॥
अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्र्च दिवाकरः ।
नमो भगवते तुभ्यं विष्णवे प्रभविश्र्णवे ॥ ११८ ॥
ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ।
श्रीसूर्याय सांगाय सपरिवाराय श्रीसूर्यनारायणायेदमर्घ्य न मम ॥ ११९ ॥
हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः ।
कृतघ्नघ्नाय सत्याय तस्मै सूर्यात्मने नमः ॥ १२० ॥
जयो जयश्र्च विजयो जितप्राणो जितश्रमः ।
मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ १२१ ॥
हरिथहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम् ।
प्रतिदिनमुदये नवं नवं शरणमुपैमी हिरण्यरेतसम् ॥ १२२ ॥
न च व्यालाः प्रबाधंते न व्याधिभ्यो भयं भवेत् ।
न नागेभ्यो भयं चैव न च भूतभयं क्वचित् ॥ १२३ ॥
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च ।
दुर्गतिं तरते घोरां प्रजां च लभते पशून् ॥ १२४ ॥
सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् ।
एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥ १२५ ॥
अश्र्वमेधसहस्त्रस्य च वाजपेयशतस्य च ।
कन्याकोटिसहस्त्रस्य दत्तस्य फलमाप्नुयात् ॥ १२६ ॥
इदमादित्यहृदयं योऽधीते सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महियते ॥ १२७ ॥
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः ।
प्रत्यक्षो भगवान् विष्णुर्येन विश्र्वं प्रतिष्ठितम् ॥ १२८ ॥
नवतिर्योजनं लक्षं सहस्त्राणि शतानि च ।
यावद्धटीप्रमाणेन तावच्चरति भास्करः ॥ १२९ ॥
गवां शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं लभते विद्वान शांतात्मा स्तौति यो रविम् ॥ १३० ॥
योऽधीते सूर्यहृदयं स फलं सकलं लभेत् ।
अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ १३१ ॥
ब्रह्मलोके देवलोके जायते मानुषेऽपि वा ।
जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ १३२ ॥
अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय ।
सूर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय ॥ १३३ ॥
विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे ।
स्वयंभुवे दीप्तसहस्त्र चक्षुषे सुरोत्तमायामिततेजसे  नमः ॥ १३४ ॥
सुरैरनेकैः परिसेविताय हिरण्यगर्भाय हिरण्मयाय ।
महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय ॥ १३५ ॥
आदित्यश्र्चार्चितो देव आदित्यः परमं पदम् ।
आदित्यो मातृकाभूत आदित्यो वाङ्मयं जगत् ॥ १३६ ॥
आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।
नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥ १३७ ॥
त्रिगुणं च त्रितत्त्वं च त्रयो देवास्रयोऽग्नयः ।
त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥ १३८ ॥
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ १३९ ॥
यस्योदयेनेह जगत्प्रबुध्द्यते प्रवर्तते चाखिलकर्मसिद्धये ।
ब्रह्मेंद्रनारायणरुद्रवंदितः स नः सदा यच्छतु मंगलं रविः ॥ १४० ॥
नमोऽस्तु सूर्याय सहस्त्ररश्मये सहस्त्रशाखान्वितसंभवात्मने ।
सहस्त्रयोगोद्भव भावभागिने सहस्त्रसंख्यायुगधारिणे नमः ॥ १४१ ॥
यन्मण्डलं दिप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
दरिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४२ ॥
यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तदेव रुपं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४३ ॥
यन्मंडलं ज्ञानमयं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरुपम् ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४४ ॥
यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
तत्सर्वंपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४५ ॥
यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुःसामसु संप्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४६ ॥
यन्मंडलं वेदविदो विदंति गायंति यच्चारणसिद्धसंघाः ।
यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४७ ॥
यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्र्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४८ ॥
यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १४९ ॥
यन्मंडलं विश्र्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५० ॥  
यन्मंडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५१ ॥ 
यन्मंडलं ब्रह्मविदो विदंति गायंति यच्चारणसिद्धसंघाः ।
यन्मंडलं वेदविदः स्मरंति पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५२ ॥
यन्मंडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेदं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १५३ ॥
मंडलाष्टमिदं पुण्यं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १५४ ॥
ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान्मकरकुंडलवान्किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥ १५५ ॥
सशंखचक्र रविमंडले स्थितं कुशेशयाक्रांतमनन्तमच्युतम् ।
भजामि बुध्द्या तपनीयमूर्तिं सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ १५६ ॥
एवं ब्रह्मादयो देवा ऋषयश्र्च तपोघनाः ।
कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥ १५७ ॥
वेदवेदांगशारीरं दिव्यदीप्तिकरं परम् ।
रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम् ॥ १५८ ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः । 
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ १५९ ॥
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १६० ॥
पंचमं तु सहस्त्रांशुः षष्ठं चै त्रिलोचनः ।
सप्तमं हरिदश्र्वश्र्च अष्टंम च विभावसुः ॥ १६१ ॥
नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ १६२ ॥
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।
दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति ॥ १६३ ॥
दद्रूकुष्टहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थप्रदं चैव सर्वकामफलप्रदम् ॥ १६४ ॥
यः पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ १६५ ॥
अग्निमीळे नमस्तुभ्यमिषेत्वोर्जेस्वरुपिणे ।
अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषांपते ॥ १६६ ॥
शन्नो देवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
पंचमायोपवेदाय नमस्तुभ्यं नमो नमः ॥ १६७ ॥
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्र्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः ॥ १६८ ॥
आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने ।
जन्मांतरसहस्त्रेषु दारिद्र्यं नोपजायते ॥ १६९ ॥
उदयगिरिमुपेतं भास्करं पद्महस्तं 
निखिलभुवननेत्रं रत्नरत्नोपमेयम् ।
तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां 
सुरवरमभिवंदे सुंदरं विश्र्ववंद्यम् ॥ १७० ॥
॥ इति श्रीभविष्योत्तरपुराणे आदित्यहृदयं संपूर्णम् ॥ 
Aditya Hrudayam 
आदित्यहृदयम्

Custom Search
Post a Comment