Thursday, July 27, 2017

Renuka Kavacham रेणुका कवचं


Renuka Kavacham 
Renuka Kavacham is in Sanskrit. It is from Damar Tantra. It is to be recited for the protection. Devotees of Goddess Renuka recite it daily with faith, devotion and concentration. Goddess Renuka fulfils their desires.
रेणुका कवचं
श्रीगणेशाय नमः ॥
श्रीरेणुकायै नमः । 
श्रीदेव्युवाच 
भगवान ब्रूहि कवचं भुक्तिमुक्तिप्रदायकम् ।
त्रैलोक्यामोहनं नाम कृपाया मे जगद्गुरो ॥ १ ॥
ईश्र्वर उवाच ।
श्रृणु देवी वरारोहे कवचं ब्रह्मरुपिणी ।
ब्रह्मेशप्रमुखाधीशनारायणमुखाच्युतम् ॥ २ ॥ 
कवचं रेणुकादेव्या यः पठेत्प्रयतो नरः ।
यच्छ्रुत्वा पठनाद्ब्रह्मा सृष्टिकर्ताभवत्प्रभुः ॥ ३ ॥
कृष्णो दूर्वादलश्यामो देवकीगर्भसंभवः ।
हृत्पद्मे रेणुकां ध्यात्वा ऋद्धिसिद्धिफलप्रदाम् ॥ ४ ॥
सर्वश्यामा भवंत्येता जनार्दनविभूतयः ।
एवं देवगणाः सर्वे सवैंश्र्वर्यमवाप्नुयुः ॥ ५ ॥
शिष्याय गुरुभक्ताय साधकाय प्रकाशयेत् ॥ ६ ॥
यो ददात्यन्यशिष्याय शठाय पशुरुपिणे ।
पंचत्वं जायते तस्य अथवा वातुलो भवेत् ॥ ७ ॥
कवच स्यास्य सुभगे योगी रुद्र ऋषिः स्वयम् ।
विराट्छंदो निगदितं देवता रेणुका परा ।
धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥ ८ ॥
क्लीं क्लीं क्लीं मे शिरः पातु भालं नेत्रयुगं तथा ।
रेणुका नेत्रयुगुलं क्लीं क्लीं नासापुटद्वयम् ॥ ९ ॥
राममाता च मे पातु सजिह्वं मुखमेव च ।
भुजयुग्मं तथा पातु क्लीं क्लीं मे त्र्यक्षरात्मिका ॥ १० ॥
कंठं च चुबंकं चैव रक्षेन्मे जगदंबिका ।
स्वाहावतु ब्रह्मरंध्रं महापुरनवासिनी ॥ ११ ॥  
क्लीं क्लीं मे रेणुका पश्र्चाद्रक्षेन्मे पादमेव च ।
क्लीं क्लीं मे हृदयं पातु क्लीं क्लीं मे पार्श्र्वमेव च ॥ १२ ॥
क्लीं क्लीं मे नाभिकमलं क्लीं क्लीं मे पृष्ठमेव च ।
क्लीं क्लीं द्विठांतमुदरमूरु युग्माक्षरी पुनः ॥ १३ ॥
रेणुका चैव मे गुह्यं स्वाहांतो मनुनायकः ॥ १४ ॥
जंघे सप्ताक्षरी पायात्पादौ मे षोडशाक्षरी ।
क्लीं क्लीं मे रेणुका पश्र्चाद्रेणुका पदमेव च ॥ १५ ॥
क्लीं क्लीं मे द्विफडंतेच स्वाहेति परीकीर्तिता ।
एकाक्षरी महाविद्या सर्वांगं मे सदावतु ॥ १६ ॥
प्राच्यां रक्षतु मां देवी आग्नेयां मातृका तथा ।
रेणुका दक्षिणे रक्षेद्राममाता च नैर्ऋते ॥ १७ ॥ 
विरोधिनी प्रतीच्यां मे वायव्यां जगदंबिका ।
उग्रा रक्षेदुदीच्यां च ईशान्यां सा प्रभावती ॥ १८ ॥
दीप्ता रक्षेत्त्वधोभागे नीला चैवोर्ध्वदेशिके ।
पुत्रमित्रकलात्रादीन्देवी रक्षतु सर्वदा ॥ १९ ॥
इति ते कथितं देवी सर्वमंत्रौघविग्रहम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरुपिणि ॥ २० ॥
ब्रह्मेशप्रमुखाधीशनारायणमुखाच्च्युतम् ।
कवचं रेणुकादेव्या यः पठेत्प्रयतो नरः ॥ २१ ॥
स सर्वसिद्धिमाप्नोति सत्यमेव न संशयः ।
गाने तु तुंबुरुः साक्षाद्दाने वै वासवो यथा ॥ २२ ॥
दत्तात्रेयसमो ज्ञाने गंगेव मलनाशकः ।
कामदेवसमो रुपे वायुतुल्यः पराक्रमे ॥ २३ ॥
स भवेत्साधकश्रेष्ठः सत्यं सत्यं मयोदितम् ।
न हन्यते गतिस्तस्य वायोरिव नभस्तले ॥ २४ ॥
शतमष्टोत्तरं चास्य पुरश्र्चर्याविधिः स्मृतः ।
हवनं तद्दशांशेन कृत्वा तत्साधयेध्द्रुवम् ॥ २५ ॥
यदि चेत्सिद्धकवचः शिवतुल्यो भवेत्स्वयम् ।
पठनाद्धारणात्सर्वा पृथ्वी काशीपुरीसमा ॥ २६ ॥
यत्र कुत्र विपन्नोपि वाराणस्यां मृतो भवेत् ।
न मंत्रो नौषधं तस्यय नाकालमरणं तथा ॥ २७ ॥
भवत्येव महेशानि कवचे दि संस्थिते ।
अश्र्वमेघसहस्त्राणि वाजपेयशतानि च ॥ २८ ॥
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।
कलां नार्हंति तान्येव सकृदुच्चारणादतः ॥ २९ ॥
पुष्पांजलि रेणुकायै मूलेनैव सदार्पयेत् । 
शतवर्षसहस्त्रायाः पूजायाः फलमाप्नुयात् ।
लिखित्वा भूर्जपत्रे तु बघ्नीयात्सर्वकार्यके ॥ ३० ॥
इदं कवचमज्ञात्वा यो भजेद्रेणुकां शिवाम् ।
शतलक्षं प्रजप्तोपि न मंत्रः सिद्धिदायकः ॥ ३१ ॥
इति श्रीडामरतंत्रे ईश्र्वरपार्वती संवादे रेणुकाकवचं संपूर्णम् ॥
Renuka Kavacham
रेणुका कवचं


Custom Search

No comments: