Saturday, July 2, 2016

Shri Aanjaneyashtottar ShatNam Stotram श्रीआंजनेयाष्टोत्तर शतनाम स्तोत्रम्


Shri Aanjaneyashtottar ShatNam Stotram
Shri Aanjaneyashtottar ShatNam Stotram is in Sanskrit. These are 108 pious names of Shri Hanuman. It is said in the stotra that a devotee who recites or listens these names every day, all his difficulties are removed and all his desires are fulfilled by the blessings of God Hanuman.
श्रीआंजनेयाष्टोत्तर शतनाम स्तोत्रम्
आंजनेयो महावीरो हनुमान्मारुतात्मजः ।
तत्त्वज्ञानप्रद स्सीतादेवी मुद्राप्रदायकः ॥ १ ॥
अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः ।
सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ॥ २ ॥
परविद्यापरीहारः परशौर्यविनाशनः ।
परमंत्रनिराकर्ता परयंत्र प्रभेदकः ॥ ३ ॥
सर्वग्रहविनाशीच भीमसेनसहायकृत् ।
सर्वदुःखहर स्सर्वलोकचारी मनोजवः ॥ ४ ॥
पारिजातद्रुमूलस्थ स्सर्वमंत्रस्वरुपवान् ।
सर्वतंत्रस्वरुपीच सर्वयंत्रात्मक स्तथाः ॥ ५ ॥
कपीश्वरो महाकाय स्सर्वरोगहरः प्रभुः ।
बलसिद्धिकर स्सर्वविद्यासंपत्प्रदायकः ॥ ६ ॥
कपिसेनानायकश्च भविष्यश्चतुराननः ।
कुमारब्रह्मचारीच रत्नकुंडलदीप्तिमान् ॥ ७ ॥
संचलद्वालसन्नद लंबमानशिखोज्ज्वलः ।
गंधर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ ८ ॥
कारगृहविमोक्ताच शृंखलाबंधमोचकः ।
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ ९ ॥
वानरः केसरीसूनुः सीताशोकनिवारणः ।
अंजनागर्भसंभूतो बालार्कसदृशाननः ॥ १० ॥
बिभीषणप्रियकरो दशग्रीवकुलांतकः ।
लक्ष्मणप्राणदाताच वज्रकायोमहाद्युतिः ॥ ११ ॥
चिरंजीवी रामभक्तो दैत्यकार्यविघातकः ।
अक्षहंता कांचनाभः पंचवक्त्रो महातपाः ॥ १२ ॥
लंखिणीभंजन श्रीमान् सिंहिकाप्राणभंजनः ।
गंधमादनशैलस्थो लंकापुरविदाहकः ॥ १३ ॥
सुग्रीवसचिवो धीर श्शूरो दैत्यकुलांतकः ।
सुरार्चितो महातेजा रामचूडमणिप्रदः ॥ १४ ॥
कामरुपी पिंगलाक्षो वार्धिमैनाकपूजितः । 
कबलीठृतमार्तांडमंडलो विजितेंद्रियः ॥ १५ ॥
रामसुग्रीवसंधाता महारावणमर्दनः । 
स्फटिकाखोवागधीशो नवव्याकृतिपंडितः ॥ १६ ॥
चतुर्बाहुर्दीनबंधु र्महात्मा भक्तवत्सलः ।
संजीवननगाहर्ता शुचिर्वाग्मीदृढव्रतः ॥ १७ ॥
कालनेमिप्रमथनो हरिमर्कट मर्कटः ।
दांतश्शांतः प्रसन्नात्मा शतकंठमदावहृत् ॥ १८ ॥
योगी रामकथालोल स्सीतान्वेषणपंडितः ।
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ १९ ॥  
इंद्रजित्प्रहिऽमोघ ब्रह्मास्त्रवीनिवारकः ।
पार्थध्वजाग्रसंवासी शरपंजरभेदकः ॥ २० ॥
दशबाहुर्लोकपूज्यो जांबवत्प्रीतिवर्धनः ।
सीतासमेत श्रीराम पादसेवाधुरंधरः ॥ २१ ॥
इत्येव श्रीहनुमते नाम्नामष्टोत्तरंशतम् ।
यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ २२ ॥
॥ इति कालिका रहस्ये श्रीआंजनेयाष्टोत्तर शतनाम स्तोत्रम् ॥
Shri Aanjaneyashtottar ShatNam Stotram 
श्रीआंजनेयाष्टोत्तर शतनाम स्तोत्रम्



Custom Search

No comments: