Showing posts with label पंचश्र्लोकि गणेशपुराण. Show all posts
Showing posts with label पंचश्र्लोकि गणेशपुराण. Show all posts

Wednesday, June 22, 2016

PanchaShloki Ganesh Puran पंचश्र्लोकि गणेशपुराण


PanchaShloki Ganesh Puran 
PanchaShloki Ganesh Puran is in Sanskrit. It is in short a Ganesh Puran with mentioning the demons killed by God Ganesh.
पंचश्र्लोकि गणेशपुराण 
श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरात् ।
तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा ।
संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनम् ।
कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुध्याप्तये ॥ १ ॥
संकष्ट्याश्च विनायकस्य च भवो स्थानस्य तीर्थस्य वै ।
दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् ।
तेभ्यो यैर्यदभीप्सितं गणपतिः तत्तत्प्रतुष्टो ददौ । 
ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ २ ॥
क्रीडाकाण्डमथो वदेत्कृतयुगे श्वेतच्छविः काश्यपः ।
सिंह्वाङ्कः सविनायको दशभुजो भूत्वाथ काशीं ययौ ।
हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवम् ।
त्रेतायां शिवनन्दनो दशभुजो जातो मयूरध्वजः ॥ ३ ॥
हत्वा तं कमलासुरं च सगणं  सिन्धु महादैत्यपम् ।
पश्चात् सिद्धिमतीसुतेकनलजस्तस्मै च ज्ञानं ददौ ।
द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरम् ।
संमर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥ ४ ॥
गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै ।
तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकत् ।
अश्वांको द्विभुजो सितो गणपतिम्लेच्छान्तकः स्वर्णदः ।
क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥ ५ ॥
एतश्लोकसुपंचकं प्रतिदिनं भक्त्या पठेद्यः पुमान ।
निर्वाणं परमं व्रजेन्स सकलान् भुक्त्वा सुभोगानपि ॥ ६ ॥
॥ इति पंचश्लोकि गणेशपुराण संपूर्णम् ॥
PanchaShloki Ganesh Puran 
पंचश्र्लोकि गणेशपुराण 


Custom Search