Saturday, November 2, 2013

ShriKrishnaShtottarShatNam Stotram श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रं


ShriKrishnaShtottarShatNam Stotram 
ShriKrishnaShtottarShatNam Stotram is in Sanskrit. God Mahadev is telling this stotram to Goddess Parvati. He is telling her that this stotra gives bhukti and mukti both. Any devotee who recites this receives everything he requires till he is alive and at the end of life he receives mukti also by the blessings of God Shrikrishna. This is a very pious stotra and there is no other stotra which is as powerful as this one. This stotra consists of 108 very pious names of God ShriKrishna. This stotra is from Narad Pancharatre.

श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रं 
श्रीगोपालकृष्णाय नमः ॥ श्रीमहादेव उवाच ॥
श्रुणु देवि प्रवक्ष्यामि भुक्तिमुक्तिप्रसाधनम् ।
नाम्नामष्टोत्तरशतं कृष्णस्य परमात्मनः ॥ १ ॥
पूर्वकल्पे धरोद्धारे पृथिव्या शेषकेण च ।
संवादे परमाश्र्चर्यं श्रृणुष्व कमलानने ॥ २ ॥
नातः परतरं स्तोत्रं नातः परतरं तपः ।
नातः परतरा विद्या तीर्थं नातः परं परम् ॥ ३ ॥
वेदानां च यथा साम तीर्थानां मथुरापुरी ।
क्षेत्राणां काशिकादेवी मंत्राणां श्रीदशाक्षरः ॥ ४ ॥
वैष्णवानां वैष्णवीनां यथाहं त्वं तथा परा ।
आश्रमाणां यथा न्यासः सिद्धानां कपिलो यथा ॥ ५ ॥
आयुधानां यथा वज्रं धेनूनां कामदुग्यथा ।
मनोरथां प्रस्रवतां यथा नाम्नां शताष्टकम् ॥ ६ ॥
तत्तेऽहं संप्रवक्ष्यामि सावधानाऽवधारय ।
प्रणम्य वसुधादेवी शेषं संकर्षणात्मकम् ॥ ७ ॥
पप्रच्छ परया भक्त्या जनानां मुक्तिहेतवे ।
नाम्नामष्टोत्तरशतं श्रीकृष्णस्य रमापतेः ॥ ८ ॥
भूमिरुवाच ॥
कृष्णावतारे रोहिण्या रामेणापि त्वया सह ।
अलंकृतं जन्म पुंसामपि वृंदावनौकसाम् ॥ ९ ॥
तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
यस्योपाधिनियुक्तानि संति नामान्यनेकशः ॥ १० ॥
तेषु मुख्यानि नामानि श्रोतुकामा चिरादहम् ।
संकर्षणात्मानः स्तोत्रं यतो जानासि वामयम् ॥ ११ ॥
तत्तानि यानि नामानि वासुदेवस्य वासुके ।
नातः परतरं स्तोत्रं त्रिषु लोकेषु विद्यते ॥ १२ ॥
श्रीशेष उवाच ॥ वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ।
सर्वमङ्गलमूर्धन्यमणिमाद्यष्ट-सिद्धिदम् ॥ १३ ॥
महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ।
समस्तजपयज्ञानां फलदं पापनाशनम् ॥ १४ ॥
श्रृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ॥ १५ ॥
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ।
तस्मात्पुण्यतमं चैतत्स्तोत्रं पापप्रणाशनम् ॥ १६ ॥
ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य।
श्रीशेष ऋषिः ॥ अनुष्टुप् छन्दः ॥ श्रीकृष्णोदेवता ॥
श्रीकृष्णाष्टोत्तरशतनामजपे विनियोग: ॥
ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १७ ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रासिगदाशंखाम्बुजायुधः ॥ १८ ॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ १९ ॥
पूतनाजीवितहरः शकटासुरभंजनः । 
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ २० ॥ 
नवनीतनवाहारी मुचकुन्दप्रसादकः । 
षोडशस्रीसहस्रेशस्रिभङ्गो मधुराकृतिः ॥ २१ ॥ 
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः । 
वत्सपालनसंचारी धेनुकासुरभंजनः ॥ २२ ॥ 
तृणीकृततृणावर्तो यमलार्जुनभंजनः । 
उत्तानतालभेत्ता च तमालश्यामलाकृतिः ॥ २३ ॥ 
गोपगोपीश्र्वरो योगी सूर्यकोटिसमप्रभः । 
इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २४ ॥ 
वनमाली पीतवासाः पारिजातापहारकः । 
गोवर्धनाचलोद्भर्ता गोपालः सर्वपालकः ॥ २५ ॥ 
अजो निरंजनः कामजनकः कंजलोचनः । 
मदुहा मथुरानाथो द्वारकानायको बली ॥ २६ ॥ 
वृन्दावनान्तःसंचारी तुलसीदामभूषणः । 
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ २७ ॥ 
कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः । 
मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ २८ ॥ 
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । 
अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ २९ ॥ 
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकृत् । 
विदुराक्रूरवरदो विश्र्वरुपप्रदर्शकः ॥ ३० ॥ 
सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी । 
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिदायकः ॥ ३१ ॥ 
जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । 
वृषभासुरविध्वंसी बाणासुरबलान्तकृत् ॥ ३२ ॥ 
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । 
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ ३३ ॥ 
कालीयफणिमाणिक्यरंजितश्रीपदाम्बुजः । 
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ ३४ ॥ 
नारायणः परंब्रह्म पन्नगाशनवाहनः । 
जलक्रीडासमासक्तगोपीवस्रापहारकः ॥ ३५ ॥ 
पुण्यश्र्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । 
सर्वतीर्थात्मकः सर्वग्रहरुपी परात्परः ॥ ३६ ॥ 
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । 
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ ३७ ॥ 
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । 
कृष्णनामामृतं नाम परमानन्ददायकम् ॥ ३८ ॥ 
अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम् । 
दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ ३९ ॥ 
पठतां श्रृण्वतां चैव कोटिकोटिगुणं भवेत् । 
पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ ४० ॥ 
धनावहं दरिद्राणां जयेच्छूनां जयावहम् । 
शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ ४१ ॥ 
वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् । 
समस्तकामदं सद्यःकोटिजन्माघनाशनम् । 
अन्ते कृष्णस्मरणदं भवतापभयापहम् ॥ ४२ ॥ 
कृष्णाय यादवेन्द्राय मानमुद्राय योगिने । 
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ ४३ ॥ 
इमं मंत्रं महादेवि जपन्नेव दिवानिशम् । 
सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ ४४ ॥ 
पुत्रपौत्रेः परिवृतः सर्वसिद्धिसमृद्धिमान् । 
निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ॥ ४५ ॥ 
॥ इति श्रीनारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे उमामहेश्र्वरसंवादे 
धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

ShriKrishnaShtottarShatNam Stotram 
श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रं


Custom Search

No comments: