Showing posts with label MantratmakaShlokaha. Show all posts
Showing posts with label MantratmakaShlokaha. Show all posts

Thursday, August 18, 2016

MantratmakaShlokaha मंत्रात्मकश्लोकाः


MantratmakaShlokaha 
MantratmakaShlokaha are in Sanskrit. These are composed by P.P.VasudevanandSaraswati.
मंत्रात्मकश्लोकाः
अनसूयात्रिसंभूतो दत्तात्रेयो दिगम्बरः ।
स्मर्तृगामी स्वभक्तानामुद्धर्ता भव संकटात् ॥ १ ॥
दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् ।
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥ २ ॥
दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् ।
योऽभोदभीष्टदः पातु स नः संतानवृद्धिकृत् ॥ ३ ॥
जीवयामास भर्तारं मृतं सत्या हि मृत्युहा ।
मृत्युंजयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥ ४ ॥
अत्रेरात्मप्रदानेन या मुक्तो भगवानृणात् ।
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥ ५ ॥
जपेच्छलोकमिमं देवपित्रर्षिपुंनृणापहं ।
सोऽनृणो दत्तकृपया परंब्रह्माधिगच्छति ॥ ६ ॥
अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनिः ।
तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ७ ॥
नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शांतिं प्रयच्छ मे ॥ ८ ॥
अनसूयासुत श्रीश जनपातकनाशन ।
दिगंबरं नमो नित्यं तुभ्यं मे वरदो भव ॥ ९ ॥
श्रीविष्णोरवतारोऽयं दत्तात्रेयो दिगंबरः ।
मालाकमंडलूच्छूलडमरुशङ्खचक्रधृक ॥ १० ॥
नमस्ते शारदे देवि सरस्वति मतिप्रदे ।
वस त्वं मम जिव्हाग्रे सर्वविद्याप्रदा भव ॥ ११ ॥
दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबंधुं मुकुंदम् ।
नैर्गुण्यं सनिविष्टं पथि परमपदं बोधयंतं मुनीनाम ।
भस्माभ्यंगं जटाभिः सुललितमुकुटं दिक्पटं दिव्यरुपं ।
सह्याद्रौ नित्यवासं प्रमुदितममलं सद्गुरुं चारुशीलम् ॥ १२ ॥
॥ इति श्री प.प.श्रीवासुदेवानंदसरस्वतीविरचिताः मंत्रश्लोकाः संपूर्णा ॥ 
MantratmakaShlokaha
 मंत्रात्मकश्लोकाः 




Custom Search