Showing posts with label श्रीमहामृत्युंजयकवचम्. Show all posts
Showing posts with label श्रीमहामृत्युंजयकवचम्. Show all posts

Monday, February 3, 2020

ShriMahaMrytyunJaya Kavacham श्रीमहामृत्युंजयकवचम्


ShriMahaMrytyunJaya Kavacham 
ShriMahamrutyunJay Kavacham is in Sanskrit. It is from Mahamrutyunjay Kalp. It is arises from Parvati-Ishwar discussion. Ishwar means God Shiva told this to Goddess Parvati, when she asked him about it.
श्रीमहामृत्युंजयकवचम् 
श्रीदेव्युवाच 
भगवन् सर्वधर्मज्ञ सृष्टिस्थिति लयात्मक ।
मृत्युंजयस्य देवस्य कवचं मे प्रकाशय ॥ १ ॥
श्रीईश्र्वर उवाच 
श्रृणुदेवी प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
मार्कण्डेयोऽपियद्धृत्वा चिरजीवी व्यजायत ॥ २ ॥
तथैव सर्व दिक्पाला अमरत्वमवाप्नुयुः ।
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुवुदाहृतम् ॥ ३ ॥
मृत्युंजयः समुद्दिष्टो देवता पार्वतीपतिः ।
देहारोग्य बलायुष्ट्वे विनियोगः प्रकीर्तितः ॥ ४ ॥
ॐ त्रयंबकं मे शिरः पातु, ललाटं मे यजामहे ।
सुगंधि पातु हृदयं, जठरं पुष्टिवर्धनम् ॥ ५ ॥
नाभिर्भ्रुवारुकमिव पातु मां पार्वतीपतिः ।
बंधनादूरुयुग्मं मे पातु, कामाङ्ग शासनः ॥ ६ ॥
मृत्योर्जानुयुगं पातु दक्षयज्ञ विनाशनः ।
जङ्घायुग्मं च मुक्षीय पातु मां चंद्रशेखरः ॥ ७ ॥
मामृताच्च पदद्वन्द्वं पातु सर्वेश्वरोहरः ।
अंसौ मे श्रीशिवः पातु नीलकंठश्च पार्श्वयोः ॥ ८ ॥
ऊर्ध्वमेव सदापातु, सोमसूर्याग्निलोचनः ।
अधःपातु सदाशंभु सर्वापद विनिवारणः ॥ ९ ॥
वारुण्यामर्धनारीशो वायव्यां पातु शंकरः ।
कपर्दी पातु कौबेर्यामैशान्यां ईश्र्वरोऽवतु ॥ १० ॥
ईशानःसलिले पायादघोरः पातु कानने ।
अंतरिक्षे वामदेवः पायात्तत्पुरुषो भुवि ॥ ११ ॥
श्रीकण्ठः शयने पातु भोजने नीललोहितः ।
गमने त्र्यंबकः पातु सर्व कार्येषु सुव्रतः ॥ १२ ॥
सर्वत्र सर्व देहं मे सदा मृत्युंजयोऽवतु ।
इति ते कथितं दिव्यं कवचं सर्वकामदम् ॥ १३ ॥       
सर्व रक्षाकरं सर्वे ग्रहपीडा निवारणम् ।
दुःखनाशनं पुण्यमायुरारोग्यदायकम् ॥ १४ ॥
त्रिसंध्यं यः पठेदेतन्मृत्युस्तस्य न विद्यते ।
लिखितं भुर्जपत्रे तु य इदं मे व्यधारयेत् ॥ १५ ॥
तं दृष्टैव पलायन्ते भूतप्रेतपिशाचकाः ।
डाकिन्यश्चैव योगिन्यः सिद्धगंधर्व राक्षसाः ॥ १६ ॥
बालग्रहादिदोषादि नश्यन्ति तस्य दर्शनात् ।
उपग्रहाश्चैव मारीभयं  चौराभिचारिणः ॥ १७ ॥
इदं कवचमायुष्यं कथितं तव सुंदरि ।
न दातव्यं प्रयत्नेन न प्रकाश्यं कदाच न ॥ १८ ॥
॥ इति महामृत्युंजयकल्पे श्रीदेवीश्वरसंवादे महामृत्युंजय कवचम् संपूर्णम् ॥
याचा पाठ केल्याने किंवा हे कवच धारण केल्याने सर्व अशुभ गोष्टींचा नाश होतो. शुभ गोष्टी प्राप्त होतात असे सांगितले जाते.साधकांनी स्वतःच अनुभव घ्यावा.  
ShriMahaMrytyunJaya Kavacham श्रीमहामृत्युंजयकवचम्  


Custom Search