Sunday, March 29, 2015

ShriSurya Stavarajaha सूर्यस्तवराजः


ShriSurya Stavarajaha 
ShriSurya Stavarajaha is in Sanskrit. It is a Surya Stuti. It is told by God Surya to King Samba. Samba was performing Surya Upasana as told by Vashishta Rushi.God Surya pleased by his upasana advised King Samba this Stavarajaha in his Sambas\s dream. As advised by God Surya King Samba performed Upasana as per Stvarajaha of God Surya and became free from the disease and got a good health. Not only freeness from diseases there is lot more can be obtained as a blessings from God Surya if anybody recites or listen this Stavarajaha daily and perform Surya Upasana as advised.Money, Fame, Success Property, Good Health, Good Job, Good Wife\Husband., Child all these can be received as a blessings from God Surya.
अथ सूर्यस्तवराजः
वसिष्ठ उवाच ।
स्तुवन्नासीत्ततः साम्बः कृशो धमनिसन्ततः ।
राजन्नामसहस्त्रेण सहस्त्रांशुं दिवाकरम् ॥ १ ॥
खिद्यमानं तु तं दृष्ट्वा सूर्यः कृष्णात्मजं तदा ।
स्वप्ने तु दर्शनं दत्त्वा पुनर्वचनमब्रवीत् ॥ २ ॥
श्रीसूर्य उवाच ।
साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत । 
अलं नामसहस्त्रेण पठस्वेमं स्तवं शुभम् ॥ ३ ॥
यानि नामानि गुह्यानि पवित्राणि शुभानि च ।
तानि ते कीर्तयिष्यामि श्रुत्वा तच्चावधारय ॥ ४ ॥
विकर्तनो विवस्वांश्र्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमान् लोकचक्षुर्ग्रहेश्र्वरः ॥ ५ ॥
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ।
तपनस्तापनश्र्चैव शुचिः सप्ताश्र्ववाहनः ॥ ६ ॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
एकविंशतिरित्येष स्तव इष्टः सदा मम ॥ ७ ॥
लक्ष्म्यारोग्यकरश्र्चैव धनवृद्धियशस्करः ।
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ८ ॥
य एतेन महाभाग द्वे सन्ध्येऽस्तमयोदये ।
स्तौति मां प्रणतो भूत्वा सर्वपापैः प्रमुच्यते ॥ ९ ॥
कायिकं वाचिकं चैव मानसं चैव दुष्कृतम् ।
एकजप्येन तत्सर्वं प्रणश्यति ममाग्रतः ॥ १० ॥
एष जप्यश्र्च होमश्र्च सन्ध्योपासनमेव च ।
बलिमन्त्रोऽर्घ्यमन्त्रश्र्च धूपन्त्रस्तथैव च ॥ ११ ॥
अन्नदाने च स्नाने च प्रणिपाते प्रदक्षिणे ।
पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः ॥ १२ ॥
एवमुक्त्वा तु भगवान भास्करो जगदीश्र्वरः । 
आमन्त्र कृष्णतनयं तत्रैवान्तरधीयत ॥ १३ ॥
साम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्र्ववाहनम् ।
पूतात्मा नीरुजः श्रीमान् बलैश्र्वर्ययुतोऽभवत् ॥ १४ ॥

॥ इति श्रीसाम्बपुराणे रोगापनयने श्रीसूर्यवक्त्रविनिर्गतः सूर्यस्तवराजः समाप्तः ॥     

ShriSurya Stavarajaha 
सूर्यस्तवराजः


Custom Search

No comments: