Friday, July 29, 2016

Shri MuralidharGopalashtakam श्रीमुरलीधरगोपालाष्टकम्


Shri MuralidharGopalashtakam 
Shri MuralidharGopalashtakam is in Sanskrit. It is created by P.P. Shri VasudevanandSaraswati. It is a God ShriKrishna stotra. God Shrikrishan is also called as Murlidhar. He holds Murali (flute) on his lips. He is also called as Gopal. Gopal means who protects cows and take them to the meadows for feeding.
श्रीमुरलीधरगोपालाष्टकम्
नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम् ।
शोणाधरं गिरिधरं भक्तदुःखहरं हरिम् ॥ १ ॥
सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि ।
कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय ॥ २ ॥
यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः ।
बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय ॥ ३ ॥ 
अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः ।
कारुण्यसिंधुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय ॥ ४ ॥
गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः ।
भक्तप्रियो यो दिविषद्वराय नमोऽस्तु तस्मै मुरलीधराय ॥ ५ ॥ 
यद्वेणुशब्दश्रवणेन सद्यो ह्यचेतनं चेतनतां परं च ।
तथान्यभावं प्रगतं पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ६ ॥ 
व्याजेन भर्तृत्वमितं विवर्णं त्यक्त्वा सती दग्धतनुर्बभूव ।
वेणुर्यदोष्ठामृतभाक्पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ७ ॥
गोपालाय नमस्तुभ्यमपराधान्क्षमस्व मे ।
कृपां कुरु दयासिन्धो सर्वान्कामान्प्रपूरय ॥ ८ ॥
॥ इति श्री परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं श्रीमुरलीधरगोपालाष्टकम् संपूर्णम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥  
Shri MuralidharGopalashtakam श्रीमुरलीधरगोपालाष्टकम्


Custom Search

No comments: