Saturday, June 11, 2016

Shri Venkatesh SahasraNam Stotram श्रीव्यंकटेश सहस्रनाम स्तोत्रम्




Shri Venkatesh SahasraNam Stotram 
Shri Venkatesh SahasraNam Stotram is in Sanskrit. It is from Brahmanda Purana, Venkatachal Mahatyamy. It has arisen from the discussion in between Narad Rushi and Vashishtha Rushi. It is a collection of very pious one thousand names of God Venkatesh. Each and every name has got a specific meaning which mainly related to the God Venkatesh’s important deeds to help his devotees and all People, Rushies and Gods. Falashruti (benefits of listening, reciting or reading of Shri Venkatesh SahasraNam Stotram): All sins, any and all deceases and fear from death are averted and devotees/listener of this stotra receives all types of happiness, wealth and health. Fear from enemy and king/ kingdom is removed. There is no fear from Brahma Rakshas, Vetala, Kushmanda and evil people. Desirous of knowledge receives the knowledge; Desirous of wealth receives wealth. Such devotee lives a very long health and wealthy life. Devotee becomes victorious in the war; becomes successful in all his efforts. This stotra if listen/recited after Tulasi Pooja then such people go the Vaikuntha Loka after their death. Any devotee who recites this stotra after performing poojanam of God Venkatesha thrice in a day becomes wealthy in a month; in two months he becomes a leader; after three months he can have a direct talk with God Venkatesha. Devotees who are diverted to a wrong path are guided to right path. Those who are having an unstable mind are helped to make their mind strong.

श्रीव्यंकटेश सहस्रनाम स्तोत्रम् 
श्रीगणेशाय नमः ॥ श्रीवसिष्ठ उवाच ॥ 
भगवन् केन विधिना नामभिर्वेंकटेशश्र्वरम् । 
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ १ ॥ 
श्रृणोमि तानि नामानी गुणयोगपराणि किम् । 
मुख्यवृत्तीनि किं ब्रूहि लक्षकाणि कथं परे ॥ २ ॥ 
नारद उवाच ॥ 
नामान्यनंतानि हरेर्गुणयोगानि कानि चित् । 
मुख्यवाचीनि चान्यानि लक्षकाणि पराणि हि ॥ ३ ॥ 
एवमाद्यैः सर्वशब्दैरेको ज्ञेयः परः पुमान् । 
आदिमध्यांतरहितः स्वव्यक्तोनन्तरुपधृक् ॥ ४ ॥ 
चंद्रार्कवह्निवाय्वाद्या ग्रहा दिष्टं नभो दिशः । 
अन्वयव्यतिरेकाभ्यां संत्यसंति च यन्मते । 
तस्य देवस्य नाम्नां हि पारं गंतुं तु कः क्षमः ॥ ५ ॥ 
अथ श्रीवेंकटेशस्य स्वाभिधानानिकानिचित् । 
 ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत । 
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥ ६ ॥ 
वेंकटेशस्य नाम्नांतु सहस्रस्य ऋषिर्विधिः । 
छन्दोऽनुष्टुप् तथा देवः श्रीवत्सांको रमाविभुः ॥ ७ ॥ 
बीजभूतस्तथोंकारो ब्रह्मा शक्तिश्र्च कीलकम् । 
ॐ नमो वेंकटेशाय मंत्रोयमिति कथ्यते ॥ ८ ॥ 
ध्यानम् 
ब्रह्मांडगर्भः कवचमस्रं चक्रगदाधरः । 
योगोभीष्टप्रसिद्ध्यर्थं ह्रदयं सामगायनः । 
वेंकटेशो विरुपाक्षो इति ध्यानं जगत्प्रभोः ॥ ९ ॥ 
श्री व्यंकटेश सहस्रनाम आरंभः । 
ॐ वेंकटेशो विरुपाक्षो विश्वेशो विश्वभावनः । 
विश्वसृड् विश्वसंहर्ता विश्वप्राणो विराट्प्रभुः ॥ १ ॥ 
शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः । 
शेषभृत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ २ ॥ 
विष्णुर्जिष्णुश्र्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः । 
भ्राजिष्णुश्र्च ग्रसिष्णुश्र्च वर्तिष्णुश्र्च भरिष्णुकः ॥ ३ ॥ 
कालयंता कालगोप्ता कालः कालांतकोखिलः । 
कालगम्यः कालकंठः कालकालः कलेश्र्वरः ॥ ४ ॥ 
शंभुः स्वयंभूरंभोजनाभिस्तंभितवारिधिः । 
अंभोधिनंदिनीजानिः शोणांभोजपदप्रभः ॥ ५ ॥ 
कंबुग्रीवः शंबरारिरुपः शंबरभक्षणः । 
बिंबाधरो बिंबरुपी प्रतिबिंबक्रियातिगः ॥ ६ ॥ 
गुणवान गुणगम्यश्र्च गुणातीतो गुणप्रियः । 
दुर्गुणध्वंसकृत्सत्तवगुणभृद्गुणभासकः ॥ ७ ॥ 
परेशः परमात्मा च परंज्योतिः परागतिः । 
परंपदं वियद्वासः पारंपर्यशुभप्रदः ॥ ८ ॥ 
ब्रह्मांडगर्भो ब्रह्मण्यो ब्रह्मसद्ब्रह्मबोधितः । 
ब्रह्मभृत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥ ९ ॥ 
सत्यव्रतार्थसंतृप्तः सत्यरुपी झपांगवान् । 
शंखप्राणापहारी च कच्छपो ह्यब्धिसंचरः ॥ १० ॥ 
देवासुरस्तुतिस्तुत्यः पतन्मंदरधारकः । 
धन्वन्तरिः कृपापांगः पयोनिधिविमंथकः ॥ ११ ॥ 
अमृतोऽमृतसंधाता नरनारायणीवपुः । 
हरमोहकमायावी रक्षःसंदोहभंजनः ॥ १२ ॥ 
हिरण्याक्षविदारी च यज्ञोयज्ञविभावनः । 
यज्ञेशोर्वीसमुद्धर्ता लीलाक्रोडः प्रतापवान् ॥ १३ ॥ 
दंडकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधवः । 
गंधर्वशापहरणः पुण्यगंधो विचक्षणः ॥ १४ ॥ 
करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः । 
श्वैतघोणो घूर्णितभ्रुर्धर्धरध्वनिविभ्रमः ॥ १५ ॥ 
द्राघिष्टोनीलकेशी च जाग्रदंबुजलोचनः । 
घृणावान् घृणिसंदोहो महाकालाग्निदीधितिः ॥ १६ ॥ 
ज्वालाकरालवदनो महोल्काकुलवीक्षणः । 
 सटाविभिन्नमेघौघो दंष्ट्रारुग्व्याप्तदिक् तटः ॥ १७ ॥ 
संमुखाकृष्टभुवनो निश्र्वासव्याप्तविश्वनट् । 
अंतर्भ्रमज्जगदग्दर्भोनंतब्रह्मकपालभृत् ॥ १८ ॥ 
उग्रोवीरो महाविष्णुर्ज्जलनः सर्वतोमुखः । 
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ १९ ॥ 
सभास्तंभोद्भवो भीमः शिरोदारी महेश्र्वरः । 
द्वादशादित्य चूडालः कल्पधामक्षपाछविः ॥ २० ॥ 
हिरण्यकोरःस्थलभिन्नखः सिंहमुखो महान् । 
प्रल्हादवरदो धीमान् भक्तसंधाप्रतिष्ठितः ॥ २१ ॥ 
ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः । 
लक्ष्मीनृसिंहो देवेशो ज्वालासिंहोंत्रमालिकः ॥ २२ ॥ 
खड्गीखेटी महेष्वासी कपाली मुसली हली । 
पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुंठनः ॥ २३ ॥ 
मौंजीयुक् छत्रिकोदंडी कृष्णाजिनधरो बटुः । 
अधीतवेदो वेदांतोद्धारको ब्रह्मवेशकः ॥ २४ ॥ 
अशून्यशयनप्रीत आदितेयोनघो हरिः । 
संपद्दः सामवेद्यश्र्च बलिवेश्मप्रपूजितः ॥ २५ ॥ 
बलिक्षालितपादाब्जो विंध्यावलिविमानितः । 
त्रिपादभूमिस्वीकर्ता विश्र्वरूपप्रदर्शकः ॥ २६ ॥ 
दीर्घस्र‍िविक्रमः स्वांघ्रिनखभिन्नांडखर्परं । 
पज्जातवाहिनी धारापवित्रितजगत्त्रयः ॥ २७ ॥ 
विधिसंमानितः पुण्यो दैत्ययोद्धा जयोर्जितः । 
सुरराज्यप्रदः शुक्रमदह्रत् सुजगत्पिता ॥ २८ ॥ 
जामदग्न्यः कुठारी च कार्तवीर्यविदारणः । 
रेणुकाकंठहरणो दुष्टक्षत्रियघातकः ॥ २९ ॥ 
वर्चस्वी दानशीलश्र्च धनुष्मान् बहुवित्तमः । 
अत्युदग्रः समग्रश्र्च न्यग्रोधो दुष्टनिग्रहः ॥ ३० ॥ 
रविवंशसमुद् भूतो राघवो भरताग्रजः । 
कौसल्यातनयो रामो विश्र्वामित्रप्रियंकरः ॥ ३१ ॥ 
ताटकारिः सुबाहुघ्नो बलातिबलमंत्रवान् । 
अहल्या शापविच्छेदी प्रविष्टजनकालयः ॥ ३२ ॥ 
स्वयंवरसभासभ्यो शिवचापप्रभंजनः । 
जानकीपरिणेता च जनकाधीशसंभ्रमः ॥ ३३ ॥ 
जमदग्नितनूजातयोधायोधाधिपोग्रणीः ।॥ 
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ ३४ ॥ 
ससीतश्र्चित्रकूटस्थो भरतहितराज्यकः । 
काकदर्पप्रहर्ता च दंडकारण्यवासकः ॥ ३५ ॥ 
पंचवट्यां विहारी च स्वधर्मपरिपोषकः ।
विराधहाऽगस्त्यमुख्यमुनिसंमानितः पुमान् ॥ ३६ ॥ 
चंडचापधरः खड्गधरश्र्चाक्षयसायकः । 
खरांतको दूशणारिस्रिशिरस्करिपुर्वृषः ॥ ३७ ॥ 
ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः । 
जटावान्पर्णशालास्थो मारीचघ्नो बलोत्कटः ॥ ३८ ॥ 
पक्षिराट्कृतसंवादो रवितेजा महाबलः । 
शबर्यानीतफलभुग् हनुमत्परितोषकः ॥ ३९ ॥ 
सुग्रीवाभयदो दैत्यकायक्षपणभास्करः । 
सप्ततालसमाघ्नातावालिह्रत्कपिसम्मतः ॥ ४० ॥ 
वायुसूनुकृतासेवस्त्यक्तपंपः कुशासनः । 
उदन्वत्तीरगः शूरो बिभीषणवरप्रदः ॥ ४१ ॥ 
सेतु कृद्दैत्यहा प्राप्तलंकोऽलंकारवान्स्वयम् । 
अतिकाय बलोत्सारी कुंभकर्णविमर्दनः ॥ ४२ ॥ 
दशकंठशिरःखंडी जांबवत्प्रमुखानतः । 
 जानकीशः सुराध्यक्षो साकेतेशः पुरातनः ॥ ४३ ॥ 
पुण्यश्र्लोको वेदवेद्दः स्वामितीर्थनिवासकः । 
लक्ष्मीसरः केलिलोलो लक्ष्मीशो लोकरक्षणः ॥ ४४ ॥ 
देवकीगर्भसंभूतो यशोदाक्षणलालितः । 
वसुदेवकृतस्तोत्रो नंदगोपमनोहरः ॥ ४५ ॥ 
चतुर्भुजः कोमलांगो गदावान्नीलकुंतलः । 
पूतनाप्राण ह्रत्कर्ता तृणावर्तासुराशनिः ॥ ४६ ॥ 
गर्गारोपितनामांको वासुदेवो ह्यधोक्षजः । 
गोपिकास्तन्यपानी च बलभद्रानुजोऽच्युतः ॥ ४७ ॥ 
व्याघ्रांगुलिजभूषश्र्च वत्सजिद्वत्सबंधनः । 
क्षीरसाराशनः कृष्णो दधिभांडप्रभेदकः ॥ ४८ ॥ 
नवनीतापहर्ता च नीलनीरदभासुरः । 
आभीरवैश्यजातीयविलोमैर्लालिताननः ॥ ४९ ॥ 
मातृदर्शितविश्र्वासो उलूखलनिबंधनः । 
नलकूवरशापांतो गोधूलिच्छुरितालकः ॥ ५० ॥ 
गोसंघरक्षकः श्रीशो वृन्दारण्यविहारणः । 
वत्सांतको बकद्वेषी दैत्तांबुदमहानिलः ॥ ५१ ॥ 
महाजगरचण्डाग्निः शकटप्राणसंकटः । 
इंद्रसेव्यः पुण्यगात्रः खरजिच्चडदीधितिः ॥ ५२ ॥ 
तालपक्वफलाशी च कालीयफणिदर्पहा । 
नागपत्नीस्तुतिप्रीतः प्रलंबासुरखंडनः ॥ ५३ ॥ 
दावाग्निभयसंहारी फलाहारी गदाग्रजः । 
गोपांगनाचेलचोरः पाथोलीलाविचक्षणः ॥ ५४ ॥ 
वंशगानप्रवीणश्र्च गोपीहस्तांबुजार्चितः । 
मुनिपत्न्याह्रताहारो मुनिप्रियः ॥ ५५ ॥ 
गोवर्धनाद्रिसंधर्ता संक्रंदनतमोपहः । 
सदुद्यानविलासश्र्च रासक्रीडापरायणः ॥ ५६ ॥ 
तरुण्यभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः । 
अक्रुरस्तुतिसंप्रीतः कुब्जायौवनदायकः ॥ ५७ ॥ 
मुष्टिकोरःप्रहारी च चाणूरोदरदारणः । 
मल्लयुद्धाग्रगण्यश्र्च पितृबंधनमोचनः ॥ ५८ ॥ 
मत्तमातंगपंचास्यः कंसग्रीवानिकृंतनः । 
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ ५९ ॥ 
कालनामबलिद्वेषी मुचुकुंदवरप्रदः । 
शाल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ ६० ॥ 
रुक्मिगर्वापहारी च रुक्मिणीनयनोत्सवः । 
प्रद्मुम्नजनकः कामः प्रद्मुम्नो द्वारकापतिः ॥ ६१ ॥ 
मणिहर्ता महामायो जांबवत्कृतसंगरः । 
जांबुनदांबरधरो गम्यो जांबवतीवुभुः ॥ ६२ ॥ 
सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः । 
शतधन्वहरः सिद्धः पांडवप्रियकोत्सुकः ॥ ६३ ॥ 
कालिंदीप्रार्थितारामकेलीकुंजावतंसकः । 
मंदारसुमनोभास्वान् शचीशाभीष्टदायः ॥ ६४ ॥ 
भद्राप्रियः सुभद्राया भ्राता नाग्नजितीविभुः । 
किरीटी कुंडलाकल्पः कल्पपल्लवलालितः ॥ ६५ ॥ 
भैष्मीप्रणयभाषावान् मित्रविंदाधिपोभयः । 
स्वमूर्तिकेलिसंप्रीतो लक्ष्मणादत्तमानसः ॥ ६६ ॥ 
प्राग्ज्योतिषाधिपोत्पाटी तत्सैन्यांतकरो दृढः । 
 भूमिस्तुतो भूरिभोगो भूषणांवरसंयुतः ॥ ६७ ॥ 
बहुरामाकृताह्लादो गंधमाल्यानुलेपनः । 
नारदाद् दृष्टचरितो देवेशो विश्र्वराङ्गुरुः ॥ ६८ ॥ 
बाणबाहुविरामश्र्च तापज्वरविनाशनः । 
उषाधर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥ ६९ ॥ 
माहेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः । 
 नृगराजोद्धारकश्र्च पौंड्रकादिवधोद्यतः ॥ ७० ॥
विविधारिच्छलोद्विग्रोब्राह्मणेषुा दयापरः । 
जरासंघ बलविद्वेषी केशिदैत्य भयङभयङ्करः ॥ ७१ ॥ 
चक्रीचैद्यांतकः सभ्यो राजबंधविपाटकः । 
राजसूयहविर्भोक्ता स्निग्धांगः शुभलक्षणः ॥ ७२ ॥ 
घानाभक्षणसंप्रीतः कुचेलाभीष्टदः पुमान् । 
सर्वारिगणगंभीरो द्रौपदीमानरक्षकः ॥ ७३ ॥ 
भीष्मध्यातो भक्तवश्यो भीमपूज्यो दयानिधिः । 
 दंतवक्त्रशिरश्छेदी कृष्णः कृष्णसखः स्वराट् ॥ ७४ ॥ 
वैजयंतीप्रमोदी च बर्हिबर्हविभूषणः । 
पांडुकौरवसंधानकारी दुःशासनांतकः ॥ ७५ ॥ 
बुद्धो विशुद्धः सर्वज्ञः ऋतुहिंसाविनिंदकः । 
त्रिपुरारेर्मानहर्ता सर्वावस्थाविकारवान् ॥ ७६ ॥ 
निर्विकारो निर्ममश्र्च निराभासो निरामयः । 
जगन्मोहक धर्मा च दिगवस्रो दिक्पतीश्वरः ॥ ७७ ॥ 
कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः । 
धर्मप्रतिष्ठाकारी च चातुर्वर्ण्यविभागकृत् ॥ ७८ ॥ 
युगांतको युगक्रांतो युगकृत्यप्रभासकः । 
कामादिः कामचारी च निष्कामः कामितार्थदः ॥ ७९ ॥ 
भर्गो वरेण्यः संशांतः शाङ्गर्गी वैकुण्ठमंदिरः । 
हयग्रीवः कैटभहा ग्राहहा गजरक्षकः ॥ ८० ॥ 
सच्चित्तसंशयच्छेत्ता सतां चित्तसमुन्नतिः । 
कपर्दी कामरुपोपि कलाकाष्ठा स्मृतिर्धृतिः ॥ ८१ ॥ 
अनादिरप्रधानौजाः प्रधानः सन्निरुपकः । 
 निर्लेपो निस्पृहोसंगो निर्भयो नीतिपारगः ॥ ८२ ॥ 
निष्क्रियो निष्प्रियः शांतो निष्प्रपंचो निधिर्नयः । 
कर्माकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥ ८३ ॥ 
कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः । 
नरो नारायणो दत्तः कपिलः कामदः शुचिः ॥ ८४ ॥ 
जप्ता तप्ता क्षमावांश्र्च गंता नेता लयो गतिः । 
शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानदः ॥ ८५ ॥ 
रोद्धा बोद्धा महायोद्धा श्रद्धावान् संपदः शुभः । 
मंत्री मंत्रो मंत्रगम्यो मंत्रकृत्परमंत्रह्रत् ॥ ८६ ॥ 
मंत्रभुक् मंत्रफलदो मंत्रेशो मंत्रविग्रहः । 
मंत्रांगो मंत्रविन्यासो महामंत्रो महाक्रमः ॥ ८७ ॥ 
स्थितधीः स्थितविज्ञानः स्थितप्रज्ञः स्थितासनः । 
स्थितयोगः स्थिताहारः स्थितमार्गः स्थितागमः ॥ ८८ ॥ 
निश्श्रेयसो निरीहोग्रिर्निरवद्यो निरंजनः । 
निर्वैरो निरहंकारो निर्दभो निरसूचकः ॥ ८९ ॥ 
अनंतो अनंतबाहुरुरनंतांघ्रिरनन्तकृत् ।
अनंतवक्त्रोऽनंतांगोऽनंतरुपोह्यनंतभृत् ॥ ९० ॥ 
ऊर्ध्वरेता ऊर्ध्वलिंग ऊर्ध्वमूर्ध्वोर्ध्वशाखिकः । 
ऊर्ध्वमूलोर्ध्वरक्षी च ऊर्ध्वज्वालो निराकुलः ॥ ९१ ॥ 
बीजं बीजप्रदो नित्यो निधानं निष्कृतिः कृती । 
महानणीयान् गरिमा सुषमाचित्रमालिकः ॥ ९२ ॥ 
नभश्र्चैव नभस्वांश्र्च ज्योतिरापो मही दिशः । 
आभूर्विभूः प्रभूः शंभुर्महीयान् भूर्भुवाकृतिः ॥ ९३ ॥ 
महानंदो महाशूरो महाराशिर्महोत्सवः । 
महाक्रोधो महाज्वालो महाशांतो महागुणः ॥ ९४ ॥ 
सत्यव्रतः सत्यपरः सत्यसंघ सदागतिः । 
सत्येशः सत्यसंकल्पः सत्यचारित्रलक्षणः ॥ ९५ ॥ 
अंतश्र्चरोंतरात्मा च परमात्मा चिदात्मकः । 
रोचनो रोचमानश्र्च साक्षी शौरिर्जनार्दनः ॥ ९६ ॥ 
मुकुंदो नंदनिष्पंदः स्वर्णबिंदुःपुरंदरः । 
अरींदमः समंदश्र्च कुंदमंदारवैभवः ॥ ९७ ॥ 
स्यंदनारुढचंडांगो गजस्कंधोढनंदनः । 
अनसूयानंदनोऽत्रिगोत्रानंदःसुकुंदवान् ॥ ९८ ॥ 
शंखवान्पंकजकरः कुंकुमांको जयांकुशः । 
अंभोजमकरदाढ्यो निष्पंकोऽगुरुपंकिलः ॥ ९९ ॥ 
इंद्रश्र्चंद्ररथश्र्चंद्रो निश्र्चंद्रो रुद्रवासकः । 
उपेंद्रः सांद्रराज्यांगो वागिंद्रश्र्चंद्रलेपनः ॥ १०० ॥ 
प्रत्यक् पराक् परंधाम परमार्थ परावरः । 
अपारवाक् पारगामी पारावारः परात्परः ॥ १०१ ॥ 
सहस्वानर्थ दाता च सहनः साहसी जयी । 
तेजस्वी वायुविशिखी तपस्वी तपसोत्तमः ॥ १०२ ॥ 
ऐश्र्वर्यो भूतिधृक् भूतिरैश्र्वर्यागकलापकः । 
अंभोधिशायी भगवांस्तत्त्वज्ञो ज्ञानपारगः ॥ १०३ ॥ 
महायोगी महाधीरो महाभोगी महाप्रभुः । 
महावीरो महातुष्टिर्महापुष्टिर्महागुणः ॥ १०४ ॥ 
महादेवो महाबाहुर्महाधर्मो महेश्र्वरः । 
समीपस्थो दूरगामी स्वयोनिर्योनिरर्गलः ॥ १०५ ॥ 
नगो नगधरो नागो नागेशो नागपालकः । 
हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः ॥ १०६ ॥ 
गुणागण्यः शरण्यश्र्च पुण्यकीर्तिः पुरागणः । 
जन्यभीर्जन्यसन्नद्धः पांचजन्यभुजोवशी ॥ १०७ ॥ 
दौर्जन्यभंगः पर्जन्यः सौजन्यनिलयोऽलयः । 
जलधरांतको भस्मदैत्यनाशी महामनाः ॥ १०८ ॥ 
श्रेष्ठो द्रढिष्ठो वर्षिष्ठो गरिष्ठो गरुडध्वजः । 
ज्येष्ठो यविष्ठो वासिष्ठो द्राघीयान् प्रणवः पणः ॥ १०९ ॥ 
संप्रदायकरः स्वामी स्वदेशो माधवो मधुः । 
निर्निमेषो विधिर्वेधा बलवाञ् जीवनं बली ॥ ११० ॥ 
श्रुतः श्रोता विकर्ता च भ्राता नेता समोसमः । 
होता पोता महावक्ता रंता मंता खलांतकः ॥ १११ ॥ 
धाता ग्राहयिता माता निर्यतानंतवैभवः । 
गोप्ता गोपाविता हंता धर्मजागरिता धवः ॥ ११२ ॥ 
कर्ता क्षेत्रकरः क्षेत्रक्रियः क्षेत्रज्ञ आत्मवान् । 
क्षेत्री क्षेत्रहरः क्षेत्रप्रदः क्षेत्रकरो मरुत् ॥ ११३ ॥ 
भुक्तिप्रदो मुक्तिदायी शक्तिदोयुक्तिदायकः । 
शक्तियुक् मौक्तिकस्रग्वी मुक्त आग्नायसूक्तिगः ॥ ११४ ॥ 
धनंजयो धनाध्यक्षो धनिको धनदाधिपः । 
महधनो महामानी दुर्योधनविमाननः ॥ ११५ ॥ 
रत्नाकरो रत्नसेवी रत्नगर्भाधरः शुचिः । 
रत्नसानुनिधिर्मौलिरत्नभा रत्नकंकणः ॥ ११६ ॥ 
अंतर्लक्ष्योंतरध्यानी ह्यंतर्ध्येयो जितासनः । 
अंतरंगदयावांश्र्च अंतर्मायामहार्णवः ॥ ११७ ॥ 
सरसीसिद्धिरसिकः सिद्धिसिद्धः सदागतिः । 
आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः ॥ ११८ ॥ 
अष्टश्रीरष्टभोगेष्टः ककुदोग्रिसमो व्रती । 
अपटश्र्च सुवर्णाभो ह्यष्टमूर्तिस्रिमूर्तिमान् ॥ ११९ ॥ 
अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः । 
दुःस्वप्नध्वंसकोध्वस्त दुर्निमित्तः शिवशंकरः ॥ १२० ॥ 
सुवर्णवर्णसंभाव्यो वर्णितो वर्णवन्मुखः । 
सुवर्णमुखरीतीरशिवध्यातपदांबुजः ॥ १२१ ॥ 
दाक्षायणीवर्णितांगो दुर्वासो दृष्टिगोचरः । 
अंबरीषव्रतप्रीतो महाकैतवभंजनः ॥ १२२ ॥ 
महाभिचारिकध्वंसी कालसर्पभयांतकः । 
संदृश्यहेमाब्जसरःस्नायी श्रीमंत्रभावितः ॥ १२३ ॥ 
श्रीप्रदत्तांबुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः । 
संतृप्ततर्पितस्तीर्थस्नातसौख्यप्रदर्शकः ॥ १२४ ॥ 
अगस्त्यस्तुतिसंह्रष्टो दर्शिताव्यक्तभावनः । 
कपिलार्चिः कपिलवाः सुस्नाताघविपाटनः ॥ १२५ ॥ 
वृषाकपिकपिस्वात मनोंतस्थितविग्रहः । 
वह्निप्रियो र्ध्वसंगिश्रीर्जनलोक विधायकः ॥ १२६ ॥ 
वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी । 
वारुणक्षेत्रनिलयो वरुणो वरुणार्चितः ॥ १२७ ॥ 
वायुर्वायुकृतस्थानो वायुगो वायुसंभृतः । 
यमांतकामिजननो यमलोकनिवारणः ॥ १२८ ॥ 
अग्रगण्यो नियमिनां संयमी यमभावितः । 
इंद्रोद्दानसमीपस्थ इंद्रदृग्विषयः पृथुः ॥ १२९ ॥ 
पक्षिराट् सरसीवासो ह्यक्षयो विधिलोककृत् । 
स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ॥ १३० ॥ 
वाराहाभीष्टतीर्थाब्दसेवितांघ्रिसरोरुहः । 
पांडुतीर्थाभिषिक्तश्र्च युधिष्ठिरवरप्रदः ॥ १३१ ॥ 
भीमांतःकरुणारुढः श्र्वेतवाहनसख्यवान् । 
नकुलाभयदो माद्रीसहदेवाभिवंदितः ॥ १३२ ॥ 
कृष्णाशपथसंधाता कुंतिस्तुतिरतो दमी । 
नारदीयमहातीर्थ नित्यकर्मपरायणः ॥ १३३ ॥ 
दर्शिताव्यक्तरुपश्र्च वीणागानप्रमोदितः । 
षट्कोटितीर्थचर्यावान् देवतीर्थकृतश्रमः ॥ १३४ ॥ 
बिल्वामलजलस्नायी सरस्वत्यंबुशोभितः । 
तुंबुरुदकसंस्पर्शिजनचित्ततमोपहः ॥ १३५ ॥ 
मत्स्यवामनकूर्मादितीर्थराजपरागभृत् । 
चक्रध्येयपदांभोजः शंखपूजितपादुकः ॥ १३६ ॥ 
रामतीर्थविहारी च बलभद्रप्रतिष्ठितः । 
जमदग्निसरित्तीर्थजलसेचनतर्पितः ॥ १३७ ॥ 
पापापहारिकीलालसुस्नाताघविनाशनः । 
नभोगंगाभिषिक्तश्र्च नागतीर्थाभिषेकवान् ॥ १३८ ॥ 
कुमारधारातीर्थस्थो बटुवेषः सुमेखली । 
वृद्धस्यसौकुमार्यत्वप्रदः सौंदर्यवान् सुखी ॥ १३९ ॥ 
प्रियंवदो महाकुक्षिरिक्ष्वाकुगमनो महान् । 
नीलगोक्षीरधाराभूर्वराहाचलनायकः ॥ १४० ॥ 
भरद्वाजप्रतिष्ठाता बृहस्पतिविभावितः । 
अञ्जनाकृत् पूजावानांजनेयकरार्चितः ॥ १४१ ॥ 
अञ्जनाद्रिनिवासश्र्च मुञ्जकेशः पुरंदरः । 
किन्नरद्वयसंबंधबंधमोक्षप्रदो मुनिः ॥ १४२ ॥ 
वैखानः सामगारंभः शुकज्ञेयो वृषो बली । 
द्वेषिकाय प्रभेत्ता च क्रीडनाचारसंभ्रमः ॥ १४३ ॥ 
सौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः । 
दुर्मेधभंजकः प्राज्ञो ब्रह्मोत्सवरतः कविः ॥ १४४ ॥ 
भद्रासुरशिरश्छेत्ता भद्रक्षेत्री सुभद्रवान् । 
मृगया क्षीणसन्नाहः शंखराजन्यतुष्टिदः ॥ १४५ ॥ 
स्थाणुंस्थो वैनतेयांतर्भावितो ह्यशरीरवान् । 
भोगींद्रभोगसंस्थानो ब्रह्मादिगणसेवितः ॥ १४६ ॥ 
सहस्रार्कच्छटाभास्वद्विमानांतः स्थितोग्रणी । 
विष्वक्सेनकृतस्तोत्रः सनंदनपरीवृतः ॥ १४७ ॥ 
जाह्नव्यादि नदीसेव्यः सुरेशाद्दभिवंदितः । 
सुरांगनानृत्यपरो गंधर्वोद्गायनप्रियः ॥ १४८ ॥ 
राकेंदुसंकाशनखः कोमलांघ्रिसरोरुहः । 
कच्छपप्रपदः कुंदुगुल्फकः स्वच्छकूपकः ॥ १४९ ॥ 
मेदुरस्वर्णवस्राढ्यकटिदेशः सुमेखलः । 
प्रोल्लसच्छुरिकामास्वत्कटिदेशः शुभंकरः ॥ १५० ॥ 
अनंतपद्मजस्थाननाभिर्मौक्तिकमालिकः । 
मंदारपञ्चकामाली रत्नाभरणसंभृतः ॥ १५१ ॥ 
प्रलंबयज्ञोपवीतश्र्चंद्र श्रीखण्डलेपवान् । 
वरदोऽभयदश्र्चक्रीशंखी कौस्तुभदीप्तिमान् ॥ १५२ ॥ 
श्रीवत्सांकितवक्षाश्र्च लक्ष्मीसंभूतह्रत्तटः । 
नीलोत्पलनिभाकारः शोणांभोजसमाननः ॥ १५३ ॥ 
कोटिमन्मथ लावण्यश्र्चंद्रिकास्मितपूरकः । 
सुधास्रवद्वचःशाली कस्तूरीतिलकांकितः ॥ १५४ ॥ 
पुण्डरीकेक्षणः स्वच्छमौलिशोभाविराजितः । 
पद्मस्थः पद्मनाभश्र्च सोममण्डलगो बुधः ॥ १५५ ॥ 
वह्निमंडलगः सूर्यः सूर्यमंडलगः प्रभुः । 
श्रीपतिर्भार्गवीजानिर्विमलाद्यादिसंवृतः ॥ १५६ ॥ 
जगत्कुटुंबी जनितारक्षकः कामितप्रदः । 
अवस्थात्रययंता च विश्वतैजसरुपवान् ॥ १५७ ॥ 
ज्ञप्तिज्ञेंयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः । 
ब्रह्मांडांतर्बहिर्व्याप्तो वेंकटाद्रिर्गदाधरः ॥ १५८ ॥ 
वेंकटाद्रिर्गदाधरः ॐनमइति ॥ ॥ सहस्रनाम संपूर्णा ॥ 
फलश्रुती 
एवं श्रीवेंकटेशस्य कीर्तनं परमाद्भुतम् । 
 नाम्नां सहस्रसंश्राव्यं पवित्रं पुण्यवर्द्धनम् ॥ १ ॥ 
श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् । 
दारिद्र्यभेदनं धर्म्यं सर्वैश्र्वर्यफलप्रदम् ॥ २ ॥ 
कालाहिविषविच्छेदं ज्वरापस्मारभंजनम् । 
शत्रु क्षयकरं राजग्रहपीडानिवारणम् ॥ ३ ॥ 
ब्रह्मराक्षस कूष्मांडवेतालभयकंटकम् । 
विद्याभिलाषी विद्यावान् धनार्थी धनवान्भवेत् ॥ ४ ॥ 
अनंतकल्पजीवी स्वादायुष्कामो महायशाः । 
संग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥ ५ ॥ 
दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् । 
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥ ६ ॥ 
कह्लारपूजनान्मासाद् द्वितीय इव पक्षिराट । 
नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥ ७ ॥ 
ह्रत्संस्थितैर्नामभिस्तु भूयाद् दृग्विषयो हरिः । 
वाच्छितार्थं तदा दत्त्वा वैकुण्ठं च प्रयच्छति ॥ ८ ॥ 
त्रिसंध्यं यो जपेन्नित्यं संपूज्य विधिना विभुम् । 
त्रिवारं पंचवारं वा प्रत्यहं क्रमशो यमी ॥ ९ ॥ 
मासेन लक्ष्यम्यावाप्तिः स्वाद् द्विमासात्स्यान्नरेंद्रता । 
त्रिमासान्महदैश्र्वर्य ततः संभाषणं भवेत् ॥ १० ॥ 
मार्गभ्रष्टश्र्च सन्मार्ग गतत्वः स्वंस्वकीयकम् । 
चांचल्यचित्तोऽचांचल्यं मनःस्थं गच्छति ध्रुवम् ॥ ११ ॥ 
न्यूनकर्मप्रपूर्तिं च कर्मणां समवाप्नुयात् । 
आयुरारोग्यमैश्र्वर्यं ज्ञानं मोक्षं च विंदति ॥ १२ ॥ 
॥ इतिश्रीब्रह्मांडपुराणे वसिष्ठनारदसंवादे वेंकटाचलमाहात्म्ये श्रीवेंकटशसहस्रनामस्तोत्रं संपूर्णम् ॥
Shri Venkatesh SahasraNam Stotram 

 श्रीव्यंकटेश सहस्रनाम स्तोत्रम्


Custom Search

No comments: