Showing posts with label DevKrutLakshmi Stotram. Show all posts
Showing posts with label DevKrutLakshmi Stotram. Show all posts

Saturday, October 25, 2014

DevKrutLakshmi Stotram देवकृतलक्ष्मीस्तोत्रम्


DevKrutLakshmi Stotram 
DevKrutLakshmi Stotram is in Sanskrit. It is Stuti (Praise) of Goddess by all Gods.
देवकृतलक्ष्मीस्तोत्रम्
क्षमस्व भगवत्यंब क्षमाशीले परात्परे ।
शुद्धसत्त्वस्वरुपे च कोपादिपरिवर्जिते ॥ १ ॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २ ॥
सर्वसंपत्स्वरुपा त्वं सर्वेषां सर्वरुपिणी । 
रासेश्र्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोपितः ॥ ३ ॥
कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका ।
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्तलक्ष्मीच भूतले ॥ ४ ॥
वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती ।
गंगा च तुलसी त्वं च सावित्रीब्रह्मलोकतः ॥ ५ ॥
कुष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् ।
रासे रासेश्र्वरी त्वं च वृंदावनवने वने ॥ ६ ॥
कृष्णप्रिया त्वं भांडीरे चंद्रा चंदनकानने ।
विरजा चंपकवने शतशृंगे च सुंदरी ॥ ७ ॥
पद्मावती पद्मवने मालती मालतीवने ।
कुंददंती कुंदवने सुशीला केतकीवने ॥ ८ ॥
कदंबमाला त्वं देवी कदंबकाननेऽपि च ।
राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे ॥ ९ ॥
इत्युक्ता देवताः सर्वा मुनयो मनवस्तथा ।
रुरुदुर्नम्रवदनाः शुष्ककंठोष्टतालुकाः ॥ १० ॥
इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११ ॥
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् ।
सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् ।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ॥ १३ ॥
परमैश्र्वर्ययुक्तं च विद्यावंतं यशस्विनम् ।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥
हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत् ।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेदध्रुवम् ॥ १५ ॥
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् ।
हर्षानंदकरं शश्र्वद्धर्ममोक्षसुहृत्प्रदम् ॥ १६ ॥

॥ इति श्रीदेवकृतं लक्ष्मीस्तोत्रमं संपूर्णम् ॥

DevKrutLakshmi Stotram 
देवकृतलक्ष्मीस्तोत्रम्


Custom Search