Wednesday, September 19, 2018

Samantrakam ShriGanapati Stotram समंत्रकं श्रीगणपति स्तोत्रम्


Samantrakam ShriGanapati Stotram 
Samantrakam ShriGanapati Stotram is in Sanskrit. It is created by Parampoojya Shri Vasuedevanand Sarawzti. Samantrakam means a stotra having mantras hidden in it. This stotra has a mantra hidden in it. The mantra is “ Gananam tvaam Ganapatim Havamahe kavim kavinam ujamastvam Jeshtarajam Brahmanam brahmanspat Aanha “ for finding it we have to wright 3rd letter from each line go up to the last line; then wright 12th letter from each line then mantra is readable.
या समंत्रक गणपति स्तोत्रांतील प्रत्येक ओळींतील तिसरे अक्षर एकामागोमाग लिहील्यानंतर परत प्रत्येक ओळींतील बारावें अक्षर लिहीले कीं " गणानांत्वां गणपतिं हवामहे कविंकवीनामुपमश्रवस्तमं ज्येष्ठ राजं ब्रह्माणां ब्रह्मणस्पत आनः शृण्वंनूतिभिः सीदसादनं " हा वेदोक्त मंत्र गुंफलेला आहे.
समंत्रकं श्रीगणपति स्तोत्रम् 
नमो गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः ।
स्मरणमाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ १ ॥
देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः ।
त्यक्त्वा त्वामिह कः कार्यसिद्धिं जंतुर्गमिष्यति ॥ २ ॥
स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ।
चरणस्मरणात्तेऽपि स्युर्ब्रह्माद्या यशस्विनः ॥ ३ ॥
परा परब्रह्मदाता सुराणां त्वं सुरो यतः ।
सन्मतिं देहि मे ब्रह्म-पते ब्रह्मसमीडित ॥ ४ ॥
उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि ।
कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ ५ ॥
इयं महेश ते लीला न परस्पर्श यतो मतिः ।
त्वां न हेरंब कुत्रापि परतन्त्रत्वमीश ते ॥ ६ ॥   
स त्वं कवीनां च कविर्देव आद्यो गणेश्र्वरः ।
अरविंदाक्ष विद्येश प्रसंनः प्रार्थनां शृणु ॥ ७ ॥
त्वमेकदन्त विघ्नेश देव शृण्वर्भकोक्तिवत् ।
सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ ८ ॥ 
श्रीविनायक ते दृष्ट्या कोपि नूनं भवेत्कविः ।
तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ ९ ॥
ममापराधः क्षन्तव्यो नतिभिः संप्रसीद मे ।
न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलं ॥ १० ॥
न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः ।
ज्ञाता वदान्य तेऽस्मीति ब्रुवे साधनवर्जितः ॥ ११ ॥
कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर ।
प्रणामं कुर्वेऽतोऽनेन सदानंद प्रसीद मे ॥ १२ ॥
॥ इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं समंत्रकं श्रीगणपतिस्तोत्रं संपूर्णम् ॥
Samantrakam ShriGanapati Stotram
समंत्रकं श्रीगणपति स्तोत्रम् 



Custom Search

No comments: