Friday, August 12, 2016

ShriSharda Stotram श्रीशारदा स्तोत्रम्


ShriSharda Stotram 
ShriSharda Stotram is in Sanskrit. It is a beautiful creation of P.P.Shri Shridhar Swami. It is a prise of Goddess Sharda. Goddess Sharda gives us Intelligence, Knowledge, Art of Singing, helps us in learning whatever we want to.
श्रीशारदा स्तोत्रम् 
विबुधवन्दिते बुधजनाश्रिते ।
जननि शारदे भवतु ते कृपा ॥ १ ॥
मतिविकासिते मतिविशोधिते ।
मतिवरार्चिते कुरु कृपां शिवे ॥ २ ॥
विमलबोधिते निजसुखात्मिके ।
यदि तु ते कृपा स तु सुखी भवेत् ॥ ३ ॥
जननि ते पदं जडविभासकं । 
स्फुरत् सर्वदा स्फुटतरं हृदि ॥ ४ ॥
चिदवलम्ब्य हेजननि मन इदम् ।
अति सुशोभनं विशतु तव पदम् ॥ ५ ॥
तव सुशोभनं विमलरुपकम् ।
जगति विस्तृतं कुरु दयान्विते ॥ ६ ॥
तव कृपान्विता जगति नैकशा ।
स्तिमिरहारकाः सन्तु बुधजनाः ॥ ७ ॥
मलहरात्मके विमलजनपुरे ।
जननि त्वं सदा निवस ज्ञानदे ॥ ८ ॥
जयतु जयतु नित्यं शारदा वेदमाता ।
जयतु जयतु देवी ज्ञानदा मोक्षदा च ।
जयतु जयतु या श्रीः सर्वदेवैरुपास्या ।
जयतु जयतु नित्यं भारती चित्स्वरुपा ॥ ९ ॥
॥ इति श्री प.प. श्री श्रीधरस्वामी विरचितम् श्रीशारदा स्तोत्रं संपूर्णम् ॥
ShriSharda Stotram 
श्रीशारदा स्तोत्रम् 


Custom Search

No comments: