Sunday, October 2, 2016

Kamalaya AshtottarShatNam Stotram कमलाया अष्टोत्तरशतनाम स्तोत्रम्


Kamalaya AshtottarShatNam Stotram
Kamalaya AshtottarShatNam Stotram is in Sanskrit. These are the 108 names of Goddess Kamala (Laxmi). These are told to Goddess Parvati by God Shiva. There are famous DashaMahaVidya. Ten Mahavidyas are having their own importantance and unique purpose of their presence; however all are created by Adimata or AdiShakti. Kamala is the Tenth MahaViddya and it gives wealth and in the end Vaikunth (Moksha) to the devotee.
कमलाया अष्टोत्तरशतनाम स्तोत्रम् 
श्रीशिव उवाच
शतमष्टोत्तरं नाम्नां कमलाया वरानने ।
प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १ ॥
महामाया महालक्ष्मीर्महावाणी महेश्र्वरी ।
महादेवी महारात्रिर्महिषासुरमर्दिनी ॥ २ ॥
कालरात्रिः कुहूः पूर्णानन्दाद्या भद्रिकानिशा । 
जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३ ॥
शचीन्द्राणी शक्रनुता शंकरप्रियवल्लभा ।
महावराहजननी मदनोन्मथिनी मही ॥ ४ ॥
वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता ।
विश्र्वेश्र्वरी विश्र्वमाता वरदाभयदा शिवा ॥ ५ ॥
शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी ।
गदिनी मुण्डमाला च कमला करुणालया ॥ ६ ॥
पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियंकरी ।
गोलोकनाथरमणी गोलोकेश्र्वरपूजिता ॥ ७ ॥
गया गङ्गा च यमुना गोमती गरुडासना ।
गण्डकी सरयू तापी रेवा चैव पयस्विनी ॥ ८ ॥
नर्मदा चैव कावेरी केदारस्थलवासिनी ।
किशोरी केशवनुता महेन्द्रपरिवन्दिता ॥ ९ ॥
ब्रह्मादिदेवनिर्माणकारिणी वेदपूजिता ।
कोटिब्रह्माण्डमध्यस्था कोटिब्रह्माण्डकारिणी ॥ १० ॥
श्रुतिरुपा श्रुतिकरी श्रुतिस्मृतिपरायणा ।
इन्दिरा सिन्धुतनया मातङ्गी लोकमातृका ॥ ११ ॥
त्रिलोकजननी तन्त्री तन्त्रमन्त्रस्वरुपिणी ।
तरुणी च तमोहन्त्री मङ्गलामङ्गलायना ॥ १२ ॥
मधुकैटभमथनी शुम्भासुरविनाशिनी । 
निशुम्भादिहरा माता हरिशङ्करपूजिता ॥ १३ ॥
सर्वदेवमयी सर्वा शरणागतपालिनी ।
शरण्या शम्भुवनिता गीतवाद्यपरायणा ॥ १४ ॥
सृष्टिरुपा सृष्टिकरी सृष्टिसंहारकारिणी ।
इति ते कथितं देवि रमानामशताष्टकम् ॥ १५ ॥
त्रिसन्ध्यं प्रयतो भूत्वा पठेदेतत्समाहितः ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः ॥ १६ ॥
इमं स्तवं यः पठतीह मर्त्यो वैकुण्ठपत्न्याः परमादरेण ।
धनादिपाद्यैः परिवन्दितः स्यात् प्रयास्यति श्रीपदमन्तकाले ॥ १७ ॥
॥ इति कमलाया अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Kamalaya AshtottarShatNam Stotram
कमलाया अष्टोत्तरशतनाम स्तोत्रम् 


Custom Search

No comments: