Wednesday, June 22, 2016

PanchaShloki Ganesh Puran पंचश्र्लोकि गणेशपुराण


PanchaShloki Ganesh Puran 
PanchaShloki Ganesh Puran is in Sanskrit. It is in short a Ganesh Puran with mentioning the demons killed by God Ganesh.
पंचश्र्लोकि गणेशपुराण 
श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरात् ।
तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा ।
संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनम् ।
कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुध्याप्तये ॥ १ ॥
संकष्ट्याश्च विनायकस्य च भवो स्थानस्य तीर्थस्य वै ।
दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् ।
तेभ्यो यैर्यदभीप्सितं गणपतिः तत्तत्प्रतुष्टो ददौ । 
ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ २ ॥
क्रीडाकाण्डमथो वदेत्कृतयुगे श्वेतच्छविः काश्यपः ।
सिंह्वाङ्कः सविनायको दशभुजो भूत्वाथ काशीं ययौ ।
हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवम् ।
त्रेतायां शिवनन्दनो दशभुजो जातो मयूरध्वजः ॥ ३ ॥
हत्वा तं कमलासुरं च सगणं  सिन्धु महादैत्यपम् ।
पश्चात् सिद्धिमतीसुतेकनलजस्तस्मै च ज्ञानं ददौ ।
द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरम् ।
संमर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥ ४ ॥
गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै ।
तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकत् ।
अश्वांको द्विभुजो सितो गणपतिम्लेच्छान्तकः स्वर्णदः ।
क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥ ५ ॥
एतश्लोकसुपंचकं प्रतिदिनं भक्त्या पठेद्यः पुमान ।
निर्वाणं परमं व्रजेन्स सकलान् भुक्त्वा सुभोगानपि ॥ ६ ॥
॥ इति पंचश्लोकि गणेशपुराण संपूर्णम् ॥
PanchaShloki Ganesh Puran 
पंचश्र्लोकि गणेशपुराण 


Custom Search

No comments: