Showing posts with label Parashuram Stotram. Show all posts
Showing posts with label Parashuram Stotram. Show all posts

Wednesday, May 11, 2016

Parashuram Stotram परशुराम स्तोत्रम्


Parashuram Stotram 
Parshuram Stotram is in Sanskrit. It is a beautiful creation of Param Poojya Vasudevanand Saraswati.
परशुरामस्तोत्रम्
कराभ्यां परशुं चापं दधानं रेणुकात्मजम् ।
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ॥ १ ॥ 
नमामि भार्गवं रामं रेणुकाचित्तनंदन ।
मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनं ॥ २ ॥ 
भयार्तस्वजनत्राणतत्परं धर्मतत्परम् ।
गतवर्गप्रियं शूरं जमदग्निसुतं मतम् ॥ ३ ॥
वशीकृतमहादेवं दृप्तभूपकुलान्तकम् ।
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ॥ ४ ॥
परशु दक्षिणे हस्ते वामे च दधतं धनुः ।
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ॥ ५ ॥
शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितं ।
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनं ॥ ६ ॥
मार्गणाशोषिताब्घ्यंशं पावनं चिरजीवनं ।
य एतानि जपेद्रामनामानि स कृती भवेत ॥ ७ ॥
॥ इति श्री प. प. वासुदेवानंदसरस्वतीविरचितं श्रीपरशुरामस्तोत्रं संपूर्णम् ॥ 
Parashuram Stotram 
परशुराम स्तोत्रम्


Custom Search