Saturday, June 21, 2014

Gurucharitra Adhyay 49 part 2/2


Gurucharitra Adhyay 49
Gurucharitra Adhyay 49is in Marathi. In this Adhyay GuruGeeta is told to Goddess Parvati by God Shankar is describing mahatmya of Guru. Name of this Adhyay is GuruGeeta Varnanam. 

एवं श्रुत्वा महादेवि, गुरुनिंदा करोति यः । स याति नरकं घोरं, यावच्चंद्रदिवाकरौ ॥ १०१ ॥ 
यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् । गुरुलोपो न कर्तव्यः, स्वच्छंदो यदि वा भवेत् ॥ १०२ ॥ 
हुंकारेण न वक्तव्यं, प्राज्ञैः शिष्यैः कथंचन । गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ १०३ ॥ 
गुरुं त्वं कृत्य हुं कृत्य, गुरुं निर्जित्य वादतः । अरण्ये निर्जले देशे, स भवेद् ब्रह्मराक्षसः ॥ १०४ ॥ 
मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि । कालमृत्युभयाद्वापि, गुरु रक्षिति पार्वति ॥ १०५ ॥ 
अशक्ता हि सुराद्याश्र्च, अशक्ता मुनयस्तथा । गुरुशापेन ते शीघ्रं, क्षयं यान्ति न संशयः ॥ १०६ ॥
मंत्रराजमिदं देवि, गुरुरित्यक्षरद्वयम् । स्मृतिवेदार्थवाक्येन, गुरुः साक्षात्परं पदम् ॥ १०७ ॥ 
श्रुति-स्मृती अविज्ञाय, केवलं गुरुसेवकाः । ते वै संन्यासिनः प्रोक्ता, इतरे वेषधारिणः ॥ १०८ ॥ 
नित्यं ब्रह्म निराकारं, निर्गुणं बोधयेत् परम् । सर्वं ब्रह्म निराभासं, दीपो दीपांतरं यथा ॥ १०९ ॥ 
गुरोः कृपाप्रसादेन, आत्मारामं निरीक्षयेत् । अनेन गुरुमार्गेण, स्वात्मज्ञानं प्रवर्तते ॥ ११० ॥ आब्रह्मस्तंबपर्यंतं, परमात्मस्वरुपकम् । स्थावरं जंगमं चैव, प्रणमामि जगन्मयम् ॥ १११ ॥ 
वंदेऽहं सच्चिदानंद, भेदातीत सदा गुरुम् । नित्यं पूर्णं निराकारं, निर्गुणं स्वात्मसंस्थितम् ॥ ११२ ॥ 
परात्परतरं ध्येयं, नित्यमानंदकारकम् । हृदयाकाशममध्यस्थं, शुद्धस्फटिकसन्निभम् ॥ ११३ ॥ स्फटिकप्रतिमारुपं, दृश्यते दर्पणे यथा । तथात्मनि चिदाकार-मानदं सोऽहमित्युत ॥ ११४ ॥ 
अंगुष्ठमात्रपुरुषं, ध्यायतश्र्चिमयं हृदि । तत्र स्फुरति भावो यः, श्रृणु तं कथाम्यहम् ॥ ११५ ॥ 
अगोचरं तथाऽगम्यं, नामरुपविवर्जितम् । निःशब्दं तद्विजानीयात्, स्वभावं ब्रह्म पार्वति ॥ ११६ ॥ 
यथा गंधः स्वभावेन, कर्पूरकुसुमादिषु । शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्र्वतम् ॥ ११७ ॥ 
स्वयं तथाविधो भूत्वा, स्थातव्यं यत्रकुत्रचित् । कीटभ्रमरवत्तत्र, ध्यानं भवति तादृशम् ॥ ११८ ॥ 
गुरुध्यानं तथा कृत्वा, स्वयं ब्रह्ममयो भवेत् । पिंडे पदे तथा रुपे, मुक्तोऽसौ नात्र संशयः ॥ ११९ ॥ 
स्वयं सर्वमयो भूत्वा, परं तत्त्वं विलोकयेत् । परात्परतरं नान्यत्, सर्वमेतन्निरालयम् ॥ १२० ॥ तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् । एकाकी निःस्पृहः शान्तस्तिष्ठासेत् तत्प्रसादतः ॥ १२१ ॥ 
लब्धं वाऽथ न लब्धं वा, स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं, सदा संतुष्टचेतसा ॥ १२२ ॥ सर्वज्ञपदमित्याहु-र्देही सर्वमयो बुधाः । सदानंदः सदा शान्तो, रमते यत्रकुत्रचित् ॥ १२३ ॥ 
यत्रैव तिष्ठते सोऽपि, स देशः पुण्यभाजनम् । मुक्तस्य लक्षणं देवि, तवाग्रे कथितं मया ॥ १२४ ॥ 
उपदेशस्तथा देवि, गुरुमार्गेण मुक्तिदः । गुरुभक्तिस्तथा ध्यानं, सकलं तव कीर्तितम् ॥ १२५ ॥ 
अनेन यद्भवेत्कार्यं, तद्वदामि महामते । लोकोपकारकं देवि, लौकिकं तु न भावयेत् ॥ १२६ ॥ 
लौकिकात्कर्मणो यान्ति, ज्ञानहीना भवार्णवम् । ज्ञानी तु भावयेत्सर्वं, कर्म निष्कर्म यत्कृतम् ॥ १२७ ॥ 
इदं तु भक्तिभावेन, पठते श्रृणुते यदि । लिखित्वा तत्प्रदातव्यं, दानं दक्षिणयासह ॥ १२८ ॥ 
गुरुगीतात्मकं देवि, शुद्धतत्त्वं मयोदितम् । भवव्याधिविनाशार्थं, स्वयमेव जपेत्सदा ॥ १२९ ॥ 
गुरुगीताक्षरैकं तु, मंत्रराजमिमं जपेत् । अन्ये च विविधा मंत्राः, कलां नार्हंति षोडशीम् ॥ १३० ॥ अनंतफलमाप्नोति, गुरुगीताजपेन तु । सर्वपापप्रशमनं, सर्वदारिद्र्यनाशनम् ॥ १३१ ॥ 
कालमृत्युभयहरं, सर्वसंकटनाशनम् । यक्षराक्षसभूतानां, चोरव्याघ्रभयापहम् ॥ १३२ ॥ 
महाव्याधिहरं सर्वं, विभूतिसिद्धिदं भवेत् । अथवा मोहनं वश्यं, स्वयमेव जपेत्सदा ॥ १३३ ॥ 
कुशेर्वा दूर्वया देवि, आसने शुभ्रकंबले । उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ १३४ ॥ 
ध्येयं शुक्लं च शांत्यर्थं, वश्ये रक्तासनं प्रिये । अभिचारे कृष्णवर्णं, पीतवर्णं धनागमे ॥ १३५ ॥ 
उत्तरे शांतिकामस्तु, वश्ये पूर्वमुखो जपेत् । दक्षिणे मारणं प्रोक्तं पश्र्चिमे च धनागमः ॥ १३६ ॥ 
मोहनं सर्वभूतानां, बंधमोक्षकरं भवेत् । देवराजप्रियकरं, सर्वलोकवशं भवेत् ॥ १३७ ॥ 
सर्वेषां स्तंभनकरं, गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव, सुकर्मसिद्धिदं भवेत् ॥ १३८ ॥ 
असिद्धं साधयेत्कार्यं, नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव, सुस्वप्नफलदायकम् ॥ १३९ ॥ 
सर्वशान्तिकरं नित्यं, तथा वंध्यासुपुत्रदम् । अवैधव्यकरं स्त्रीणां, सौभाग्यदायकं सदा ॥ १४० ॥ आयुरारोग्यमैश्र्वर्यं-पुत्रपौत्रप्रवर्धनम् । अकामतःस्त्री विधवा, जपानमोक्षमवाप्नुयात् ॥ १४१ ॥ 
अवैधव्यं सकामा तु, लभते चान्यजन्मनि । सर्वदुःखभयं विघ्नं, नाशयेच्छापहारकम् ॥ १४२ ॥ सर्वबाधाप्रशमनं, धर्मार्थकाममोक्षदम् । यं यं चिंतयते कामं, तं तं प्राप्नोति निश्र्चितम् ॥ १४३ ॥ 
कामितस्य कामधेनुः, कल्पनाकल्पपादपः । चिन्तामणिश्र्चिंतितस्य, सर्वमंगलकारकम् ॥ १४४ ॥ मोक्षहेतुर्जपेन्नित्यं, मोक्षश्रियमवाप्नुयात् । भोगकाम जपेद्यो वै, तस्य कामफलप्रदम् ॥ १४५ ॥ जपेच्छाक्तश्र्च सौरश्र्च, गाणपत्यश्र्च वैष्णवः । शैवश्र्च सिद्धिदं देवि, सत्यं सत्यं न संशयः ॥ १४६ ॥ 
अथ काम्यजपे स्थानं, कथयामि वरानने । सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ १४७ ॥ 
शक्तिदेवालये गोष्टे, सर्वदेवालये शुभे । वटे च धात्रीमूले वा, मठे वृंदावने तथा ॥ १४८ ॥ 
पवित्रे निर्मले स्थाने, नित्यानुष्ठानतोऽपि वा । निर्वेदनेन मौनेन, जपमेतं समाचरेत् ॥ १४९ ॥ 
स्मशाने भयभूमौ तु वटमूलान्तिके तथा । सिद्ध्यन्ति धौत्तरे मूले, चूतवृक्षस्य सन्निधौ ॥ १५० ॥ 
गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा । शुभकर्माणि सर्वाणि, दीक्षाव्रततपांसि च ॥ १५१ ॥ संसारमलनाशार्थं, भवपाशनिवृत्तये । गुरुगीतांभसि स्नानं, तत्त्वज्ञः कुरुते सदा ॥ १५२ ॥ 
स एव च गुरुः साक्षात्, सदा सद्ब्रह्मवित्तमः । तस्य स्थानानि सर्वाणि, पवित्राणि न संशयः ॥ १५३ ॥ 
सर्वशुद्धः पवित्रौऽसौ, स्वभावाद्यंत्र तिष्ठति । तत्र देवगणाः सर्वे, क्षेत्र पीठे वसन्ति हि ॥ १५४ ॥ 
आसनस्थः शयानो वा, गच्छँस्तिष्ठन् वदन्नपि । अश्र्वारुढो गजारुढः, सुप्तो वा जागृतोऽपि वा ॥ १५५ ॥ शुचिष्मांश्र्च सदा ज्ञानी, गुरुगीताजपेन तु । तस्य दर्शनमात्रेण, पुनर्जन्म न विद्यते ॥ १५६ ॥ 
समुद्रे च तथा तोयं, क्षीरे क्षीरं घृते घृतं । भिन्ने कुंभे यथाकाश-स्तथात्मा परमात्मनि ॥ १५७ ॥ 
तथैव ज्ञानी जीवात्मा, परमात्मनि लीयते । ऐक्येन रमते ज्ञानी, यत्र तत्र दिवानिशम् ॥ १५८ ॥ 
एवंविधो महामुक्तः, सर्वदा वर्तते बुधः । तस्य सर्वप्रयत्नेन, भावभक्तिं करोति यः ॥ १५९ ॥ 
सर्वसंदेहरहितो, मुक्तो भवति पार्वति । भुक्तिमुक्तिद्वयं तस्य, जिव्हाग्रे च सरस्वती ॥ १६० ॥ 
अनेन प्राणिनः सर्वे, गुरुगीताजपेन तु । सर्वसिद्धिं प्राप्नुवन्ति, भुक्तिं मुक्तिं न संशयः ॥ १६१ ॥ 
सत्यं सत्यं पुनः सत्यं, धर्मं साख्यं मयोदितम् । गुरुगीता समं नास्ति, सत्यं सत्यं वरानने ॥ १६२ ॥ 
एको देव एकधर्म, एकनिष्ठा परंतपः । गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ १६३ ॥ 
माता धन्या पिता धन्यो, धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि, गुरुभक्तिः सुदुर्लभा ॥ १६४ ॥ शरीरमिंद्रियं प्राणश्र्चार्थः स्वजनबांधवाः । माता पिता कुलं देवि, गुरुरेव न संशयः ॥ १६५ ॥ 
आकल्पं जन्मना कोट्या, जपव्रततपःक्रियाः । तत्सर्वं सफलं देवि, गुरुसंतोषमात्रतः ॥ १६६ ॥ विद्यातपोबलेनैव, मंदभाग्याश्र्च ये नराः । गुरुसेवां न कुर्वन्ति, सत्यं सत्यं वरानने ॥ १६७ ॥ ब्रह्मविष्णुमहेशाश्र्च, देवर्षिपितृकुन्नराः । सिद्धचारणयक्षाश्र्च, अन्येऽपि मुनयो जनाः ॥ १६८ ॥ 
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् । सर्वतीर्थाश्रयं देवि, पादाङ्गुष्ठं च वर्तते ॥ १६९ ॥ 
जपेन जयमाप्नोति, चानंतफलमाप्नुयात् । हीनकर्म त्यजन्सर्वं, स्थानानि चाधमानिच ॥ १७० ॥ 
उग्रध्यानं कुक्कुटस्थं, हीनकर्मफलप्रदं । गुरुगीतां प्रयाणे वा, संग्रामे रिपुसंकटे ॥ १७१ ॥ 
जपते जयमाप्नोति, मरणे मुक्तिदायकम् । सर्वकर्म च सर्वत्र, गुरुपुत्रस्य सिद्ध्यति ॥ १७२ ॥ 
इदं रहस्यं नो वाच्यं, तवाग्रे कथितं मया । सुगोप्यं च प्रयत्नेन, मम त्वं च प्रिया त्विति ॥ १७३ ॥ स्वामिमुख्यगणेशादिविष्ण्वादीनां च पार्वति । मनसापि न वक्तव्यं, सत्यं सत्यं वदाम्यहम् ॥ १७४ ॥ अतीवपक्वचिपारंपरत्ताय, श्रद्धाभक्तियुताय च । प्रवक्तव्यमिदं देवि, ममात्माङसि सदाप्रिये ॥ १७५ ॥ अभक्ते वंचके धूर्ते, पाखण्डे नास्तिके नरे । मनसापि न वक्तव्या, गुरुगीता कदाचन ॥ १७६ ॥ 
इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्र्वरपार्वती संवादे गुरुगीता समाप्ता । श्रीगुरुदेवदत्तात्रेयार्पणमस्तु ॥ याकारणें ईश्र्वरें पाहे । पार्वतीस बोध केला आहे । पारंपार मार्ग चालिला पाहे । गुरुसेवा सुदुर्लभ ॥ १४ ॥ विधाता आदिकरुनि । समस्त वंदिती याचिगुणीं । 
जो जाहला अंतर-मनोन्मनी । तोचि श्रेष्ठ सकळिकां ॥ १५ ॥ 
गुरुसेवा अनंत सुख । दूर होय समस्त दुःख । 
तोचि धन्य नर एक । या क्षितीवरी ॥ १६ ॥ 
वसिष्ठ वाल्मीक जनकादिक । समस्त नांव पावले गुरुसेवें निक । 
तुम्ही शहाणे चतुर विवेक । भजा भजा हो श्रीगुरुसी ॥ १७ ॥ 
सद्गुरुसी भजतां सद्भावेंसीं । सद्गति होईल तुम्हां भरंवसीं । 
याकारणें स्थिरमनेंसीं । शरण रिघावें श्रीगुरुमूर्तीस ॥ १८ ॥ 
गुरुमूर्तीसि संतोष होतां । त्रयमूर्ति तुष्टती तत्त्वता । 
वेदशास्त्रीं असे संमता । पारंपर गुरुमार्ग हा ॥ १९ ॥ 
पूर्वी युगायुगीं पाहे । आयुष्य फार नरदेहा । 
अनेक तप करिती सायास पाहे । मुक्ति होत त्या नरांसी ॥ २० ॥ 
आतां वर्तला कलि प्रबळ । वेदमार्ग राहिला सकळ । 
जन जाहले मूढ केवळ । ज्ञानहीन पशूपरी ॥ २१ ॥ 
या कलियुगामाझारीं । ज्ञानी जाहले मूढापरी । 
कांही नेणती अंधबधिरीं । मायापाशें वेष्टोनियां ॥ २२ ॥ 
याकारणें तुम्ही विद्वजन । ' गुरुभाव ' धरा स्थिरमनें । 
तुमचें तुटेल भवबंधन । श्रीगुरुराजप्रसादें ॥ २३ ॥ 
लाधे ज्यासी गुरुप्रसाद । त्यासी प्राप्त होय कैवल्यपद । 
दूरी होईल कामक्रोधमद । साध्य होईल पद-अच्युत ॥ २४ ॥ 
अवतार याकारणें । घेतला असे नारायणें । 
साधुजन उद्धरावयाकारणें । अवतरले कलियुगी श्रीगुरुमूर्ति ॥ २५ ॥ 
भूमिभार उतरावया । जन्म धरिला श्रीपादराया । 
दत्तात्रेय-अवधूतरायें । वेष धरिला नरदेहीं ॥ २६ ॥ 
देह धरुनि श्रीगुरुमूर्ति । समस्त उद्धरिले जडमति । 
अवतरले आपण लक्ष्मीपति । केवळ सात्विक रुपानें ॥ २७ ॥ 
जे जे असती भाविक जन । त्यांसी उद्धरी आपण । 
बळात्कारें जाई त्यांचिया भुवना । श्रीसद्गुरुराज योगी ॥ २८ ॥ 
आतां असो हें युक्तीचें कथन । भावें धरा हो सद्गुरुभजन । 
हातां चढेल उमारमण । श्रीगुरुप्रसादें ॥ २९ ॥ 
श्रीगुरुप्रसाद लाधे ज्यासी । त्यासी साध्य व्योमकेशी । 
निवारण करी मोहपाशासी । मग रहाल शाश्र्वत पदीं ॥ ३० ॥ 
संसार म्हणिजे भवसमुद्र । यासी करावा निःशेष भद्र । 
बळकट धरावी भाव मुद्रा । मग पावाल पैलपार ॥ ३१ ॥ 
गुरुभक्ति म्हणिजे कामधेनु । कल्पिलें होय मनकामनु । 
न धरावा मनीं तुम्ही अनुमानु । शरण रिघावें श्रीगुरुमूर्तीसी ॥ ३२ ॥ 
प्रसन्न होतां श्रीगुरु जाण । बाधों न शके यम आपण । 
जरी असेल पापक्षोण । लय होईल भरंवसें ॥ ३३ ॥ 
संपर्क होतां अग्नीसी । तृणबणवी होय भस्मसुरसी । 
तैशा तुमच्या सकळ पापराशी । निःशेष जातील परियेसा ॥ ३४ ॥ 
॥ इति श्रीगुरुचरित्रामृते परमकथाकल्पतरौ श्रीनृसिंहसरस्वत्युपाख्याने सिद्धनामधारकसंवादे 
सरस्वती-गंगाधरविरचिते गुरुगीतावर्णन नाम एकोनपंचाशत्तमोऽध्यायः ॥
Gurucharitra Adhyay 49 


Custom Search
Post a Comment