Sunday, March 15, 2015

Shri GanadhishaStotram श्रीगणाधीशस्तोत्रम्


Shri GanadhishaStotram 
ShriGanadhishaStotram is in Sanskrit. It is a praise of God Ganesh. God Ganesh is giver of Yoga and Shanti ( peace of Mind ). It is said in the Stotra that whosoever recites this stotra with devotion, faith and concentration daily is blessed with Peace and Yoga. This Stotra is from Mudgal Purana.
श्रीगणाधीशस्तोत्रम्
श्रीगणेशाय नमः ।
कर्दम उवाच ।
केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते । 
तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ १ ॥
कपिल उवाच ।
गणेश भजनं मुख्यं शान्तियोगप्रदं मतम् ।
योगकारस्वरुपं तं ब्रह्मेशं भज मानद ॥ २ ॥
सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
य आदिः प्रलयान्ते स तिष्टति शास्त्रसंमतम् ॥ ३ ॥
ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
गणाः समूहरुपाश्र्च तेषां स्वामी प्रकथ्यते ॥ ४ ॥
नानाजगत्स्वरुपं वैदेहरुपं कृतं मुने ।
नानाब्रह्ममयं तेन शिरः कृतं महात्मना ॥ ५ ॥
यस्माज्जातमिदं यत्र ह्यन्ते गच्छति महामते ।
तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ६ ॥
त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
तपोर्योगे गणेशोऽयं देहमस्तकयोर्गतः ॥ ७ ॥
चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्र्च पंचधा ।
मोहरुपा महासिद्धिर्बुद्धिश्र्च मोहधारका ॥ ८ ॥
तयोः स्वामी गणाधीशश्र्चित्ते नित्यं प्रतिष्ठितः ।
चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ९ ॥
पञ्चधा चित्तमुत्सृज्य तदैश्र्वर्यं तथैव च ।
योगः शान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ १० ॥
तस्मात्तं भज मंत्रेणैकाक्षरेण महामुने ।
तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ११ ॥

॥ इति श्रीमुद्गलपुराणे श्रीगणाधीशस्तोत्रं संपूर्णम् ॥ 



Custom Search

No comments: