Tuesday, September 6, 2016

Vishnupadishtam GaneshNamashtakam Stotram विष्णूपदिष्टमं गणेशनामाष्टकं स्तोत्रम्


Vishnupadishtam GaneshNamashtakam Stotram 
Vishnupadishtam GaneshNamashtakam Stotram is in Sanskrit. God Vishnu is telling the meaning and importance of eight names of God Ganesh. Ganesh, Ekadant, Heramb, VighnaNayak, Lambodar, Shoorpakarna, Gajavakra and Guhagraja are these eight names. Ganesh—Ga means Intelligence, Na means Mukti, God of Intelligence and Mukti is called as Ganesh. Ek word means Main/leader and Dant means Power; hence he is called as Ekdant, whose is most powerful. He is for unable/poor people; Ramb means protector; He is called as Heramb.(protector of unable/poor people). Vighna means difficulties/troubles and Nayak means remover; Hence God who removes difficulties/troubles is called as VighnaNayak. God Vishnu and God Shiva had given different type of prasadam to eat and hence he has a big stomach; hence called as Lambodar. His ears are big for removing troubles of devotees, and indicator of blessing devotees with money/property and Knowledge; hence he is called as Shoorpakarna. He has a trunk like elephant. Hence he is called as Gajavakra. He came earlier to his younger brother Guha (Kartikeya) hence he is called as Guhagraja. These are the eight pious names of God Ganesh. Devotee is blessed by God Gnesh with wealth, health, happiness, victory everywhere, son, good wife, knowledge and anything he wish by chanting this stotra daily with faith, devotion and concentration. This Stotra is from Brahmavaivart Purana-Ganesh-Khanda.
विष्णूपदिष्टमं गणेशनामाष्टकं स्तोत्रम्
विष्णुरुवाच
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।
लम्बोदरं शूर्पकर्णं जगवक्त्रं गुहग्रजम् ॥ १ ॥
नामाष्टार्थं च पुत्र्यस्य श्रृणु मातर्हरप्रिये ।
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ २ ॥
ज्ञानार्थवाचको गश्र्च णश्र्च निर्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ३ ॥
एकशब्दः प्रधानार्थो दन्तश्र्च बलवाचकः ।
बलं प्रधानं सर्वास्मादेकदन्तं नमाम्यहम् ॥ ४ ॥
दीनार्थवाचको हेश्र्च रम्बः पालकवाचकः ।
दीनानां परिपालकं हेरम्बं प्रणमाम्यहम् ॥ ५ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारकं नमामि विघ्ननायकम् ॥ ६ ॥
विष्णुदत्तैश्र्च नैवेद्यैर्यस्य लम्बोदरं पुरा ।
पिता दत्तैश्र्च विविधैर्वन्दे लम्बोदरं च तम् ॥ ७ ॥ 
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ ।
सम्पदौ ज्ञानरुपौ च शूर्पकर्णं नमाम्यहम् ॥ ८ ॥
विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम् ।
तद्गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥ ९ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥ १० ॥    
एतन्नामाष्टकं दुर्गं नामभिः संयुतं परम् ।
पुत्रस्य पश्य वेदे च तदा कोपं तथा कुरु ॥ ११ ॥
एतन्नामाष्टकं स्तोत्रम् नानार्थसंयुतं शुभम् ।
त्रिसंध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ १२ ॥
ततो विघ्नाः पलायन्ते वैनतेयाद् यथोरगाः ।
गणेश्र्वरप्रसादेन महाज्ञानी भवेद् ध्रुवम् ॥ १३ ॥
पुत्रार्थी लभते पुत्रं भावार्थी विपुलां स्त्रियम् ।
महाजडः कवीन्द्रश्र्च विद्यावांश्र्च भवेद् ध्रुवम् ॥ १४ ॥ 
॥ इति श्रीब्रह्मवैवर्ते विष्णूपदिष्टं गणेशनामाष्टकं स्तोत्रम् सम्पूर्णम् ॥
Vishnupadishtam GaneshNamashtakam Stotram
विष्णूपदिष्टमं गणेशनामाष्टकं स्तोत्रम्


Custom Search

1 comment:

सोनाली said...

जगवक्त्रं OR GAJAVAKTRAM?