Tuesday, August 12, 2014

Narayanopnishad नारायणोपनिषद्


Narayanopnishad 
Narayanopnishad is in Sanskrit. It is said in it that everything is created by God Narayan. Everything on the earth and elsewhere is a form of God Narayan. There is everything as a roop of God Narayan. 
नारायणोपनिषद् 
हरिः ॐ सहस्त्रशीर्षं देवं विश्र्वाक्षं विश्र्वशंभुवम् । 
विश्र्वं नारायणं देवमक्षरं परमं पदम् ॥ १ ॥ 
विश्र्वतः परमान्नित्यं विश्र्वं नारायणं हरिम् । 
विश्र्वमेवेदं पुरुषस्तद्विश्र्वमुपजीवति ॥ २ ॥ 
पतिं विश्र्वस्याऽऽत्मेश्र्वरं शाश्र्वतं शिवमच्युतम् । 
नारायणं महाज्ञेयं विश्र्वात्मानं परायणम् ॥ ३ ॥ 
नारायणपरोज्योतिरात्मानारायणः परः । 
नारायणपरं ब्रह्मतत्त्वं नारायणः परः । 
नारायणोपरो ध्याता ध्यानं नारायणः परः ॥ ४ ॥ 
यच्चकिञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । 
अन्तर्बहिश्र्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ ५ ॥ 
अनन्तमव्ययंकविं समुद्रेन्तं विश्र्वशंभुवम् । 
पद्मकोशप्रतीकाशं हृदयंचाप्यधोमुखम् ॥ ६ ॥ 
अधोनिष्ट्यावितस्त्यान्ते नाभ्यामुपरि तिष्ठति । 
ज्वालमालाकुलभाती विश्र्वस्याऽऽयतनं महत् ॥ ७ ॥ 
संततं शिलाभिस्तु लम्बत्याकोशसन्निभम् । 
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ८ ॥ 
तस्यमध्ये महानग्निर्विश्र्वार्चिर्विश्र्वतोमुखः । 
सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः । 
तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य संतता ॥ ९ ॥ 
संतापयति स्वंदेहमापादतलमस्तकः । 
तस्यमध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ॥ १० ॥ 
नीलतोयदमध्यस्थात् विद्दुल्लेखेवभास्वरा । 
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥ ११ ॥ 
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । 
सब्रह्म सशिवः सहरिः सेन्द्रः सोक्षरः परमः स्वराट् ॥ १२ ॥ 
॥ इति नारायणोपनिषद् ॥
Narayanopnishad 
नारायणोपनिषद्


Custom Search

1 comment:

Jai said...

But you didn't illustrate the falshruti or the benefits of chanting this.