Tuesday, May 13, 2014

LaxmiNrusinha DwadashaNam Stotram लक्ष्मीनृसिंहद्वादशनामस्तोत्रम्


LaxmiNrusinha DwadashaNam Stotram
LaxmiNrusinha DwadashaNam Stotram is in Sanskrit. These are twelve pious names of God LaxmiNrusinha. Today (13th May 2014) we are celebrating God LaxmiNrusinha Jayanti. The day on which God LaxmiNrusinha killed demon Hiranyakashyapu. 
लक्ष्मीनृसिंहद्वादशनामस्तोत्रम् 
श्रीगणेशाय नमः ॥ 
अस्य श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रमन्त्रस्य पुरंदर ऋषिः । 
अनुष्टुप छन्दः । श्रीलक्ष्मीनृसिंहो देवता । 
श्रीलक्ष्मीनृसिंह-प्रीत्यर्थे द्वादशनामस्तोत्रमन्त्रजपे विनियोगः ॥ 
अथ ध्यानम् 
लक्ष्मीशोभितवामभागममलं सिंहासनं सुन्दरं 
सव्यं चक्रधरं निर्भयकरं वामेन चापं शरम् । 
सर्पाधीशकृतातपत्रममलं त्र्यक्षाम्भवक्षोरुहं 
 वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंह भजे ॥ 
इति ध्यानम् 
प्रथमं तु महाज्वालः द्वितीयं तूग्रकेसरिः । 
वज्रनखस्तृतीयं च चतुर्थं तु विदारणः ॥ १ ॥ 
सिंहास्यः पञ्चमं चैव षष्ठं काश्यपमर्दनः । 
सप्तमं रिपुहन्ता च अष्टमं देववल्लभः ॥ २ ॥ 
प्रल्हादराजो नवमं दशमं नन्दहस्तकः । 
एकादशं महारुद्रो द्वादशं करुणानिधिः ॥ ३ ॥ 
एतानि द्वादशनामानि नृसिंहस्य महात्मनः । 
मन्त्रराजेति विख्यातं महापापहरं शिवम् ॥ ४ ॥ 
क्षयापस्मारकुष्टादितापज्वरनिवारणम् । 
राजद्वारे तथा मार्गे सङ्ग्रामे रिपुसङ्कटे ॥ ५ ॥ 
गिरिगह्वरकेऽरण्ये व्याघ्रचोरभयोरगे । 
आवर्तनसहस्त्रेण लभते वाञ्छितं फलम् ॥ ६ ॥ 
॥ इति श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं संपूर्णम् ॥
LaxmiNrusinha DwadashaNam Stotram 
लक्ष्मीनृसिंहद्वादशनामस्तोत्रम्


Custom Search

No comments: